Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 105
________________ २९० राजप्रश्नीयउपाङ्गसूत्रम्-३६ अच्चीसहस्समालिणीया स्वगसहस्सकलिया भिसिमीणा भिब्मिसमीणा चक्खुल्लोयणलेसासुहफासा सस्सिरीयस्वा कंचणमणिरयणधूभियागा नानाविहपंचवण्णघंटापडागपरिमंडियग्गसिहराधवला मरीइकवचं विणिम्मुयंती लाउल्लोइयमहिया गोसीससरससुरभिरत्तचंदणदद्दरदिन्नपंचंगुलितला उपचितयचंदणकलसवंदणघडसुकयतोरणपडिदुवारदेसभागाआसोत्तोसत्तविउलवद्दवग्धारियमल्लदामकलावा पंचवण्णसरससुरभिमुक्कपुप्फपुंजोवयारकलिया कालागुरुपवरकुंदुरुक्कतुरुक्कघूवडझंतमघमघंतगंधुद्धयाभिरामा सुगंधवरगंधियागंधवट्टिभूया अच्छरगणसंघसंविकिण्णा दिव्वतुडियसद्दसंपणादिया सब्बरयणामया अच्चा जाव पडिरूवा' इति प्राग्वत् । _ 'सभाए ण मित्यादि,सभायाश्च सुधर्मायास्त्रिदिशितिसृषुदिक्षु एकैकस्यां दिशि एकैकद्वारभावेन त्रीणि द्वाराणि प्रज्ञप्तानि, तद्यथा-एकंपूर्वस्यामेकं दक्षिणस्यामेकमुत्तरस्यां, तानि च द्वाराणि प्रत्येकं षोडश २ योजनान्युर्ध्वमुच्चैस्त्वेन अष्टौ योजनानि विष्कम्भतः 'तावइयं चेवेति तावन्त्येवाष्टौ योजनानीतिभावः प्रवेशेन, सेया वरकणगथूभिया' इत्यादि प्रागुक्तद्वारवर्णनं तदेव तावद्वक्तव्यं यावद्वनमाला इति, तेषां च द्वाराणांपुरतः प्रत्येकं २ मुखमण्डपःप्रज्ञप्तः, तेच मुखमण्डपा एकंयोजनशतमायामतः पञ्चाशत योजनानि विष्कम्भतः सातिरेकामिषोडशयोजनानि ऊर्ध्वमुचैस्त्वेन, एतेषामपि अनेगखंभसयसंनिविट्ठा' इत्यादि वर्णनंसुधर्मसभाया इवनिरवशेष द्रष्टव्यं । तेषां च मुखमण्डपानां पुरतः प्रत्येकं २ प्रेक्षागृहमण्डपः प्रज्ञप्तः, ते च प्रेक्षागृहमण्डपा आयामविष्कम्भोच्चैस्त्वैः प्राग्वत् तावद्वायं यावन्मणीनां स्पर्श, ते, च बहुरमणीयानं भूमिभागानां बहुमध्यदेशभागेप्रत्येकं २ वज्रमयोऽक्षपाटकःप्रज्ञप्तः, तेषां च वज्रमयानामक्षपाटकानांबहुमध्यदेशभागे प्रत्येकं २ वज्रमयोऽत्रपाटकः प्रज्ञप्तः, तेषांच वज्रमयानामक्षपाटकानां बहुमध्यदेशभागे प्रत्येकं २ मणिपीठिकाअष्ट योजनान्यामविष्कम्भाभ्यांचत्वारियोजनानिबाहल्येन-पिण्डभावेन सर्वात्मना मणिमयाः 'अच्छाओ' इत्यादि विशेषणजातं प्रागिव । तासां च मणिपीठिकानामुपरि प्रत्येकं २ सिंहासनं प्रज्ञप्तं, तेषांच सिंहासनानां वर्णनं परिवारश्चप्राग्वद्वक्तव्यः, तेषांचप्रेक्षागृहमण्डपानामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा इत्यादि प्राग्वत, तेषां प्रेक्षागृहमण्डपानांपुरतःप्रत्येकं २ मणिपीठिका प्रज्ञप्ता, ताश्च मणिपीठिकाः प्रत्येकंषोडशयोजनान्यायामविष्कम्भाभ्यामष्टौ योजनानिबाहल्येन सर्वात्मनामणिमयाः 'अच्छा' इत्यादि विशेषणकदम्बकं प्राग्वत्, तासां च मणिपीठिकानामुपरि प्रत्येकं २ चैत्यस्तूपः प्रज्ञप्तः, ते च चैत्यस्तूपाः षोडश योजनन्यायामविष्कम्भा-भ्यां सातिरेकाणि षोडश योजनान्यूर्ध्वमुच्चैस्त्वेन संखंके त्यादितद्वर्णनंसुगमं । तेषां च चैत्यस्तूपानामुपर्यष्टावष्टौ स्वस्तिकादीनि मङ्गलकानि 'जाव सहस्सपत्तहत्थया' इति यावत्करणात् 'तेसिं चेइयथूभाणं उप्पिं बहवे किण्हचामरज्झया जाव सुक्कालचामरल्झया अच्छासण्हारुप्पपट्टवइरदंडाजमलजामलगंधी सुस्वा पासाइयाजाव पडिरूवा, तेसिंचेइयथूभाणं उपिंबहवेछत्ताइच्छत्तापडागाघंटाजुगलाउप्पलहत्थगाजाव सयसहस्सपत्तहत्थगासवरयणामया जावपडिरूवा' इति, एतच्च समस्तं प्राग्वत् । 'तेसि ण' मित्यादि, तेषां चैत्यस्तूपानां प्रत्येकं २ 'चउदिसति चतुर्दिशि-चतसृषु दिक्षु एकैकस्यां दिशि एकैकमणिपीठिकाभावेन चतन मणिपीठिकाः प्रज्ञप्ताः अष्टौ योजनान्यायाम Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184