________________
२९०
राजप्रश्नीयउपाङ्गसूत्रम्-३६ अच्चीसहस्समालिणीया स्वगसहस्सकलिया भिसिमीणा भिब्मिसमीणा चक्खुल्लोयणलेसासुहफासा सस्सिरीयस्वा कंचणमणिरयणधूभियागा नानाविहपंचवण्णघंटापडागपरिमंडियग्गसिहराधवला मरीइकवचं विणिम्मुयंती लाउल्लोइयमहिया गोसीससरससुरभिरत्तचंदणदद्दरदिन्नपंचंगुलितला उपचितयचंदणकलसवंदणघडसुकयतोरणपडिदुवारदेसभागाआसोत्तोसत्तविउलवद्दवग्धारियमल्लदामकलावा पंचवण्णसरससुरभिमुक्कपुप्फपुंजोवयारकलिया कालागुरुपवरकुंदुरुक्कतुरुक्कघूवडझंतमघमघंतगंधुद्धयाभिरामा सुगंधवरगंधियागंधवट्टिभूया अच्छरगणसंघसंविकिण्णा दिव्वतुडियसद्दसंपणादिया सब्बरयणामया अच्चा जाव पडिरूवा' इति प्राग्वत् ।
_ 'सभाए ण मित्यादि,सभायाश्च सुधर्मायास्त्रिदिशितिसृषुदिक्षु एकैकस्यां दिशि एकैकद्वारभावेन त्रीणि द्वाराणि प्रज्ञप्तानि, तद्यथा-एकंपूर्वस्यामेकं दक्षिणस्यामेकमुत्तरस्यां, तानि च द्वाराणि प्रत्येकं षोडश २ योजनान्युर्ध्वमुच्चैस्त्वेन अष्टौ योजनानि विष्कम्भतः 'तावइयं चेवेति तावन्त्येवाष्टौ योजनानीतिभावः प्रवेशेन, सेया वरकणगथूभिया' इत्यादि प्रागुक्तद्वारवर्णनं तदेव तावद्वक्तव्यं यावद्वनमाला इति, तेषां च द्वाराणांपुरतः प्रत्येकं २ मुखमण्डपःप्रज्ञप्तः, तेच मुखमण्डपा एकंयोजनशतमायामतः पञ्चाशत योजनानि विष्कम्भतः सातिरेकामिषोडशयोजनानि ऊर्ध्वमुचैस्त्वेन, एतेषामपि अनेगखंभसयसंनिविट्ठा' इत्यादि वर्णनंसुधर्मसभाया इवनिरवशेष द्रष्टव्यं ।
तेषां च मुखमण्डपानां पुरतः प्रत्येकं २ प्रेक्षागृहमण्डपः प्रज्ञप्तः, ते च प्रेक्षागृहमण्डपा आयामविष्कम्भोच्चैस्त्वैः प्राग्वत् तावद्वायं यावन्मणीनां स्पर्श, ते, च बहुरमणीयानं भूमिभागानां बहुमध्यदेशभागेप्रत्येकं २ वज्रमयोऽक्षपाटकःप्रज्ञप्तः, तेषां च वज्रमयानामक्षपाटकानांबहुमध्यदेशभागे प्रत्येकं २ वज्रमयोऽत्रपाटकः प्रज्ञप्तः, तेषांच वज्रमयानामक्षपाटकानां बहुमध्यदेशभागे प्रत्येकं २ मणिपीठिकाअष्ट योजनान्यामविष्कम्भाभ्यांचत्वारियोजनानिबाहल्येन-पिण्डभावेन सर्वात्मना मणिमयाः 'अच्छाओ' इत्यादि विशेषणजातं प्रागिव । तासां च मणिपीठिकानामुपरि प्रत्येकं २ सिंहासनं प्रज्ञप्तं, तेषांच सिंहासनानां वर्णनं परिवारश्चप्राग्वद्वक्तव्यः, तेषांचप्रेक्षागृहमण्डपानामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा इत्यादि प्राग्वत, तेषां प्रेक्षागृहमण्डपानांपुरतःप्रत्येकं २ मणिपीठिका प्रज्ञप्ता, ताश्च मणिपीठिकाः प्रत्येकंषोडशयोजनान्यायामविष्कम्भाभ्यामष्टौ योजनानिबाहल्येन सर्वात्मनामणिमयाः 'अच्छा' इत्यादि विशेषणकदम्बकं प्राग्वत्, तासां च मणिपीठिकानामुपरि प्रत्येकं २ चैत्यस्तूपः प्रज्ञप्तः, ते च चैत्यस्तूपाः षोडश योजनन्यायामविष्कम्भा-भ्यां सातिरेकाणि षोडश योजनान्यूर्ध्वमुच्चैस्त्वेन संखंके त्यादितद्वर्णनंसुगमं ।
तेषां च चैत्यस्तूपानामुपर्यष्टावष्टौ स्वस्तिकादीनि मङ्गलकानि 'जाव सहस्सपत्तहत्थया' इति यावत्करणात् 'तेसिं चेइयथूभाणं उप्पिं बहवे किण्हचामरज्झया जाव सुक्कालचामरल्झया अच्छासण्हारुप्पपट्टवइरदंडाजमलजामलगंधी सुस्वा पासाइयाजाव पडिरूवा, तेसिंचेइयथूभाणं उपिंबहवेछत्ताइच्छत्तापडागाघंटाजुगलाउप्पलहत्थगाजाव सयसहस्सपत्तहत्थगासवरयणामया जावपडिरूवा' इति, एतच्च समस्तं प्राग्वत् ।
'तेसि ण' मित्यादि, तेषां चैत्यस्तूपानां प्रत्येकं २ 'चउदिसति चतुर्दिशि-चतसृषु दिक्षु एकैकस्यां दिशि एकैकमणिपीठिकाभावेन चतन मणिपीठिकाः प्रज्ञप्ताः अष्टौ योजनान्यायाम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org