Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 50
________________ मूलं-१५ २३५ लस्य मथितस्य यः फेनपुओ-डण्डीरोत्करः तत्सन्निकाशं-तत्समप्रमं, पुनः कथम्भूतमित्याह'सव्वरयणामयं समना रत्नमयं अच्छं सण्हं पासाइयमि'त्यादिविशेषणजालं प्राग्वत् । 'तस्स णमित्यादि, तस्य सिंहासनस्योपरि तस्य विजयदूष्यस्य बहुमध्यदेशभागेऽत्र महान्तमेकं वज्रमयं-वज्ररत्नमयमङ्कुशम्-अङ्कशाकारमुक्तादामावलम्बनांश्रयं विकुर्वन्ति, तस्मिंश्च वज्रमयेऽङ्कुशे महदेकं कुम्भाग्रं-मगधदेशप्रसिद्धं कुम्भपरिमाणं मुक्तादाम विकुर्वन्ति से णमि'त्यादि, तत्कुम्भाग्रं मुक्तादाम अन्यैश्चतुर्भिः कुम्भाप्रैः-कुम्भपरिमाणेमुक्तादामभिस्तदोच्चत्वप्रमाणमात्रैः ‘सर्वतः' सर्वासुदिक्षुसमन्ततः-सामस्त्येन सम्परिक्षिप्तं व्याप्त । 'तेणंदामा' इत्यादि, तानिपञ्चापिदामानि "तवणिज्जलंबूसगा तपनीयमया लम्बूसगा-आभरणविशेषरूपा (पाः सुवर्णप्रतरकाःसुवर्णपत्राणि तैः मण्डितं-शोभितं अग्रं-अग्रभागो येषां तानि तथा अ) ग्रभागे येषां प्लम्बमानानां तानि तथा, 'नानामणिरत्नैः' नानामणिरत्नमयैर्विविधैःविचित्रैहरिरद्धहारैश्चोपशोभितःसामस्त्येनोपशोभितः समुदायो येषां तानि तथा। तथाईषत्-मानाक्अन्योऽन्यं-परस्परंअसंप्राप्तानि-असंलग्नानि पूर्वापरदक्षिणोत्तरागतैः (वातैः) मन्दाय मन्दाय इति-मनंद मन्दं “एजमानानि' कम्पमानानि 'भृशार्भीण्याविच्छेदे द्विः प्राक्तमवादे' रित्यविच्छेदे द्विर्वचनं यथा पचन्ति पचन्तीत्यत्र, एवमुत्तस्त्रापि, ईषत्कम्पनवशादेव प्रकर्षत इतस्ततो मनाक् चलनेन लम्बमानानि २ ततः परस्परं सम्पर्कवशतः ‘पेजंजमाणा पेजंजमाणा' इति शब्दायमानानि र उदारेण स्फारेण शब्देनेतियोगः, सच स्फारशब्दो मनःप्रतिकूलोऽपि भवति तत आह-'मनोज्ञेन' मनोऽनुकूलेन, तच्च मनोऽनुकूलत्वं लेशतो स्यादत आह–'मनोहरेण' मनांसि श्रोतृणां हरति-एकान्तेनात्मवशंनयतीति मनोहरो 'लिहादेराकृतिगणत्वादच् प्रत्ययः', तेन, तदपि मनोहरत्वं कुत इत्याह-- _ 'कर्णमनोनिवृतिकरेम' 'निमित्तकारणहेतुषुसर्वासां विभक्तीनांप्रायोदर्शन मितिवचनात् हेतौ तृतीया, ततोऽयमर्थः-प्रतिश्रोतृकर्णयोर्मनसश्च निवृतिकरः-सुखोत्पादकस्ततोमनोहरस्तेनेत्थम्भूतेन शब्देनतान्प्रत्यसन्नान् प्रदेशान् सर्वतो-दिक्षुसमन्ततो-विदिक्षुआपूरयन्ति २,शत्रन्तस्य स्यादाविदं रूपं, अत एव श्रिया-शोभया अतीवोपशोभमानानि २ तिष्ठन्ति । 'तए णमि'त्यादि, ततः स आभियोगिको देवस्तस्य सिंहासनस्यापरोत्तरेण, वायव्ये कोणे इत्यर्थ, उत्तरेण-उत्तरस्यां 'उत्तरपुरच्छिमेण ईशान्यां अत्र' एतासुतिसृषुदिक्षु सूर्याभस्य देवस्य चतुर्णा सामानिकसहस्राणां योग्यानिचत्वारिभद्रासनसहस्राणि विकुति, पूर्वस्यांचतसृणामग्रमहिषीणांसपरिवाराणां चत्वारि भद्रासनसहस्राणि दक्षिणपूर्वस्यामभ्यन्तरपर्षदोऽष्टानांदेवसहस्राणायोग्यानिअष्टौ भद्रासनसहस्राणि दक्षिणस्यां मध्यमपर्षदो दशानां देवसहस्राणां योग्यानि दश भद्रासनसहमणि, दक्षिणापरस्यां नैऋतकोण इत्यर्थः बाह्यपर्षदो द्वादशानां देवसहसाणां द्वादश भद्रासनसहस्राणि पश्चिमायां सप्तानामनीकाधिपतीनां सप्त भद्रासनानि विकुर्वति । तदनन्तरंतस्यसिंहासनस्य चतसृषुदिक्षुअत्रसामानिकादिदेवभद्रासनानांपृष्ठतः सूर्याभस्य देवस्यसम्बन्धिनां षोडशानामात्मरक्षकदेवसहस्राणायोग्यानिषोडशभद्रासनसहस्राणिविकुति, तद्यथा-चत्वारि भद्रासनसहस्राणि पूर्वस्यां चत्वारि दक्षिणतश्चत्वारिपश्चिमायांचत्वारि उत्तरतः सर्वसङख्यया सप्ताधिकानि चतुःपञ्चाशत्सहस्राणि ५४००७ भद्रासनांनां विकुर्वति । For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184