Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 95
________________ २८० राजप्रश्नीयउपाङ्गसूत्रम्-३२ कदम्बकं प्राग्वत्। _ 'तेसि ण'मित्यावि, तेषु आलिगृहकेषु यावदादर्शगृहकेषु, अत्र यावत्शब्दात् मालिगृहकादिपरिग्रहः, 'बहूनि हंसासनानि' इत्यादि प्राग्वत् । तेसिण मित्यादि, तेषु वनखण्डेषु तत्र तत्र देशे तस्यैव देशस्य तत्रतत्रएकदेशेबहवो जातिमण्डपकायूथिकामण्डपका मल्लिकामण्डपका नवमालिकमण्डपका वासंतीमण्डपका दधिवासुकामण्डपकाः, दधिवासुका-वनस्पतिविशेषस्तन्मया मण्डपका दधिधासुकामण्डपकाः, सूरुल्लिरपि वनस्पतिविशेषः तन्मया मण्डपकाः२, ताम्बूली-नागवल्लीन्मया मण्डपकास्तांबूलीमण्डपकाः, नागो-द्रुमविशेषः,सएव लता नागलता, इह यस्य तिर्यक् तथाविधा शाखाप्रशाखावानप्रसृतासा लतेत्यभिधीयतेनागलतामयामण्डपका नागलतामण्डपकाः, अतिमुक्तमण्डपकाः, 'अप्फोया' इति वनस्पतिविशेषस्तन्मया मण्डपका अफोयामण्डपकाः, मालुका-एकास्थिकफला वृक्षविशेषास्तुद्यक्ता मण्डपका मालुकामण्डपकाः, एते च कथंभूता इत्याह-सव्वरयणामया' इत्यादि प्राग्वत् । _ 'तेसिणमित्यादि, तेषुजातिमण्पकेषुयावन्मालुमाण्डपकेषुजावशब्दात्यूथिकामण्डपकादिपरिग्रहः, बहवः शिलापट्टकाः परज्ञप्तास्तद्यथा-अप्पेगइया हंसासणसंठिया अप्पेगइया गरुडासणसंठिया अप्पेगइया उण्णयासणसंठिया अप्पेगइया पणयासणसंठिया अप्पेगइया दीहासणसंठियाअप्पेगइया भद्दासणसंठिया अप्पेगइया पक्खा० अप्प आयंसासणसंठिया अप्पेगइया उसभासणसंठिया अप्पेगइया सिहासणसंठियाअप्पगइया पउमासणसंठिया' इति परिग्रहः, अन्ये च बहवः शिलापट्टका यानि विशिष्टचिन्हानि विशिष्टनामानि चवराणि-प्रदानानि शयनानि आसनानि च तद्वत् संस्थिता वरशयनासनविशिष्टसंस्थानसंस्थिताः, क्वचित् ‘मांसलसुघट्टविसिट्ठसंठाणसंठिया' इति पाठः, तत्रान्ते च बहवः शिलापट्टकाः मांसलाः अकठिना इत्यर्थः सुघृष्टा अतिशयेन मसृणा इतिभावः विशिष्टसंस्थानसस्थिताश्चेति, 'आईणगरूय बूरनवनीयतूलफासमउया सव्वरयणामया अच्छा जाव पडिरूवा' इति प्राग्वत् । तत्रतेषुउत्पादपर्वतादिगतहंसासनादिषुयावन्नानारूपसंस्थानसंस्थितपृथ्वीशिलापट्टकेषु णमितिपूर्ववत् बहवः सूर्याभविमानवासिनोदेवा देव्यश्चयथासुखभासतेशेरते-दीर्घकायप्रसारणेन वर्तन्तेन तुनिद्रां कुर्वति, तेषां देवयोनिकत्वेन निद्राया अभावात्, तिष्ठन्ति ऊर्ध्वस्थानेन वर्तन्ते निषीदन्ति-उपविंशतितुयटृति-त्वग्वर्त्तनं कुर्वन्ति, वामपार्श्वतः परावृत्य दक्षिणपाइँनावतिष्ठन्ति दक्षिणपार्श्वतो वा परावृत्य वामपार्वेनेति भावः, रमन्ते-रतिमाबघ्नन्ति ललन्ति-मनईप्सितं यथा भवतितथावर्तन्तइति भावः,क्रीटन्ति यथासुखमितस्ततोगमनविनोदेन गीतनृत्यादिविनोदेन वा तिष्ठन्ति मोहन्ति मैथुनसेवां कुर्वन्ति इत्येवं 'पुरापोराणाण' मित्यादि पुरा-पूर्व प्राग्भवे इति भावः कृतानां कर्मणामिति योगः, अत एवपौराणानांसुचीर्णानां-सुचरितानां, इहसुचरतजनितं कर्मापि कार्ये कारणोपचारात् सुचरितं, ततोऽयं भावार्थः विशिष्टतथाविधधर्मानुष्ठानविषयाप्रमादकरणक्षान्त्यादिसुचरितजनितानामिति, तथा सुपराक्रान्तानां, अत्रापि कार्यकारणोपचारात् सुपराक्रन्तिजनितानि सुपराक्रन्तानि इत्युक्तं, किमुक्तं भवति? सकलसत्वमैत्रीसत्यभाषणपरद्रव्यानपहारसुशीलादिरूपसुपराक्रमजनितानामिति,अत एव शुभानां शुभफलानां, इह किंश्चिदशुभफलमपि इंद्रियमतिविपर्यासात् शुभफलं प्रतिभासते Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184