Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 74
________________ मूलं-२७ __ २५९ योजनशतसहस्राणि द्विपञ्चाशत्सहस्राणि अष्टौ च योजनशतानि अष्टचत्वारिंशदधिकानि ३९५२८४८ किञ्चिद्विशेषाधिकानि ‘परिक्षेपेण' परिधिना, इदं च परक्षेपपरिमाण 'विक्खंभवग्गदहगुणकरणी वट्टस्स परिरओ होइ' इति करणवशात् स्वयमानेत, सुगमत्वात् । 'सेणंएगेण' मित्यादि, तद्विमानकमेकेन प्राकारेण सर्वतः-सर्वासुदिक्षुसमहोइ' इतिकरणवशात् स्वयमानेत, सुगम-त्वात् । ‘से णं एगेण' मित्यादि, तद्विमानमेकेन प्रकाराण सर्वतः-सर्वासु दिक्षु समनन्ततः-सामस्त्येन परिक्षिप्तं । ___ 'सेणंपागारे इत्यादि, सप्राकारःत्रीणियोजनशतानि ऊर्ध्वमुच्चैस्त्वेन मूले एवं योजनशतं विष्कम्भेण मध्यभागे पञ्चाशत्, मूलादारभ्य मध्यभागं यावत् योजने योजने योजनविभागस्य विष्कम्भतम्सुटितत्वात्, उपरि-मस्तके पञ्चविंशतिर्योजनानि विष्कम्भेण, मध्यभागादारभ्योपरितनमस्तकं यावत् योजने योजने योजनषड्भागस्य विष्कम्भतो हीयमानतया लभ्यमानत्वात्, अत एव मूले विस्तीर्णो मध्ये संक्षिप्तः, पञ्चाशतो योजनानां त्रुटितत्वात्, उपरि तनुकः पञ्चविंशतियोजन-मात्रविरतारात्मकत्वात्, अत एव गोपुच्छसंस्थानसंस्थितः, 'सव्वरयणामए अच्छे' इत्यादि विशेषणजातं प्राग्वत्। __'से ण पागारे' इत्यादि, स प्राकारो 'नानाविहपंचवन्नेहि' इति नानाविधानि च तानि पञ्चवर्णानि च नानाविधपञ्चवर्णानि तैः, नानाविधत्वंचपञ्चवणपिक्षयाद्रष्टव्यं कृष्णादिवर्णतारतम्यापेक्षया वा,पञ्चवर्णत्वमेव प्रकटयति- 'कण्हेहिं' इत्यादि, 'ते णं कविसीसगा' इत्यादि, तानि कपिशीर्षकाणि प्रत्येकं योजनमेकमायामतो-दैर्येणार्द्ध योजनं विष्कम्भेण देशोनयोजनमुच्चैस्त्वेन 'सब्बरयणामया' इत्यादि विशेषणजातं प्राग्वत्। “सूरियाभस्स ण मित्यादि, एकैकस्यां बाहायां द्वारसहस्रमिति सर्वसङ्ख्यया चत्वारि द्वारसहस्राणि, तानिचद्वाराणि प्रत्येकंपञ्चयोजनशतान्यूज़उच्चैस्त्वेन अर्द्धतृतीयानियोजनशतानि विष्कम्भतः ‘तावइयंचेवे' ति अर्द्धतृतीयान्येव योजनशतानि प्रवेशतः ‘सेया' इत्यादि, तानि च द्वाराणि सर्वाण्युपरि श्वेतानि-श्वेतवर्णोपेतानि बाहुल्येनाङ्गरलमयत्वात् ‘वरकणगथूभियागा' इति वरकनका-वरकनकमयीस्तूपिका-शिखरं येषांतानितथा, 'ईहामिगउसभतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तचित्ता खंभुग्गयवरवयवेइयापरिगयाभिराणा विजाहरजमलजुयलजंतजुत्ताविवअच्चीसहस्समालिणीया रूवगसहस्सकलिया भिसमाणा भिभिसमाणा चक्खुल्लोयणलेसा सुहफासा सस्सिरीयरूवा' इति विशेषणजातं यानविमानव द्भावनीयं, 'वन्नो दाराणं तेसिंहोइ' इति तेषां द्वाराणां वर्ण-स्वरूपं व्यावर्णनमयं भवति, तमेव कथयति "तंजहे त्यादि, तद्यथा-'वइरामया निम्मा' इति नेमानाम द्राणां भूमिभागादूर्द्धनिष्कमन्तः प्रदेसास्ते सर्वे वज्रमया-वज्ररत्नमयाः, वज्रशब्दस्यदीर्घत्वं प्राकृतत्वात, एवमन्यमात्रापि द्रष्टव्यं, 'रिट्ठामया पइट्टाणा' रिष्ठमया-रिष्ठरत्नमयानि प्रतिष्ठानानि मूलपादाः 'वेरुलियमया खंभा' इति वैडूर्यरत्नमयाः स्तम्भाः जायसवोवचियपवरपंचवन्न(वर)मणिरयणकुट्टिमतला जातरूपेणसुवर्णेन उपचितैः-युक्तैः प्रवरैः-प्रधानैः पञ्चवर्णमणिभि-चन्द्रकान्तादिभि रत्नैः-कर्केतनादिभि कुट्टिमतलं-बद्धभूमितलं येषांते तथा 'हंसगब्ममया एलुया' हंसगर्भमया-हंसगर्भाख्यरत्नमया For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184