Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
राजप्रश्नीयउपाङ्गसूत्रम्- ४२
पौण्डरीकहदेषु ह्रदोदकमुत्पलादीनि च तद्गतानि, ततो हेमवतैरण्यवतवर्षेषु रोहिताराहितांशा सुवर्णकूलारूप्यकूलासु महानदीषु सलिलोदकमुभयतटमुत्तिकां ।
तदनन्तरं शब्दापातिविकटापातिवृत्तवैताद्येषु सर्वत्वरादीन्, ततो महाहिमवद्रूपिवर्षधरपर्वतेषु सर्वतूवरादीन्, ततो महापद्मपुडरीकहदेषु ह्रदोदकादीनि, तदनन्तरं हरिवर्षरम्यकवर्षेषु हरिषलिलाहरिकान्तानरकान्तानीकान्तासु महानदीषु सलिलोदकमुभयतटमृत्तिकांच, ततो गन्धापातिमाल्यवतपर्यायवृत्तवैताढयेषु तूवरादीन्, ततो निषधनीलवद्वर्षधरपर्वतेषु सर्वतूवरादीन्, तदनन्तरं तद्गतेषु तिगिच्छिकेसरिमहाहदेषु ह्रदोदकादीनि, ततः पूर्वविदेहापविदेहेषु सीतासीतोदानदीपु सलिलोदकमुभयतटमृत्तिकां च ततः सर्वेषु चक्रवर्त्तिविजेतव्येषु मागधादिषु तीर्थेषु तीर्थोदकं तीर्थमृत्तिकां च ।
३०४
तदनन्तरं वक्षस्कारपर्वतेषु सर्वत्वरादीन्, ततः सर्वासु अन्तरनदीषु सलिलोदक्मुभयतटमृत्तिकांच, तदनन्तरं मन्दरपर्वते भद्रशालवने तूवरादीन्, ततो नन्दनवने तूवरादीन् सरसंच गोशीर्षचन्दनं तदनन्तरं सौमनसवने सर्वत्वरादीन सरसं च गोशीर्षचन्दनं दिव्यं च सुमनोदाम गृह्णन्ति, ततः पण्डकयने तूवरपुष्पगन्धमाल्यसरसगोशीर्षचन्दनदिव्यसुमनोदामानि, 'दद्दरमलए सुगंधिए य गंधे गिण्हंति' इति दर्द्दरः - चीवरावनद्धं कुण्डिकादिभाजनमुखं तेन गालितं तत्र पक्क यत् मलयोद्भवतया प्रसिद्धत्वात् मलयजं - श्रीखण्डं येषु तान् सुगन्धिकान् परमगन्धोपेतान् गन्धान् गृह्णति ।
'आसियसंमजिओवलित्तं सुइसम्मट्ठरत्थंतरावणवीहियं करेइ' इति आसिक्तम्उदकच्छटकेन सन्मार्जितं संभाव्यमानकचरवरशोधनेन उपलिप्तमिव गोमयादिना उपलिप्तं तथा सिक्तानि जलेनात एव शुचीनि - पवित्राणि संमृष्टानि कचवरापनयनेन रथ्यान्तराणि आपणवीधय इव धर्गा इवापणवीथयो- रथ्याविशेषा यस्मिन् तत्तथा कुर्वन्ति, 'अप्पेगइया देवा हिरण्णविहिं भाएंति' अप्पेककाः - केचन देवा हिरण्यविधि - हिरण्यरूपं मङ्गलभूतं प्रकारं भाजयन्ति - विश्राणयान्ति, शेषदेवेभ्यो ददतीति भावः, एवं सुवर्णरत्नपुष्पफलमाल्यगन्धचूर्णाभरणविधिभाजनमपि भावनीयम् । 'उप्पायनिवये त्यादि, उत्पातपूर्वो निपातो यस्मिन् स उत्पातनिपातस्तं, एवं निपातोत्पातं संकुचितप्रसारितं 'रियारिय' मिति गमनागमनं भ्रान्तसंभ्रान्तनामं आरभटभसोलं दिव्यं नाट्यविधिमुपदर्शयति, अप्येकका देवा 'वुक्कारेति' वुक्काशब्दं कुर्वन्ति, 'पीणंति' पीनयन्तिपीनमात्मानं कुर्वन्ति स्थूला भवतीत्यर्थ ।
'लासंति' लासयन्ति लास्यरूपं नृत्यं कुर्वन्ति, 'तंडवंति त्ति ताण्डवयन्ति - ताण्डवरूपं नृत्यं कुर्वन्ति, वुक्कारत वुक्करं कुर्वन्ति 'अप्फोडंति' आस्फोटयन्ति, भूम्यादिकमिति गम्यते, 'उच्छलंति' त्ति उच्छलयन्ति 'पोच्छलंति' प्रोच्छलयन्ति 'उवयंति' त्ति अवपतन्ति 'उप्पयंति' त्ति उत्पतन्ति 'परिवयंति' त्ति परिपन्तन्ति तिर्यक् निपतन्तीत्यर्थः 'जलंति' त्ति ज्वालामालाकुला भवन्ति 'तविंति 'त्ति तप्ता भवन्ति प्रतप्ता भवन्ति 'थुक्कारैति' त्ति महता शब्देन थूत्कुर्वन्ति 'देवोक्कलियं करेंति' त्ति देवानां वातस्येवोत्कलिका देवोत्कलिका तां कुर्वन्ति, 'देवकहकहं करेंति' त्ति प्राकृतानां देवानां प्रमोदभरवशतः स्वेच्छावचनैर्वोलकोलाहलो देवकहकहकस्तं कुर्वन्ति 'दुहदुहकं करेंति' दुहदुहकमित्यनुकरणमेतत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184