________________
मूलं-१५
२३५ लस्य मथितस्य यः फेनपुओ-डण्डीरोत्करः तत्सन्निकाशं-तत्समप्रमं, पुनः कथम्भूतमित्याह'सव्वरयणामयं समना रत्नमयं अच्छं सण्हं पासाइयमि'त्यादिविशेषणजालं प्राग्वत् ।
'तस्स णमित्यादि, तस्य सिंहासनस्योपरि तस्य विजयदूष्यस्य बहुमध्यदेशभागेऽत्र महान्तमेकं वज्रमयं-वज्ररत्नमयमङ्कुशम्-अङ्कशाकारमुक्तादामावलम्बनांश्रयं विकुर्वन्ति, तस्मिंश्च वज्रमयेऽङ्कुशे महदेकं कुम्भाग्रं-मगधदेशप्रसिद्धं कुम्भपरिमाणं मुक्तादाम विकुर्वन्ति
से णमि'त्यादि, तत्कुम्भाग्रं मुक्तादाम अन्यैश्चतुर्भिः कुम्भाप्रैः-कुम्भपरिमाणेमुक्तादामभिस्तदोच्चत्वप्रमाणमात्रैः ‘सर्वतः' सर्वासुदिक्षुसमन्ततः-सामस्त्येन सम्परिक्षिप्तं व्याप्त । 'तेणंदामा' इत्यादि, तानिपञ्चापिदामानि "तवणिज्जलंबूसगा तपनीयमया लम्बूसगा-आभरणविशेषरूपा (पाः सुवर्णप्रतरकाःसुवर्णपत्राणि तैः मण्डितं-शोभितं अग्रं-अग्रभागो येषां तानि तथा अ) ग्रभागे येषां प्लम्बमानानां तानि तथा, 'नानामणिरत्नैः' नानामणिरत्नमयैर्विविधैःविचित्रैहरिरद्धहारैश्चोपशोभितःसामस्त्येनोपशोभितः समुदायो येषां तानि तथा।
तथाईषत्-मानाक्अन्योऽन्यं-परस्परंअसंप्राप्तानि-असंलग्नानि पूर्वापरदक्षिणोत्तरागतैः (वातैः) मन्दाय मन्दाय इति-मनंद मन्दं “एजमानानि' कम्पमानानि 'भृशार्भीण्याविच्छेदे द्विः प्राक्तमवादे' रित्यविच्छेदे द्विर्वचनं यथा पचन्ति पचन्तीत्यत्र, एवमुत्तस्त्रापि, ईषत्कम्पनवशादेव प्रकर्षत इतस्ततो मनाक् चलनेन लम्बमानानि २ ततः परस्परं सम्पर्कवशतः ‘पेजंजमाणा पेजंजमाणा' इति शब्दायमानानि र उदारेण स्फारेण शब्देनेतियोगः, सच स्फारशब्दो मनःप्रतिकूलोऽपि भवति तत आह-'मनोज्ञेन' मनोऽनुकूलेन, तच्च मनोऽनुकूलत्वं लेशतो स्यादत आह–'मनोहरेण' मनांसि श्रोतृणां हरति-एकान्तेनात्मवशंनयतीति मनोहरो 'लिहादेराकृतिगणत्वादच् प्रत्ययः', तेन, तदपि मनोहरत्वं कुत इत्याह-- _ 'कर्णमनोनिवृतिकरेम' 'निमित्तकारणहेतुषुसर्वासां विभक्तीनांप्रायोदर्शन मितिवचनात् हेतौ तृतीया, ततोऽयमर्थः-प्रतिश्रोतृकर्णयोर्मनसश्च निवृतिकरः-सुखोत्पादकस्ततोमनोहरस्तेनेत्थम्भूतेन शब्देनतान्प्रत्यसन्नान् प्रदेशान् सर्वतो-दिक्षुसमन्ततो-विदिक्षुआपूरयन्ति २,शत्रन्तस्य स्यादाविदं रूपं, अत एव श्रिया-शोभया अतीवोपशोभमानानि २ तिष्ठन्ति । 'तए णमि'त्यादि, ततः स आभियोगिको देवस्तस्य सिंहासनस्यापरोत्तरेण, वायव्ये कोणे इत्यर्थ, उत्तरेण-उत्तरस्यां 'उत्तरपुरच्छिमेण ईशान्यां अत्र' एतासुतिसृषुदिक्षु सूर्याभस्य देवस्य चतुर्णा सामानिकसहस्राणां योग्यानिचत्वारिभद्रासनसहस्राणि विकुति, पूर्वस्यांचतसृणामग्रमहिषीणांसपरिवाराणां चत्वारि भद्रासनसहस्राणि दक्षिणपूर्वस्यामभ्यन्तरपर्षदोऽष्टानांदेवसहस्राणायोग्यानिअष्टौ भद्रासनसहस्राणि दक्षिणस्यां मध्यमपर्षदो दशानां देवसहस्राणां योग्यानि दश भद्रासनसहमणि, दक्षिणापरस्यां नैऋतकोण इत्यर्थः बाह्यपर्षदो द्वादशानां देवसहसाणां द्वादश भद्रासनसहस्राणि पश्चिमायां सप्तानामनीकाधिपतीनां सप्त भद्रासनानि विकुर्वति ।
तदनन्तरंतस्यसिंहासनस्य चतसृषुदिक्षुअत्रसामानिकादिदेवभद्रासनानांपृष्ठतः सूर्याभस्य देवस्यसम्बन्धिनां षोडशानामात्मरक्षकदेवसहस्राणायोग्यानिषोडशभद्रासनसहस्राणिविकुति, तद्यथा-चत्वारि भद्रासनसहस्राणि पूर्वस्यां चत्वारि दक्षिणतश्चत्वारिपश्चिमायांचत्वारि उत्तरतः सर्वसङख्यया सप्ताधिकानि चतुःपञ्चाशत्सहस्राणि ५४००७ भद्रासनांनां विकुर्वति ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org