Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 93
________________ २७८ राजप्रश्नीयउपाङ्गसूत्रम्-३२ ता नानामणितीर्थसुबद्धाः, अत्र बहुव्रीहावपि क्तान्तस्य परनिपातः सुखादिदर्शनाद् प्राकृतशैलीवशाद्वा 'चउक्कोणाउ' इति चत्वारः कोणा यासां ताश्चतुःकोणाः, एतच्च विशेषणं वापीः कूपांश्च प्रतिद्रष्टव्यं, तेषामेव चतुष्कोणत्वसंभवात् नशेषाणां, तथा आनुपूर्येण-क्रमेणनीचैस्तराभावरूपेण सुष्टु-अतिशयेन यो जातवप्रः केदारो जलस्थानं तत्र गम्भीरं-अलब्धस्ताधं शीतलं जलं यासुताआनुपूर्व्यसुजातवप्रगम्भीरशीतलजलाः, 'संछन्नपत्तभिसमुणालाउ' इति संछन्नानिजलेनान्तरितानि पत्रबिसमृणालानि यासुताः संछन्नपत्रविसमृणालाः, इहविसमृणालसाहचर्यात् पत्राणि पद्मिनीपत्राणि द्रष्टव्यानि, बिसानि-कन्दाः मृणालानि-पद्मनालाः तथाबहुभिरुत्पलकुमुदनलिनसुभगसौगन्धिकपुण्डरीकशतपत्रसहस्रपत्रः केसरैः-केसरप्रधानैः फुल्लैः-विकसितैरुपचिता बहूत्पलकुमुदनलिनसुभगसौगन्धिकपुण्डरीकशतपत्रसहस्रपत्रकेसरफुल्लोपचिताः,तथा षट्पदैः भ्रमरैः परिभुज्यमानकमलाः, तथा अच्छेन-स्वरूपतः स्फटिकवत् शुद्धेन विमलेन-आगन्तुकमलरहितेन सलिलेन पूर्णा अच्छविमलसलिलपूर्णा, तथा पडिहत्था अतिरेकिता अतिप्रभूता इत्यर्थः 'पडिहत्यमुद्धमायं अतिरिययं जाणमाउण्ण' मिति वचनात्, उदाहरणं चात्र॥१॥ 'घणपडिहस्थ गयणं सराइ नवसलिलउद्धमायाई। अइरेइयं मह उण चिंताए मण तुहं विरहे ।। इति । भ्रमन्तो मत्स्यकच्छपायत्रताः परिहत्यभ्रमनमत्स्यकच्छपाः, तथाअनेकैःशकुनिमिथुनकैः प्रविचरिता-इतस्ततो गमनेन सर्वतो व्याप्ताः अनेकशकुनिमिथुनकप्रविचरितास्ततः पूर्वपदेन विशषणसमासः, एतावाप्यादयः सरस्सरःपङ्क्तिपर्यन्ताः प्रत्येकंप्रत्येकं प्रतिप्रत्येकमत्राभिमुखे प्रतिशब्दस्ततो वीप्साविवक्षायांपश्चाप्रत्येकशब्दस्य द्विर्वचनमिति, पद्मवरवेदिकया परिक्षिप्ताः, प्रत्येकं प्रत्येकं वनखण्डपरिक्षत्रिप्ताः, 'अप्पेगइयाउ' इत्यादि, अपिबढार्थे बाढमेककाः-काश्चन वाप्यादय आसवमिव-चन्द्रहासादिपरमासवमिव उदकं यासां ता आसवोदकाः, अप्येकका वारुणस्य-वारुणसमुद्रस्येव उदकंयासांता वारुणोदकाः, अप्येककाःक्षीरमिव उदकं यासांताः क्षोरोदकाः, अप्येकका धृतमिव उदकं यासांता धृतोदकाः, अप्येककाः क्षोद इव-इक्षुरस इव उदकं यासां ताः क्षोदोदकाः, अप्येककाः स्वाभाविन उदकरसेन प्रज्ञप्ताः, 'पासाइया' इत्यादि विशेषणचतुष्टयं प्राग्वत्। 'तासि णमित्यादि, तासां क्षुल्लिकानां वापीनां यावद्बिलपङ्क्तीनामिति यावदशब्दात् पुष्करिण्यादिपरिग्रहः, प्रत्येकं चतुर्दिशि चत्वारि एकैकस्यां दिशि एकैकस्य भावात् त्रिसोपानप्रतिरूपकाणि-प्रतिविशिष्टरूपाणि त्रिसोपानानि, त्रयाणां सोपानानां समाहारस्त्रिसोपानं, तानि प्रज्ञप्तानि, तेषां च त्रिसोपानप्रतिरूपकाणामय-वक्ष्यमाण-एतद्रूपः अनन्तरं वक्ष्यमाणस्वरूपो वर्णकनिवेशः प्रज्ञप्तस्तद्यथा वज्ररत्नमया वंगा इत्यादि प्राग्वत्। 'तेसिणं तेषांत्रिसोपानप्रतिरूपकाणांप्रत्येकंतोरणानिप्रज्ञप्तानि, तोरणवर्णकस्तुनिरवशष यानविमानवद्भावनीयो यावत्बहवः सहस्रपत्रहस्तकाइति, 'तासिण मित्यादि, तासां क्षुल्लिकाक्षुल्लिकानां यावद् बिलपङ्क्तीनां, अत्रापि यावच्छब्दात् पुष्करिण्यादिपरिग्रहः, तत्र तत्र देशे तस्यैव देशस्य तत्र तत्र एकदेशे बहव उत्पतिपर्वता यत्रागत्य बहवः सूर्याभिविमानवासिनो For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184