Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 125
________________ ३१० राजप्रश्नीयउपाङ्गसूत्रम्-४४ प्रथमा प्रवृत्तिस्तत्करणशीलाः आदिकरास्तेभ्यः, तीर्यतेसंसारसमुद्रोऽनेनेति तीर्थ-प्रवचनं तत्करणशीलास्तीर्थकराः तेभ्यः, स्वयम्-अपरोपदेशेन सम्यग वरबोधिप्राप्तया बुद्धा-मिथ्यात्वनिद्रापगमसंबोधेन स्वयंसंबुद्धास्तेभ्यः । तथा पुरुषाणामुत्तमाः पुरुषोत्तमाः, भगवन्तोहि संसारमप्यावसन्तः सदापरार्थव्यसनिन उपसर्जनीकृतस्वार्था उचितक्रियावन्तोऽदीनभावाः कृतज्ञतापतयोऽनुपहतचित्तादेवगुरुबहुमानिन इति भवन्तिपुरुषोत्तमास्तेभ्यः, तथा पुरुषाः सिंहा इव कर्मगजान्प्रति पुरुषसिंहास्तेभ्यः, तथा पुरुषवरपुण्डरीकाणीवसंसारजलासङ्गादिना कर्ममलाभावतो वा पुरुषेषु वरपुण्डरीकाणितेभ्यः, तथा पुरुषवरगन्धहस्तिन इव परचक्रदुर्भिक्षमारिप्रभृतिक्षुद्रगजनिराकरणेनेति पुरुषवरगन्धहस्तिनस्तेभ्यः, तथा लोको-भव्यसत्वलोकः तस्य सकलकल्याणैकनिबन्धनतया भव्यत्वभावेनोत्तमा लोकोत्तमास्तेभ्यः, तथा लोकस्य यथा-योगक्षेमकृतोलोकनाथास्तेभ्यः, तत्र योगो बीजाधानोभेदपोषणकरणंक्षेमंच तत्तदुपद्रवाद्यभावापादनं, तथा लोकस्य-प्राणिलोकस्यपञ्चास्तिकायात्मकस्य वा हिता-हितोपदेशेन सम्यकप्ररूपणया वा लोकहितास्तेभ्यः, तथा लोकस्य-देशनायोग्स्य प्रदीपा देशनांशुभिर्यथावस्थितवस्तुप्रकाशका लोकप्रदीपास्तेभ्यः, तथा लोकस्य-उत्कृष्टमते व्यसत्वलोकस्य प्रद्योतनं प्रद्योतकत्वविशिष्टा ज्ञानशक्तिस्त्करणशीला लोकप्रद्योतकराः। तथा च भवन्ति भगवासादात्तत्क्षणमेव भगवन्तो गणभृतो विशिष्टज्ञानसंपतसमन्विता यद्वशाद् द्वादशाङ्गमारचयन्तीति, तेभ्यः,तथा अभयं-विशिष्टमात्मनः स्वास्थ्य, निश्रेयसधर्मभूमिक निबन्धनभूता परमा धृतिरिति भावः, ततः अभयं ददतीत्यभयदास्तेभ्यः, सूत्रे च कः प्रत्ययः स्वार्थिकः प्राकृतलक्षणवशात्, एवमन्यत्रापि, तथा चक्षुरिव चक्षु-विशिष्ट आत्मधर्म तत्वावबोधनिबन्धनः श्रद्धास्वभावः, श्रद्धाविहीनस्याचक्षुष्मत इवरूपंतत्वदर्शनायोगात्, तद्ददतीति चक्षुर्दास्तेभ्यः, तथा मार्गो-विशिष्टगुणस्थानावाप्तिप्रगुणः स्वरसवाही क्षयोपशमविशेषस्तं ददतीति मार्गदाः तथा शरणं-संसारकान्तारगतानामतिप्रबलरागादिपीडितानां समाश्वासनस्थानकल्पं तत्त्वचिन्तारूपमध्यवसानं तद्ददतीति शरणदास्तेभ्यः, तथा बोधि-जिनप्रणीतधर्मप्राप्तिस्तत्वार्थश्रद्धानलक्षणसम्यग्दर्शनरूपा तां ददतीति बोधिदास्तेभ्यः, तथा धर्म-चारित्ररूपं ददतीति धर्मदास्तेभ्यः, कथं धर्मदा? इत्याह-धर्म दिशन्तीति धर्मेशकास्तेभ्यः, तथा धर्मस्य नायकाःस्वामिनस्तद्वशीकरणभावात् तत्कलपरिभोगाच्च धर्मनायकाः तेभ्यः, धर्मस्य सारथय इवसम्यक् प्रवर्तनयोगेन धर्मसारथयस्तेभ्यः, तथा धर्म एव वरं प्रधानं चतुरन्तहेतुत्वात् चतुरन्तं चक्रमिव चतुरन्तचक्रं तेन वर्तितुं शीलं येषां ते येषां ते तथा तेभ्यः, तथा अप्रतिहते-अप्रतिस्खलिते क्षायिकत्वात् बरे-प्रधाने ज्ञानदर्शने घरन्तीति अप्रतिहतवरज्ञानदर्शनधरास्तेभ्यः। तथा छादयन्तीति छद्म-घातिकर्मचतुष्टयं व्यावृत्तम्-अपगतं छद्म येभ्यस्ते व्यावृत्तच्छद्मानस्तेभ्यः तथा रागद्वेषकषायेन्द्रियपरीषहोपसर्गधातिकर्मशूत्रन् स्वयं जितवन्तोऽन्यांश्च जापयन्तीति जिनाःजापकास्तेभ्यो जिनेभ्यो जापकेभ्यः, तथा भवार्णवं स्वयंतीर्णवन्तोऽन्यांश्च तारयन्तीति तीस्तारकास्तेभ्यः, तथा केवलवेदसा अवगतत्वा बुद्धा अन्यांश्च बोधयन्तीति बोधकास्तेभ्यः, मुक्ताः कृतकृत्या निष्ठिताइतिभावस्तेभ्योऽन्याँश्चमोचयन्तीति मोचकास्तेभ्यः, सर्वज्ञेभ्यः सर्वदर्शिभ्यः, शिवंसर्वोपद्रवरहितत्वात् अचलं स्वाभाविकप्रायोगिकचलनक्रयाऽपोहात् Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184