Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
मूलं-२८
२६३ वाक्षाकृतिरत्नविशेषमालासमूहा यानिच किङ्किणिघटाजालानि-शुत्रघण्टासमूहास्तैः परित्रिप्ताः -सर्वतो व्याप्ताः ‘अब्भुग्गया' इति अभिमुखमुद्गताः अग्रिमभागे मनाक् उन्नता इति भावः 'अभिनिसिट्टा' इति अभिमुखं बहिर्भागाभिमुखं निस्पृष्टा निर्गता अभिनस्पृष्टाः "तिरियसुसंपरिग्गहिया इतितिर्यक् भित्तिप्रदेशैः सुष्टु-अतिशयेन सम्यक्-मनागप्यचलनेनपरिगृहीताः सुसम्परिगृहीताः, 'अहेपन्नगद्धरूवा' इति अधः-एतदेवव्याचष्टे-‘पन्नगार्द्धसंस्थान-संस्थिता' अधःपन्नगार्द्धसंस्थानाः 'सव्ववयरामया' सर्वात्मना वज्रमया 'अच्छा सण्हा' इत्यारभ्य 'जाव पडिरूवा' इति विशेषणजातं प्राग्वत्।
___महया' इति अतिशयेन महान्तो गजदन्तसमाना-गजदन्ताकाराः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ! 'तेसु णं नागदंतएसु बहवे किण्हसुतवद्धा' तेषु नागदन्केषु बहवः कृष्णमूत्रवद्धा 'वग्यरिय' इति अवलम्बिता माल्यदामकलापाः-पुष्पमालासमूहा बहवो नीलसूत्रावलम्बितमाल्यदामकापा एवं लोहितहारिद्रशुक्लसूत्रवद्धा अपि वाच्याः । 'ते णं दामा' इत्यादि, तानि दामानि तवणिज्जलंबूसगा' इति तपनीयः-तपनीयमयोलम्बूसगो-दाम्नामग्रिमभागे मण्डनविशेषो येषांतानि तथा, जावलंबूसकानि, 'सुवन्नपयरगसंडिया' इति पार्श्वतः सामस्त्येन सुवर्णप्रतरेणसुवर्णपत्रकेण्णमण्डितानि सुवणप्रतरमाण्डितानि।
नानाविहमणिरयणविविहहारउवसोहियसमुदया' इति नानारूपाणां मणीनां रत्नानांच विविधा-विचित्रवर्णा हारा-अष्टादशसरिका अर्द्धहारा-नवसरिकास्तैरुपशोभितः समुदायो येषां तानि तथा 'जाव सिरीए अईव २ उवसोभेमाणा चिटुंति' इति अत्र यावत्करणादेवं परिपूर्ण पाठो द्रष्टव्यः 'ईसिमण्णोण्णमसंपत्ता पुव्वावरदाहिणुत्तरागएहिं वाएहिं मंदायं मंदायएइज्जमाणा पइज्जमाणा पलंबमाणा पझंझमाणा ओरालेण मणुण्णेणं मणहरेणं कण्णमणनिव्वइकरेणं सहेणं ते पएसे सव्वओ समंता आपूरेमाणा २ सिरीए अईव २ उवसोभेमाणा चिटुंति' एतच्च प्रागेव यानविमानवर्णने व्याख्यातमिति न भूयो व्याख्यायते । ___"तेसि णं नागदंताण'मित्यादि, तेषां नागदन्तानामुपरि प्रत्येकमन्याः षोडश षोडश नागदन्तपरिपाटयः प्रज्ञप्ताः ते च नागदन्ता यावत्करणात् 'मुत्तजालंतरुसियहेमजालववखजालसिंखिणिघंटाजालपरिखित्ता' इत्यादि प्रागुक्तं सर्वं द्रष्टव्यं यावत् गजदन्तसमानाः प्रज्ञप्ता हे श्रमण! हेआयुष्मन्! 'तेसुणंनागदंतए ।इत्यादि, तेषुनागदन्तकुषेबहूनि रजतमयानि सिक्ककानि प्रज्ञप्तानि, तेषु वररजतमयेषु सिक्ककेषु बहवो-बह्रयो वैडूर्यमय्य वैडूर्यरलात्मिका घूपघटिकाः 'कालागुरुपवरकंकुदुरुक्कतुरुक्कघूवमघमघते'त्यादि प्रगात नवरं 'घाणमणनिव्वुइकरेण मिति घ्राणेन्द्रियमनोनिवृतिकरण ।
___'तेसि ण'मित्यादि, तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोरेकैकनषेधिकोभावेन द्विघातो-द्विप्रकारायांनषेधिक्यां षोडश षोडशशालभञ्जिकापरिपाटयःप्रज्ञप्ताः, ताश्चशालभञ्जिका लीलया-ललिताङ्गनिवेशरूपयास्थितालीलास्थिताः, 'सुपइट्ठियाओ' इतिसुमनोज्ञतयाप्रतिष्ठिताः सुप्रतिष्ठिताः 'सुअलंकियाओ' सुठु-अतिशयेन रमणीयतया अलङ्कृताः स्वलकृताः 'नानाविहरागवसणाओ' इति नानाविधोनानाप्रकारो रागो येषां तानि नानविधरागामि तानि वसनानि-वस्त्राणि यासांतास्तथा 'नानामल्लपिनद्धाओ' इति नानारूपाणि माल्यानि-पुष्पाणि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184