________________
२६०
राजप्रश्नीयउपाङ्गसूत्रम्-२७ एलुका-देहल्यः ‘गोमेजमया इंदकीला' इति गोमेजकरत्नमया इन्द्रकीलाः, 'लोहियक्खमईओ' लोहिताक्षरत्नमय्यःचेडाओ' इतिद्वारशाखा जोइरसमयाउत्तरंगा' इति द्वारस्योपरि तिर्यग्ववस्थितमुत्तर तानिज्योतीरसमयानि-ज्योतीरसाख्यरत्नात्मकानि 'लोहियकखमईओ' लोहिताक्षमय्यो लोहिताक्षरलाधिकाः सूचयः फलकद्वयसम्बन्धविघटनाभावहेतुः पाटुकास्थानीयाः ‘वइरामया संधी' वज्रमयाः सन्धयः सन्धिमेलाः फलकानां, किमुक्तं भवति।
वज्ररलपूरिताः फलकानां सन्धयः, 'नानामणिमया समुग्गया' इति समुद्का इव समुद्गकाः- शूचिकागृहाणि तानि नानामणिमयानि 'वयरामया अग्गला अग्गलपासाया' अर्गलाः-प्रतीताः अर्गलाप्रासादा यत्रार्गला नियम्यन्ते, आह च जीवाभिगममूलटीकाकार:-- "अर्गलाप्रासादो यत्रार्गला नियम्यन्ते इति" एते द्वये अपि वज्ररत्नमय्यौ ‘रययामयाओ आवत्तणपेढियाओ' इतिआवर्तनपीठिका नामयनेन्द्रकीलको भवति, उक्तञ्चविजयद्वारचिन्तायां जीवाभिगमसूलटीकाकारेण- "आवर्तनपीठिका यत्रेन्द्रकीलको भवतीति अंकुत्तरपासगा' इति अा-अङ्करत्नमया उत्तरपार्वा येषां द्वारामांतानि अकोत्तरपार्श्वकाणि 'निरंतरियघणकवाडा' इति निर्गता अन्तरिका-लघ्वन्तररूपा येषां ते निरन्तरिका अत एव घना निरन्तरिका घनाः कपाटा येषां द्वाराणां तानि निरन्तरिकघनकपाटानि 'भित्तिसु चेव मित्तिगुलिया छप्पन्ना तिन्नि होति' इतितेषांद्वाराणांप्रत्येकमुभयोः पार्श्वयोः भित्तिषुभित्तिगताः भित्तिगुलिका-पीठकस्थानीयाः तिम्रः षट्पञ्चाशप्रमाणा भवन्ति 'गोमाणसिया (सज्जा) तइया' इति गोमनस्यः शय्या 'तइया' इति तावन्मात्राः षट्पञ्चाशत्रिकसङ्ख्याका इत्यर्थः ।
'नानामणिरयणवालरूवगलीलवियसालमंजियागा' इति इदं द्वारविशेषणमवे, नानामणिरत्नानि-नानामणिरलमयानि व्यालरूपकाणि लीलास्थितशालमञ्जिकाचलीलास्थितपुत्तलिका येषुतानि तथा 'वयरामया कूडा रययामया उस्सेहा' इति कूडो-माडभाग उच्छ्रयः-शिखरं, आह च जीवाभिगममूलटीकाकृत्-'कूडो माडभाग उच्छ्रयः शिखर' मिति, नवरमत्र शिखराणि तेषामेव माडभागानां सम्बन्धीनि वेदितव्यानि, द्वारशिखराणामुक्तत्वात् वक्ष्यमाणत्वाच्च, 'सव्वतवणिजमयाउल्लोया' उल्लोका-उपरिभागाः सर्वतपनीयमयाः-सर्वात्मना तपनीयरूपसुवर्णविशेषमयाः 'नानामणिरयणजालपंजरमणिबंसगलोहियवखपडिवंसगरययभोमा' इति मणयो-मणिमया वंशा येषु तानि मणिमयवंशकानि लोहिताख्यानिलोहिताख्यमयाः प्रतिवंशायेषु तानि लोहिताख्यप्रतिवंशकानि रजता-रजतमयी भूमिर्येषां तानि रजतभूमानि प्राकृतत्वात्समासान्तः मणिवंशकानि लोहिताख्यप्रतिवंशकानि रजता-रजतमयी भूमिर्येषां तानि रजतभूमानि प्राकृतत्वात्समासान्तः मणिवंशकानि लोहिताख्यप्रतिवंशकानि रजतभूमानि नानामणिरत्नानि-नानामणिरत्नमयानि जालपञ्जराणिगवाक्षापरपर्यायाणि येषु तानि तथा, पदानामनन्वयोषनिपातः प्राकृतत्वात् ।
'अंकामया पक्खापवखवाहाओ' इति अङ्को-रत्नविशेषस्तमन्मयाःपक्षास्तदेकदेशभूताः पक्षवाहवोऽपि तदेकदेशभूता एवाङ्कमय्यः, आह च जीवाभिगममूलटीकाकृत-"अङ्कमयाःपक्षास्तदेकदेशभूता एवं पक्षवाहवोऽपि द्रष्टव्या" इति, 'जोईरसामया वंसा वंसकवेल्लुका य' इतिज्योतीरसं नामरत्नंतन्मया वंशाः-महान्तः पृष्ठवंशा 'वंसकवेलुयाय' इति महतां पृष्ठवंशाना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org