________________
राजप्रश्नीयउपाङ्गसूत्रम् - ३५
अट्टमंगलगा झया छत्तातिच्छत्ता, ते णं पासायवडेंसगा अन्नेहिं चउहिं पासायवडेंसएहिं तददुच्चत्तपमाणमेत्तेहिं सव्वतो समंता संपरिखित्ता, तेणंपासायवडेंसगा बावट्ठि जोयणाई अद्धजीयणंच उडुं उच्चत्तेणं एकवीसं जोयणाइं कोसं च विक्खंभेणं वण्णओ उल्लोओ सीहासणं सपरिवारं पासायउवरि अट्ठट्ठमंगलगा झया छत्तातिछत्ता ।
२८६
वृ. तस्य च बहुसममणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्र महानेको मूलप्रासादावतंसकः प्रज्ञप्तः स च पञ्च योजनशतान्यूर्ध्वमुच्चैस्ल अर्द्धतृतीयानि योजनशतानि विष्कम्भतः 'अब्भुग्गयमूसियपहसियाविवे' त्यादि तस्य वर्णनं मध्येभूमिभागवर्णनमुल्लोकवर्णनं द्वारबहिस्थितप्रासादवद्भावनीयं, तस्य च मूलप्रासादावतंसकस्य बहुमध्ये देशभागेऽत्र महती एका मणिपीठिका प्रज्ञप्ता, अष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि बाहल्यतः सर्वात्मना मणिमयी अच्छा इत्यादि विशेषणकदम्बकं प्राग्वत् ।
'तीसे 'मित्यादि, तस्याश्च मणिपीठिकाया उपरि महदेकं सिंहासनं प्रज्ञप्तं, तस्य सिंहासनस्य वर्णनं, परिवारभूतानि शेषाणि भद्रासनानि प्राग्वद्वक्तव्यानि, 'सेण' मित्यादि, स मूलप्रासादावतंसकोऽन्यैश्चतुर्भिः प्रासादावतंसकैस्तदद्धच्चत्वप्रमाणैः सर्वतः समन्ततः परिक्षिप्तः, तदर्द्धच्चत्वप्रमाणमेव दर्शयति- अर्द्धतृतीयानि योजनशतान्यर्ध्वमुच्चैस्त्वेन, पञ्चविंशं योजनशतं विष्कम्भेन, तेषामपि 'अब्भुग्गयमूसियपहसियाविदे' त्यादि स्वरूपवर्णनं मध्यभूमिभागवर्णनमुल्लोकवर्णनं च प्राग्वत्, तेषां च प्रासादावतंसकानां बहुमध्यदेशभागे प्रत्येकं २ सिंहासनं प्रज्ञप्तं, तेषां च सिंहासनानां वर्णनं प्राग्वत्, नवरमत्र शेषाणि परिवारभूतानि भद्रासनानि वक्तव्यानि ।
ते णं पासायवडेंसया' इत्यादि, ते प्रासादवतंसा अन्यैश्चतुर्भि प्रासादवतंसकैः 'तयद्धुच्चतपमाणमेत्तेहिं तेषां मूलप्रासादावतंसकपरिवारभूतानां प्रासादावतंसकानां यदर्द्ध तदुच्चत्वप्रमाणमात्रैः - मूलप्रासादावतंसकापेक्षया चतुर्भागमात्रप्रमाणैः सर्वतः समन्तात्संपरिक्षिप्ताः, तदर्घोच्चत्वप्रमाणमेव दर्शयति ।
' ते 'मित्यादि, ते प्रासादवतंसकाः पंचविंशं योजनशतमूर्ध्वमुच्चैस्त्वेन द्वाषष्टियोजनानि अर्द्धयोजनं च विष्कम्भतः, तेषामपि अब्मुग्गयमूसियपहसियाविवे' त्यादि स्वरूपवर्णनं मध्यभागे भूमिवर्णनमुल्लोकवर्णनं सिंहासनवर्णनं च सर्वं प्राग्वत्, केवलमत्रापि सिंहासनं सपरिवारं वक्तव्यं, 'ते ण' मित्यादि, ते च प्रासादावतंसका अन्यैश्चतुर्भिः प्रासादावतंसकै स्तदर्द्धाच्चत्वप्रमाणैः अनन्तरोक्तप्रासादावतंसकार्द्धञ्चत्वप्रमाणैर्मूलप्रासादवतंसकापेक्षया (अष्ट) भागप्रमाणैः सर्वतः समन्तात् संपरिक्षिप्ताः, तदर्द्धाच्चत्वप्रमाणमेव दर्शयति ।
'ते ण 'मित्यादि, ते च प्रासादावतंसका द्वाषष्टिर्योजनानि अर्धयोजनं च ऊर्ध्वमुच्चैस्त्वेन एकत्रिंशतं योजनानिक्रोशंच विष्कम्मतः, एषामपि 'अब्दुग्गयमूसिए' त्यादि स्वरूपवर्णनंमध्यभागे भूमिवर्णनं उल्लोकवर्णनं सिंहासनवर्णनं च परिवाररहितं प्राग्वत्, 'ते ण' मित्यादि, तेऽपि प्रासादावतंसका अन्यैश्चतुर्भिः प्रासादावतंसकैस्तदर्द्धाच्चत्वप्रमाणैः अनन्तरोक्तप्रासादावतंसकार्द्धाच्चत्वप्रमाणैर्मूलप्रासादावतंसकापेक्षया षोडशभागप्रमाणैः सर्वतः समंतात् संपरिक्षिप्ताः, तदर्धोच्चत्वप्रमाणमेव दर्शयति- एकत्रिशद्योजनानि क्रोशं च ऊर्ध्वमुचैस्त्वेन पञ्चदश योजनानि अर्द्धतृतीयांश्चैव क्रोशान् विष्कम्भतः, एतेषामपि स्वरूपादिवर्णनमनन्तरोक्तं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org