Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
राजप्रश्नीयउपाङ्गसूत्रम् - ५३
वृ. 'केसीनामं कुमारसमणे जाइसंपन्ने' इत्यादि, जातिसंपन्नः उत्तममातृपक्षयुक्त इति प्रतिपत्तव्यम्, अन्यथा मातृपितृपक्षसंपन्नत्वं पुरुषमात्रस्यापीति नास्योत्कर्ष कश्चिदुक्तो भवति, उत्कर्षाभिधानार्थं चास्य विशेषणकलापोपादानं चिकीर्षितमिति, एवं कुलसंपन्नोऽपि नवरं कुलं- पितृपक्षः बलं -- संहननविशेषसमुत्यः प्राणः रूपम् - अनुपमं शरीरसौन्दर्यं विनवादीनि प्रतीतानि, नवरं लाघवं - द्रव्यतोऽल्पोपधित्वं भावतो गौरवत्रयत्यागः 'लज्जा' मनोवाक्कायसंयमः
३२०
'ओयंसी 'ति ओजो - मानसोऽवष्टम्भस्तद्वान् ओजस्वी तेजः -- शरीरप्रभा तद्वान् तेजस्वी 'वचो' वचनं सौभाग्याद्युपेतं यस्यास्ति स वचस्वी अथवा वर्च - तेजः प्रभाव इत्यर्थस्तद्वान् वर्चस्वी यशस्वी - ख्यातिमान्, इह च विशेषणचतुष्टयेऽप्यनुस्वारः प्राकृतत्वात्, जितक्रोध इत्यादि तु विशेषणसप्तकं प्रतीतं, नवरं क्रोधादिजय उदयप्राप्तक्रोधदिविफलीकरणतोऽवसेयः, तथा जीवितस्य-प्राणधोरणस् आशाः वाञ्छा मरणाद्भयं ताभ्यां विप्रमुक्तो जीविताशामरणभयविप्रमुक्तः, तदुभयोपेक्षक इत्यर्थ: ।
तथा तपसा प्रधानः- उत्तमः शेषमुनिजनापेक्षया तपो वा प्रधानं यस्य स तपः प्रधानः, एवं गुणप्रधान नवरं गुणाः- संयमगुणाः, एतेन च विशेषणद्वयेन तपः संयमौ पूर्वबद्धाभिनवयोः कर्मणोनिर्जरानुपादानहेतू मोक्षसाधने मुमुक्षूमामुपादेयौ प्रदर्शितौ, गुणप्राधान्यप्रपञ्चनार्थमेवाह 'करणप्पहाणे' इति यावत् 'चरित्तप्पहाणे' इति, करणं-पिण्डविशुद्धयादि, उक्तञ्च"पिंडविसोही समिई भावन पडिमा य इंदियनिरोहो । पडिलेहण गुत्तीओ अभिग्गहा चैव करणं तु ।।" - चरणं - महाव्रतादि, उक्तञ्च
119 11
119 11
निग्रहः - अनाचारप्रवृत्तेर्निषेधनं । निश्चयः -- तत्त्वानां निर्णयः विहितानुष्ठानेष्ववश्यमभ्युपगमो वा आर्जवं मायानिग्रहो लाघवं क्रियासु दक्षत्वं क्षान्ति - क्रोधनिग्रहः गुप्ति - मनोगुप्त्या - यादिका मुक्ति - निलभता विद्या--प्रज्ञप्तयादिदेवताऽधिष्ठिता वर्णानुपूर्व्याः मन्त्रा - हरिणेगमेष्यादिदेवताधिष्ठिताः अथवा ससाधना विद्या साधनरहिता मन्त्रा, ब्रह्मचर्यं - बस्तिनिरोधः सर्वमेव वा कुशलानुष्ठानं वेद:- आगमो लौकिकलोकोत्तरिककुप्रावचनिकभेदभिन्नः ।
वय समणधम्म संजम वेयावच्चं च बंभगुत्तीओ। नामाइतियं तव कोहनिग्गहाई चरणमेयं ॥
नया - नैगमादयः सप्त प्रत्येकं शतविधा, नियमा-विचित्रा अभिग्रहविशेषाः सत्यं भूतहितं वचः शौचं - द्रव्यतो निर्लेपता भावतोऽनवद्यसमाचारता ज्ञानं --मत्यादि दर्शनं - सम्यक्त्वं चारित्रं - बाह्यं सदनुष्ठानं यच्चेह चरणकरणग्रहणेऽपि आर्जवादिग्रहणं तत् आर्जवादीनां प्राधान्यख्यापनार्थं, ननु जितक्रोधत्वादीनामार्जवादीनां च कः प्रतिविशेषः ?
उच्यते, जितक्रोधादिविशेषणेषु तदुदयविफलीकरणं मार्दवप्रधानादिषु उदयनिरोधः, अथवा यत एव जितक्रोधादि अत एव क्षमादिप्रधान इत्येवं हेतुहेतुमद्भावाद् विशेषः, तथा ज्ञानसम्पन्न इत्यादौ ज्ञानादिमत्वमात्रमुक्तं ज्ञानप्रधान इत्यादौ तद्वतांमध्ये तस्य प्राधान्यमत्येवमन्यत्राप्यपौनरुक्त्यं भावनीयं, तथा 'ओराले' इति उदारः - स्फाराकारः 'घोरे घोरगुणे घोरतवस्सी घोरबंभचेरवासी ओच्छूढसरीरे संखित्तविउलतेउलेसे चउद्दसपुव्वी चउनाणोवगए' इति पूर्ववत्,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International
Loading... Page Navigation 1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184