Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 44
________________ मूलं-१५ २२९ रुधिरं, वराहःसूकरस्तस्यरुधिरं, मनुष्यरूधिरं महिषरुधिरंचप्रतीतं, एतानि हि किल शेषरूधिरेभ्यो लोहितवर्णोत्कटानि भवन्ति तत एतेषामुपादानं, बालेन्द्रगोपकः-सद्योजातेनद्रगोपकः स हि प्रवृद्धः सन्निषत्पाण्डुरो रक्तो भवति ततो बालग्रहणं, इन्द्रगोपकः-प्रथमप्रावृटकालभावी कीटविशेषः, बालदिवाकरः-प्रथममुद्गच्छन्सूर्य, सन्ध्याघ्ररागो-वर्षासु सन्ध्यासमयभावी अभरागः, गुला-लोकप्रतीता तस्याद्धे रागो गुआर्द्धरागः, गुआया हि अर्द्धमतिरक्तं भवति अर्द्ध चातिकृष्णमितिगुआर्द्धग्रहणं, जपाकुसुमकिंसुककुसुमपारिजातकुसुमजात्यहिङ्गुला लोकप्रसिद्धाः, शिलाप्रवालं-प्रवालनामारलविशेषः प्रवालाङ्करः-तस्यैव रत्नविशेषस्य प्रवालस्याङ्करः, स हि तप्रथमोद्गतत्वेनात्यन्तरक्तो भवति ततस्तदुपादानं, लोहिताक्षमणि म रत्नविशेषः, लाक्षारसकृमिरागरक्तकम्बलचीनपिष्टराशिरक्तोत्पलरक्ताशोककणवीररक्तबन्धुजीवाःप्रतीताः, 'भवेयारवे' इत्यादि प्राग्वत् । __'तत्थ णमि'त्यादि, 'तत्र' तेषां मणीनां मध्ये ये हरिद्रा मणयस्तेषामेतद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथा से जहानामए' इत्यादि, स यथानाम चम्पकः समामान्यतः सुवर्णचम्पको वृक्षः, चम्पकच्छल्ली-सुवर्णचम्पकत्वक्, चम्पकभेद:- सुवर्णचम्पकच्छेदः, हरिद्रा प्रतीता, हरिद्राभेदोहरिद्राच्छेदः, हरिद्रागुटिका-हरिद्रासारनिवर्तिता गुटिका, हरितालिका-पृथिवीविकाररूपाप्रतीता हरितालिकाभेदो-हरितालिकाच्छेदः,हरितालिकागुटिका-हरितालिकासारनिर्वर्तिता गुलिका, चिकुरो-रागद्रव्यविशेषः, चिकुराङ्गरागः-चिकुरसंयोगनिर्मितो वस्त्रादौ रागः, वरकनकस्यजात्यसुवर्णस्य यः कषपट्टकेनिघर्षस वरकनकनिघर्षवरपुरुषोःवासुदेवस्तस्यवसनंवरपुरुषवसनं, तच किलपीतमेव भवतीति तदुपादानं, अल्लकीकुसुमंलोकतोऽवसेयं, चम्पककुसुमं सुवर्णचम्पकपुष्पंकूष्माण्डीकुसुमं-पुष्पफलीकुसुमं, कोरण्टकः-पुष्पजातिविशेषः तस्य दाम कोरण्टकदाम तडवडा-आउली तस्याः कुसुमं तडवडाकुसुमं, घोशातकीकुसुमं सुवर्णयूथिकाकुसुमंच प्रतीतं चप्रतीतं, सुहिरण्यका-वनस्पतिविशेषस्तस्याः कुसुमंसुहिरण्यकाकुसुमं, बीयको वृक्षः प्रतीतः तस्य कुसुमं बीयककुसुमं, पीताशोकपीतकणवीरपीतबन्धुजीवाः प्रतीताः, 'भवेयास्त्रवे' त्यादि प्राग्वत् । 'तत्थ णमि'त्यादि। 'तत्र तेषां मणीनां मध्ये ये शुक्ला मणयस्तेषामयमेतद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथा 'से जहानामए' इत्यादि, सयथानाम 'अङ्को रतन्विशेषः, शचन्द्र (दतकुन्द) कुमुदोदकोदकरजोदधिधनगोक्षीरपूरकोचावलिहारावलिहंसावलिबलाकावलयः प्रतीताः, चन्द्रावली-तडागादिषु जलमध्यप्रतिविम्बितचन्द्रपङ्कित, सारइयबलाहगेइतिवा' शारदिकः-शरत्कालभावी बहालकोमेघः, 'घन्तघोयरुप्पपट्टे इ वेति' ध्मातः-अग्निसम्पर्केण निर्मलीकृतो घौतः-भूतिखरण्टितहस्तसंतर्जनेन अतिनिशितीकृतो यो रूप्यपट्टो-रजतपत्रकं स मातघौतरूप्यपट्टः, अन्ये तु व्याचक्षते मातेन-अग्निसंयोगेन यो घौतःशोधितो रूप्यपट्टः समातघौतरूप्यपट्टः, शालिपिष्टराशि-शालिक्षोदपुञ्जः,कन्दपुष्पराशि कुमुदराशिश्च प्रतीतः, 'सुक्कछेवाडिया इवे तिछेवाडिनाम वल्लादिफलिका सा च कचिद्देशविशेषे शुष्का सती अतीव शुक्ला भवति ततस्तदुपादानं, 'पेहुणमिंजिया इ वेति' पेहुणं-मयूरपिच्छं तन्मध्यवर्तिनी पेहुणमिञ्जिका सा चातिशुक्लेति तदुपन्यासः, 'विसं पद्मनीकन्दः, 'मृणालं पद्मतन्तुगजदन्तलवङ्गदलपुण्डरीकदलश्वेता-शोकश्वे Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184