Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
मूलं-२३
२४९ स्वरप्रकारोलयस्तमनुसरन् गेयलयसुसम्प्रयुक्, तथा यः प्रथमं वंशतन्त्रयादिभि स्वरो गृहीतस्तनमाग्र्गानुसारि ग्रहसुसम्प्रयुक्तं, तथा महुरि ति मधुरस्वरेण गीयमानं, मधुरं कोकिलारुतवत्, तथा 'सममिति तलवंशस्वरादिसमनुगतं समं 'सललिय'ति यत्स्वरघोलनाप्रकारेण ललतीव तत् सह ललितेन ललनेन वर्तते इति सललितं, यदि वा इति यत् श्रोत्रेन्द्रियस्य शब्दस्पर्शनमतीव सूक्ष्ममुत्पादयति सुकुमारमिव च प्रतिभासते तत्सललितमिति, अत एव मनोहरं, पुनः कथम्भूतमित्याह-'मउरिभितपदसञ्चारं' तत्र मृदुर्मूदुनास्वरेण युक्तो न निष्ठुरेण तथा यत्र स्वरोऽक्षरेषु घोलनास्वरविशेषेषु च सञ्चरन् रङ्गतीव प्रतिभासते(स)पदसञ्चारो रिमित उच्यते।
मृदुरिभितः पदेषु गेयनिबद्धेषु संचारो यत्र गेये तन्मृदुरिमितपदसञ्चार, तथा 'सुरइ इति शोभना रतिर्यस्मिन श्रोतणां ततः सुरति तथा शोभना नतिन मोऽवसानो यस्मिन् तत् सुनति तथा वरं-प्रधानं चारु-विशिष्टचङ्गिमोपेतं रूपं स्वरूपं यस्य तद्वरचारुरूपं दिव्यंप्रधाननृत्तसङ्गं गेयंप्रगीता अप्यभवन्, 'किं ते' इत्यादि, किञ्चते देवकुमारा देवकुमारिकाश्चप्रगीतवन्तः प्रनर्तितवन्तश्च ‘उद्धुमंताणं संखाणमित्यादि, अत्र सर्वत्रापि षष्ठी सप्तम्यर्थे, ततोऽयमों यथायोगमुदध्याममानादिषुशङ्खादिषु, इह शरशृङ्गशङ्क्षिकाखरमुहीपेयापिरिपिरिकाणांवानमुद्धयानमिति प्रसिद्धं, प्रणवपटहानामामोटनं भंभाहोरम्भाणामास्फालनं भेरीझल्लरीदुन्दुभीनां ताडनं मुरजमृदङ्गनन्दीमृदङ्गानामालपनं । ___आलिङ्गकुस्तुम्बगोमुखीमर्दलानामुत्तालनं वीणाविपञ्चीवल्लकीनां मूर्च्छनं भ्रामरीषडभ्रामरीपरिवादनीनां स्यन्दनं वध्वासा (वव्वीसा) सुघोषनन्दिघोषाणांसारणं महतीकच्छपीचित्रवीणानां कुट्टनं आमोदझञ्झानकुलानामामोटनं तुम्बतूणवीणानां स्पर्शनं मुकुन्दहुडुक्काविचिक्काकडबानां मूर्छनं करटाडिंडिमकिणिककडंबानां वादनं दर्दरदरिकाकुस्तुम्बरुकलसिकामड्डकानामुत्ताडनंतलतालकंतालानामाताडनं रिङ्गिसिकालत्तिकामकरिकाशिशुमारिकाणां घट्टनं वंशवेणुवालीपिरलीपिरलीबध्धगानांफुकनमत उक्तं उद्धुमंताणं संखाणमित्यादि, 'तए णं से दिव्वे गीए' इत्यादि, यत एवं प्रगीतवन्त इत्यादि, ततो णमिति पूर्ववत् तद्दिव्यं गीतं दिव्यं वादितं दिव्यं नृत्तमभवदितियोगः, दिव्यं नाम प्रधानं, एवमब्भुए गीए' इत्यादि, ‘अब्भुए गीए अब्भुए वाइएअब्भुएनट्टे' अद्भुतं-आश्चर्यकारि सिंगारे वाइए सिंगारेनट्टे’ सिंगारं-शृङ्गारं शृङ्गाररसोपेतत्वात्।
अथवा शृङ्गारंनामलङकृतमुच्यते, तत्र यदन्यान्यविशेषकरमेनालङ्कृतमिव गीतं वादनं नृत्तं वा तत्शृङ्गारमिति, ‘उरले गीएउराले वाइए उराले नट्टे उदारं-स्फारंपरिपूर्णगुणोपेतत्वात्, नतु कचिदपि हीनं, 'मणुण्णे गीए मणुण्णे वाइए मणुने नट्टे' मनोज्ञं-मनोऽनुकूलंद्रष्टणां श्रोतृणां च मनोनिवृतिकरमिति भावः, तच्च मनोनिवृतिकरत्वं सामान्यतोऽपि स्यात् अतः प्रकर्षविशेषप्रतिपानार्थमाह– 'मनहर' इति, 'मनहरे गीए मनहरे वाइए मनहरे नट्टे' मनो हरति आत्मवशं नयति तद्विदामप्यतिचमत्कारकारितयेति मनोहरम्, एतदेवाह-'उप्पिञ्जलभूते' उप्जिलम्आकुलकं उत्पिञ्जलभूते आकुलके भूते, किमुक्तं भवति।
महर्द्धिकदेवानामप्यतिशायितया परमक्षोभोत्पादकत्वेन सकलदेवासुरमनुजसमुहचिताक्षेपकारीति, ‘कहकहभूते' इति कहकहेत्यनुकरणं, कहकहेति भूतं-प्राप्त कहकहभूतं, किमुक्तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184