Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 129
________________ ३१४ अथत अणियाहिवइणी सत्तहिं भद्दासणेहिं णिसीयंति । तए णं तस्स सूरियाभस्स देवस्स चउद्दिसिं सोलस आयरक्खदेवसाहस्सीओ सोलसहिं भद्दासनसाहस्सीहिं निसीयंति, तंजहा- पुरत्थिमिल्लेणं चत्तारि साहस्सीओ दाहिणेमं चत्तारि साहस्सीओ पञ्च्चत्थिमेणं चत्तारि साहस्सीओ उत्तरेणं चत्तारि साहस्सीओ। ते णं आयरक्खा सन्नद्धबद्धवम्मियकवया उप्पीलियसरासणपट्टिया पिणद्धगेविज्जा बद्ध आविद्धविमलवरचिंघपट्टा गहियाउहपहरणा तिणयाणि तिसंधियाइं बयरामयाई कोडीणि धणूई पगिज्झ पडियाइयकंडकलावा नीलपाणिणो पीतपाणिणी रत्तपाणिणो चावपाणिणो चारुपामिणो चम्मपाणिणो दंडपाणिणो खग्गपाणिणो पासपाणिणो नीलपीयरत्तचावचारुचम्मदंडखग्गपासधरा आयरक्खा रक्खोवगया गुत्ता गुत्तपालिया जुत्ता जुत्तपालिया पत्तेयं समयओ विनयओ किंकरभूया चिट्ठति ।। वृ. ततः प्रागुपदर्शितसिंहासनक्रमेण सामानिकादय उपविशन्ति, 'ते णं आयक्खा' इत्यादि, ते आत्मरक्षाः सन्नद्धबद्धवर्मिकवचा उत्पीडितशरासनपट्टिकाः पिनद्धग्रैवेयाग्रैवेयकाभरणाः आविद्धविमलवरचिह्नपट्टा गृहीताऽऽयुधप्रहरणानितानि आदिमध्यावसानेषु नमनभावात् त्रिसन्धीनि आदिमध्यावसानेषु संधिभावात् वज्रमयकोटीनि धनूंषि अभिगृह्य । 'परियाइयकंडकलावा' इति पर्यात्तकाण्डकलापा विचित्रकाण्डकलापयोगात्, केऽपि 'नीलपाणिणो' इति नीलः काण्डकलाप इति गम्यते पाणौ येषां ते नीलपाणयः, एवं पीतपाणयो रक्तपाणयः चापं पाणौ येषां ते चापपाणयः चारु- प्रहरणविशेषः पाणौ येषां ते चारुपाणयः चर्म अंगुष्ठांगुल्योराच्छादनरूपं येषां ते चर्मपाणयः, एवं दण्डपाणयः खण्हपाणयः पाशपाणयः । एतदेव व्याचष्टे -- यथायोगं नीलपीतर्तचापचारुचर्मदंडखङ्गपाशधरा आत्मरक्षाः रक्षामुपगच्छंति तदेकचित्ततया तत्परायणा वर्त्तन्ते इति रक्षोपगाः गुप्ता न स्वामिभेदकारिणः, तथा गुप्ता - पराप्रवेश्या पालि-सेतुर्येषां ते गुप्तपालिकाः, तथा युक्ताः - सेवकगुणोपेततया उचितास्तथा युक्ताः - परस्परसंबद्धा नतु बृहदन्तरा पालिर्येषां ते युक्तपालिकाः, समयतः- आचारतः आचारेणेत्यर्थः विनयतश्च किंकरभूता इव तिष्ठति, न खलुते किंकराः, किन्तु तेऽपि मान्याः, तेषामपि पृथगासननिपातनात्, केवलं ते तदानीं निजाचारपरिपालनतो विनीतत्वेन च तथाभूता इव तिष्ठति, तत उक्तं किंकरभूता इवेति, 'तेहिं चउहिं सामाणियसाहस्सीहिं, इत्यादि सुगम, यावत् 'दिव्वाई भोगभोगाई मुंजमाणे विहरति इति ॥ राजप्रश्नीयउपाङ्गसूत्रम् - ४५ मू. (४६) सूरियाभस्स णं भंते! देवस्स केवइयं कालं ठिती पन्नत्ता ?, गोयमा ! चत्तारि पलिओवमाई ठिती पन्नत्ता, सूरियाभस्स णं भंते! देवस्स सामाणियपरिसोववण्णगाणं देवाणं केवइयं कालं ठिती पन्नत्ता ? गोयमा ! चत्तारि पलिओवमाइं ठिती पन्नत्ता, महिडीए महजुत्तीए महब्बले महायसे महासोक्खे महाणुभागे सूरियाभे देवे, अहो णं भंते! सूरियाभे देवे महिड्डीए जाव महाणुभागे । वृ. 'सूरियाभस्स णं भंते! देवरस केवइयं काल' मित्यादि सुगमं । मू. (४७) सूरिया णं भंते! देवे णं सा दिव्वा देविड्डी सा दिवा देवजुई से दिव्वे देवानुभागे For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184