________________
मूलं-२७
__ २५९
योजनशतसहस्राणि द्विपञ्चाशत्सहस्राणि अष्टौ च योजनशतानि अष्टचत्वारिंशदधिकानि ३९५२८४८ किञ्चिद्विशेषाधिकानि ‘परिक्षेपेण' परिधिना, इदं च परक्षेपपरिमाण 'विक्खंभवग्गदहगुणकरणी वट्टस्स परिरओ होइ' इति करणवशात् स्वयमानेत, सुगमत्वात् । 'सेणंएगेण' मित्यादि, तद्विमानकमेकेन प्राकारेण सर्वतः-सर्वासुदिक्षुसमहोइ' इतिकरणवशात् स्वयमानेत, सुगम-त्वात् । ‘से णं एगेण' मित्यादि, तद्विमानमेकेन प्रकाराण सर्वतः-सर्वासु दिक्षु समनन्ततः-सामस्त्येन परिक्षिप्तं ।
___ 'सेणंपागारे इत्यादि, सप्राकारःत्रीणियोजनशतानि ऊर्ध्वमुच्चैस्त्वेन मूले एवं योजनशतं विष्कम्भेण मध्यभागे पञ्चाशत्, मूलादारभ्य मध्यभागं यावत् योजने योजने योजनविभागस्य विष्कम्भतम्सुटितत्वात्, उपरि-मस्तके पञ्चविंशतिर्योजनानि विष्कम्भेण, मध्यभागादारभ्योपरितनमस्तकं यावत् योजने योजने योजनषड्भागस्य विष्कम्भतो हीयमानतया लभ्यमानत्वात्, अत एव मूले विस्तीर्णो मध्ये संक्षिप्तः, पञ्चाशतो योजनानां त्रुटितत्वात्, उपरि तनुकः पञ्चविंशतियोजन-मात्रविरतारात्मकत्वात्, अत एव गोपुच्छसंस्थानसंस्थितः, 'सव्वरयणामए अच्छे' इत्यादि विशेषणजातं प्राग्वत्।
__'से ण पागारे' इत्यादि, स प्राकारो 'नानाविहपंचवन्नेहि' इति नानाविधानि च तानि पञ्चवर्णानि च नानाविधपञ्चवर्णानि तैः, नानाविधत्वंचपञ्चवणपिक्षयाद्रष्टव्यं कृष्णादिवर्णतारतम्यापेक्षया वा,पञ्चवर्णत्वमेव प्रकटयति- 'कण्हेहिं' इत्यादि, 'ते णं कविसीसगा' इत्यादि, तानि कपिशीर्षकाणि प्रत्येकं योजनमेकमायामतो-दैर्येणार्द्ध योजनं विष्कम्भेण देशोनयोजनमुच्चैस्त्वेन 'सब्बरयणामया' इत्यादि विशेषणजातं प्राग्वत्।
“सूरियाभस्स ण मित्यादि, एकैकस्यां बाहायां द्वारसहस्रमिति सर्वसङ्ख्यया चत्वारि द्वारसहस्राणि, तानिचद्वाराणि प्रत्येकंपञ्चयोजनशतान्यूज़उच्चैस्त्वेन अर्द्धतृतीयानियोजनशतानि विष्कम्भतः ‘तावइयंचेवे' ति अर्द्धतृतीयान्येव योजनशतानि प्रवेशतः ‘सेया' इत्यादि, तानि च द्वाराणि सर्वाण्युपरि श्वेतानि-श्वेतवर्णोपेतानि बाहुल्येनाङ्गरलमयत्वात् ‘वरकणगथूभियागा' इति वरकनका-वरकनकमयीस्तूपिका-शिखरं येषांतानितथा, 'ईहामिगउसभतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तचित्ता खंभुग्गयवरवयवेइयापरिगयाभिराणा विजाहरजमलजुयलजंतजुत्ताविवअच्चीसहस्समालिणीया रूवगसहस्सकलिया भिसमाणा भिभिसमाणा चक्खुल्लोयणलेसा सुहफासा सस्सिरीयरूवा' इति विशेषणजातं यानविमानव
द्भावनीयं, 'वन्नो दाराणं तेसिंहोइ' इति तेषां द्वाराणां वर्ण-स्वरूपं व्यावर्णनमयं भवति, तमेव कथयति
"तंजहे त्यादि, तद्यथा-'वइरामया निम्मा' इति नेमानाम द्राणां भूमिभागादूर्द्धनिष्कमन्तः प्रदेसास्ते सर्वे वज्रमया-वज्ररत्नमयाः, वज्रशब्दस्यदीर्घत्वं प्राकृतत्वात, एवमन्यमात्रापि द्रष्टव्यं, 'रिट्ठामया पइट्टाणा' रिष्ठमया-रिष्ठरत्नमयानि प्रतिष्ठानानि मूलपादाः 'वेरुलियमया खंभा' इति वैडूर्यरत्नमयाः स्तम्भाः जायसवोवचियपवरपंचवन्न(वर)मणिरयणकुट्टिमतला जातरूपेणसुवर्णेन उपचितैः-युक्तैः प्रवरैः-प्रधानैः पञ्चवर्णमणिभि-चन्द्रकान्तादिभि रत्नैः-कर्केतनादिभि कुट्टिमतलं-बद्धभूमितलं येषांते तथा 'हंसगब्ममया एलुया' हंसगर्भमया-हंसगर्भाख्यरत्नमया
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org