Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 101
________________ राजप्रश्नीयउपाङ्गसूत्रम् - ३५ अट्टमंगलगा झया छत्तातिच्छत्ता, ते णं पासायवडेंसगा अन्नेहिं चउहिं पासायवडेंसएहिं तददुच्चत्तपमाणमेत्तेहिं सव्वतो समंता संपरिखित्ता, तेणंपासायवडेंसगा बावट्ठि जोयणाई अद्धजीयणंच उडुं उच्चत्तेणं एकवीसं जोयणाइं कोसं च विक्खंभेणं वण्णओ उल्लोओ सीहासणं सपरिवारं पासायउवरि अट्ठट्ठमंगलगा झया छत्तातिछत्ता । २८६ वृ. तस्य च बहुसममणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्र महानेको मूलप्रासादावतंसकः प्रज्ञप्तः स च पञ्च योजनशतान्यूर्ध्वमुच्चैस्ल अर्द्धतृतीयानि योजनशतानि विष्कम्भतः 'अब्भुग्गयमूसियपहसियाविवे' त्यादि तस्य वर्णनं मध्येभूमिभागवर्णनमुल्लोकवर्णनं द्वारबहिस्थितप्रासादवद्भावनीयं, तस्य च मूलप्रासादावतंसकस्य बहुमध्ये देशभागेऽत्र महती एका मणिपीठिका प्रज्ञप्ता, अष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि बाहल्यतः सर्वात्मना मणिमयी अच्छा इत्यादि विशेषणकदम्बकं प्राग्वत् । 'तीसे 'मित्यादि, तस्याश्च मणिपीठिकाया उपरि महदेकं सिंहासनं प्रज्ञप्तं, तस्य सिंहासनस्य वर्णनं, परिवारभूतानि शेषाणि भद्रासनानि प्राग्वद्वक्तव्यानि, 'सेण' मित्यादि, स मूलप्रासादावतंसकोऽन्यैश्चतुर्भिः प्रासादावतंसकैस्तदद्धच्चत्वप्रमाणैः सर्वतः समन्ततः परिक्षिप्तः, तदर्द्धच्चत्वप्रमाणमेव दर्शयति- अर्द्धतृतीयानि योजनशतान्यर्ध्वमुच्चैस्त्वेन, पञ्चविंशं योजनशतं विष्कम्भेन, तेषामपि 'अब्भुग्गयमूसियपहसियाविदे' त्यादि स्वरूपवर्णनं मध्यभूमिभागवर्णनमुल्लोकवर्णनं च प्राग्वत्, तेषां च प्रासादावतंसकानां बहुमध्यदेशभागे प्रत्येकं २ सिंहासनं प्रज्ञप्तं, तेषां च सिंहासनानां वर्णनं प्राग्वत्, नवरमत्र शेषाणि परिवारभूतानि भद्रासनानि वक्तव्यानि । ते णं पासायवडेंसया' इत्यादि, ते प्रासादवतंसा अन्यैश्चतुर्भि प्रासादवतंसकैः 'तयद्धुच्चतपमाणमेत्तेहिं तेषां मूलप्रासादावतंसकपरिवारभूतानां प्रासादावतंसकानां यदर्द्ध तदुच्चत्वप्रमाणमात्रैः - मूलप्रासादावतंसकापेक्षया चतुर्भागमात्रप्रमाणैः सर्वतः समन्तात्संपरिक्षिप्ताः, तदर्घोच्चत्वप्रमाणमेव दर्शयति । ' ते 'मित्यादि, ते प्रासादवतंसकाः पंचविंशं योजनशतमूर्ध्वमुच्चैस्त्वेन द्वाषष्टियोजनानि अर्द्धयोजनं च विष्कम्भतः, तेषामपि अब्मुग्गयमूसियपहसियाविवे' त्यादि स्वरूपवर्णनं मध्यभागे भूमिवर्णनमुल्लोकवर्णनं सिंहासनवर्णनं च सर्वं प्राग्वत्, केवलमत्रापि सिंहासनं सपरिवारं वक्तव्यं, 'ते ण' मित्यादि, ते च प्रासादावतंसका अन्यैश्चतुर्भिः प्रासादावतंसकै स्तदर्द्धाच्चत्वप्रमाणैः अनन्तरोक्तप्रासादावतंसकार्द्धञ्चत्वप्रमाणैर्मूलप्रासादवतंसकापेक्षया (अष्ट) भागप्रमाणैः सर्वतः समन्तात् संपरिक्षिप्ताः, तदर्द्धाच्चत्वप्रमाणमेव दर्शयति । 'ते ण 'मित्यादि, ते च प्रासादावतंसका द्वाषष्टिर्योजनानि अर्धयोजनं च ऊर्ध्वमुच्चैस्त्वेन एकत्रिंशतं योजनानिक्रोशंच विष्कम्मतः, एषामपि 'अब्दुग्गयमूसिए' त्यादि स्वरूपवर्णनंमध्यभागे भूमिवर्णनं उल्लोकवर्णनं सिंहासनवर्णनं च परिवाररहितं प्राग्वत्, 'ते ण' मित्यादि, तेऽपि प्रासादावतंसका अन्यैश्चतुर्भिः प्रासादावतंसकैस्तदर्द्धाच्चत्वप्रमाणैः अनन्तरोक्तप्रासादावतंसकार्द्धाच्चत्वप्रमाणैर्मूलप्रासादावतंसकापेक्षया षोडशभागप्रमाणैः सर्वतः समंतात् संपरिक्षिप्ताः, तदर्धोच्चत्वप्रमाणमेव दर्शयति- एकत्रिशद्योजनानि क्रोशं च ऊर्ध्वमुचैस्त्वेन पञ्चदश योजनानि अर्द्धतृतीयांश्चैव क्रोशान् विष्कम्भतः, एतेषामपि स्वरूपादिवर्णनमनन्तरोक्तं । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184