Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 132
________________ ३१७ मूलं-४९ प्राग्वत् । प्रदेशिना राज्ञा सार्द्धमनुरक्ता अविरक्ता-कथञ्चिद्विप्रियकरणेऽपि विरागाभावात् । मू. (५०) तस्स णं पएसिया रन्नो जेढे पुत्ते सूरियकताए देवीए अतए सूरियकते नामं कुमारे होत्था, सुकुमालपाणिपाए जाव पडिरूवे।। सेणं सूरियकंते कुमारे जुवरायावि होत्था, पएसिस्स रन्नो रजंच रटुं च बलं च वाहणं च कोसं च कोट्ठागारं च अंतेउरं च जनवयं च सयमेव पच्चुवेक्खमाणे २ विहरइ । वृ. कुमारवर्णनं 'सुकुमालपाणिपाए' इत्याद जाव 'सुन्दरे' इति, अत्र यावत्करणात् 'अहीनपंचिंदियसरीरे लक्खणवंजणगुणोववेए माणुम्माणपमाणपडिपुन्नसुजायसव्वंगसुन्दरंगे ससिसोमाकारे कंते पियदरिसणे सुरूवे' इति द्रष्टव्य, एतच्च देवीवर्णकवत् स्वयं परिभावनीयं । सच सूर्यकान्तो नामकुमारोयुवराजाअभूत, प्रदेशिनोराज्ञोराज्यं-राष्ट्रादिसमुदायात्मकं राष्ट्रच-जनपदं च बलं च-हस्त्यादिसैन्यं वाहनंच वेगसरादिकं कोशं च-भाण्डागारं कोष्ठागारं च-धान्यगृहं पुरंच-नगरमन्तःपुरं च-अवरोधंचात्मनैव-स्वयमेव समुप्रेक्षमाणो-व्यापारयन् मू. (५१) तस्स णं पएसिस्स रन्नो जेटे भाउयवयंसए चित्ते नामं सारही होत्था अड्डे जाव बहुजनस्स अपरिभूए सामदंडभेयउवप्पयाणअत्थसत्थईहामइविसारए उप्पत्तियाए वेणतियाए कम्मयाए पारिणामियाए चउबिहाए वुद्धीए उववेइ । पएसिस्स रन्नो बहुसु कज्जेसु य कारणेसु य कुटुंबेसु य मंतेसु य गुज्झेसु य रहस्सेसु य ववहारेसु य निच्छएसु य आपुच्छणिज्जे मेढी पमाणं आहारे आलंबणं चक्खू मेढिभूए पमाणभूए आहारभूए आलंबणभूए सब्वट्ठाणसव्वभूमियासु लद्धपञ्चए विदिन्नविचारे रजधुराचिंतए आवि होत्था। वृ. 'चित्ते नाम सारही होत्था अढे दित्त' इति आढयः-समृद्धो दोप्तः–कान्तिमान् वित्तःप्रतीतोयावत्करणात् 'विलभवणसयणासणजाणवाहणाइण्णे बहुदासीदासगोमहिसगवेलगप्पभूते बहुधनबहुजायसवरयए विच्छड्डियपउरभत्तपाणे' इति परिग्रहः, अस्य व्याख्या राजवर्णकवत् परिभावनीया, बहुजनस्सअफरिभूए' राजमान्यत्वात्स्वयच जात्यक्षत्रियत्वात्, 'सामभेयदंडउवप्पयाणअत्थसत्थईहामइविसारए' इति, सामभेददण्डोपप्रदानलक्षणानां नीतीनाम-र्थशास्त्रस्य अर्थोपायव्युत्पादनग्रन्थस्य ईहा-विमर्शस्तप्रधानाम मतिरीहामतिस्तया विशारदो-विचक्षणः सामभेददण्डोपप्रदानार्थशास्त्रेहामतिविशारदः उत्पत्तिक्या-अष्टाश्रुताननुभूत-विषयाकस्माद्भवनशीलया वैनयिक्या-विनयलभ्यशास्त्रार्थसंस्कारजन्ययाकर्मजया-कृषिवाणिज्यादिकर्मभ्यः सप्रभावया पारिणामिकया प्रायोयोविपाकन्यया एवंरूपया चतुर्विधया बुद्धया उपपेतः।। प्रदेशिनो राज्ञो बहुषु कार्येषु कर्तव्येषुकारणेषु-कर्तव्योपाये, कुटुम्बेषु स्वकीयपरकीयेषु विषयभूतेषु मन्त्रेषु-राज्याचिन्तास्पेषुगुह्येषु-बहिर्जनाप्रकाशनोयेषु रहस्येषु-तेष्वेवाषडक्षीणेषु 'निश्चयेषु' निश्चीयते इति निश्चयाः-अवश्यकरणीयाः कर्त्तव्यविशेषास्तेषु व्यवहारेषुआवाहनविसर्जनादिरूपेषुआपृच्छनीयः-सकृत पृच्छनीयः प्रतिप्रच्छनीयः असकृत् पृच्छनीयः, कमिति?, यतोऽसौ 'मेढी' इति मेढी-खलकमध्यवर्तिस्थूणा यस्यां नियमिता गोपंक्तिर्धान्यं ग्राहयति तद्वद्यमालम्ब्य सकलं मन्त्रिमण्डलं मन्त्रणीयान् अर्थान् धान्यमिव विवेचयति स मेढि तथा प्रमाण-प्रत्यक्षादि तद्वन् यस्यदद्दष्टानामर्थानामव्यभिचारित्वेन तत्रव मान्त्रणा प्रवृत्तिनिवृत्तिभावात् स प्रमाणः, आधार आधेयस्येव सर्वकार्येषु लोकानामुपकारित्वात्, तथा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184