Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
मूलं-५४
मल्लकिनो नवलेच्छकिनःअन्नेयबहवे राइसरत्यादि, राजाना-मण्डलीका ईश्वरा-युवराजानस्तलवराः-परितुष्टनरपति-प्रदत्तपट्टन्धविभूषिताराजस्थानीयाः माडम्बिका:-चित्रमण्डपाधिपाः कुटुम्बिकाः- कतिपय-कुटुम्बस्वाभिनोऽवलगकाः इभ्या-महाधनिनः श्रेष्ठिनः-श्रीदेवताध्या सितसौवर्णपट्टविभूषितोत्तमाङ्गाः सेनापतयो-नृपतिनिरुपिताश्चतुरङ्गसैन्यनायकाः सार्थवाहाः-सार्धनायकाःप्रभृतिगृहणात् मन्त्रिमहामन्त्रिगणकदौवारिकपीठमर्दादिपरिग्रहः, तत्र मन्त्रिणः प्रतीताः महामन्त्रिणो- मन्त्रिमण्डलप्रधानाः हस्तिनासाधनोपरिका इतिवृद्धाः गणका-गणितज्ञा भाण्डागारिका इति वृद्धाः ज्योतिषिका इत्यपरे दौवारिकाः-प्रतीहारा राजद्वारिकावापीठमर्दा-आस्थाने आसन्न-प्रत्यासन्नसेवका वयस्याइतिभावः 'जावअंबरतलमिव फोडेमाणा' इति यावतकरणात्।
____ 'अप्पेगतिया' वंदणवत्तियं अप्पेगइया पूअणवत्तियं एवं सकारवत्तियं सम्माणवत्तियं कोउहलवत्तियं असुयाई सुणिस्सामो सुयाई निस्संकियाइं करिस्सामो मुंडे भवित्ता आगाराओ अनगारियंपव्वइस्सामोपंचाणुव्वयाइंसत्त सिक्खावयाइंदुवालसविहं गिहिधम्मंपडिवज्जिस्समो, अप्पेगइया जिनभत्तिराणेणं अप्पेगइया जीयमेयंतिकट्ठ पहाया कयबलिकम्मा कयकोउयमंगलपायच्छित्ता सिरसाकंठेमालाकडा आविद्धमणिसुवण्मा कप्पियहारद्धहारतिसरयपालंबपलंबमाणकडिसुत्तयसोभाभरमा वत्थ पवरपरिहिया चंदनोलित्तगायसरीरा अप्पेगइया हयगया अपेगइया गयगयाअपेगइयारहगयाअप्पेगियासिबिकागयाअप्पेग० संदमाणियागयाअप्पेगइया पायविहारचारिणो पुरिसवग्गुराय परिक्खित्ता महया उक्किट्टिसीहनाइया बोलकलकलरवेणं समुद्दरवभूयं पिव करेमाणा अंवरतलंपिय फोडेमाणा' इति परिग्रहः ।
एतच्च प्रायः सुगम, नवरंगुणव्रतानामपिनिरन्तरमभ्यस्यमानतया शिक्षाव्रतत्वेन विवक्षणात् 'मन सिक्खावयाई' त्युक्तं, स्नाताः कृतस्नानाःअनन्तरं कृतं बलिकर्म-स्वगृहदेवाभ्यो यैस्ते कृतबलिकर्माणः, तथा कृतानि कौतुकमगलान्येव प्रायश्चित्तानि दुःस्वप्नादिविधातार्थं यैस्ते कृतकौतुकमङ्गलप्रायश्चित्ताः, तत्र कौतुकानि-मषीतिलकादीनि मङ्गलानिसिद्धार्खदध्यक्षतदूर्वादीनि, तथा शिरसि कण्ठे च कृता माला यैस्ते, प्राकृतत्वात्पदव्यत्ययो विभक्तिव्यत्ययश्चेति शिरसाकण्ठेमालाकृताः।
तथा आविद्धानि-परिहितानि मणिसुवर्णानि यैस्ते तथा, कल्पितो-विन्यस्तो हारःअष्टादशसरिकोऽर्द्धहारो-नवसरिकस्त्रिसरिकंप्रतीतमेवयैस्तेतथा, तथाप्रलम्बोझुंबनकंलम्बमानो येषां तेतथा, कटिसूत्रेणअन्यान्यपिसुकृतशोभान्याभरणानि येषां तेकटिसूत्रसुकृतशोभाभरणाः, ततः पदत्रयस्यापि पदद्वयमीलनेन कर्मधारयः, चन्दनावलिप्तानि गात्राणि यत्रतत्तथाविधं शरीरं येषां ते चन्दनावलिप्तगात्रशरीराः, 'पुरिसवग्गुरापरिखित्ता' इति, पुरुषाणां वागुरेव वागुरा-- परिकरस्तया परिक्षिप्ताः-व्याप्ताः, महया' इति महता उत्कृष्टिश्च-आनन्दमहाध्वनि सिंहनादश्चसिंहस्येव नादः बोलश्च-वर्णव्यक्तिवर्जितोध्वनि, कलकलव-व्यक्तवचनः स एव एतल्लक्षणो यो रवस्तेन समुद्ररवभूतमिव-समुद्रमहाघोषप्राप्तमिव श्रावस्ती नगरीमिति गम्यते, कुर्वाणाः अम्बरतलमिव-आकाशतलमिव स्फोटयन्तः।।
'एगदिसाए' इति, एकया दिशा पूर्वोत्तरलक्षणया एखाभिमुखा-एकं भगवन्तं प्रति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184