Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 60
________________ मूलं- २३ २४५ वृ. 'तए णमित्यादि, ततः श्रमणो भगवान् महावीरः सूर्याभेण देवेन एवमुक्तः सन् सूर्याभस्य देवस्यैनम् - अनन्तरोदितमर्थं नाद्रियते न तदर्थकरणायादरपरो भवति, नापि परिजानाति - अनुमन्यते, स्वते वीतरागत्वात् गौतमादीनां च नाट्यविधेः स्वाध्यायादिविघातकारित्वात्, केवलं तूष्णीकोऽवतिष्ठते, एवं द्वितीयमपि वारं, तृतीयमपि वारमुक्तः सन् भगवानेवमवतिष्ठति 'तए णमित्यादि, ततः पारिणामिक्या बुद्धया तत्त्वमवगम्य मौनमेव भगवत उचितं न पुनः किमपि वक्तुं, केवलं मया भक्तिरात्मीयोपदर्शनीयेति प्रमोदातिशयतो जातपुलकः सन् सूर्याभो देवः श्रमण भगवन्तं महावीरं वन्दते - स्तौति नमस्यति - कायेन वन्दित्वा नमस्थित्वा च 'उत्तरपुरच्छिमं दिसीभागमि'त्यादि सुगमं, नवरं बहुसमभूमिवर्णनप्रेक्षागृहमण्डपवर्णनमणिपीठिकासिंहासनतदुपर्युल्लोचाङ्कुशमुक्तादामवर्णनानि च प्राग्वद् भावनीयानि । 'तए णमित्यादि, ततः सूर्याभो देवस्तीर्थङ्करस्य भगवतः आलोके प्रणामं करोति, कृत्वा चानुजानुत भगवान् मामित्यनुज्ञापनां कृत्वा सिंहासनवरगतः सन् तीर्थकराभिमुखः सन्निषण्णः 'त णमि' त्यादि, ततः सूर्याभो देवः 'तत्प्रथमतया' तस्य - नाट्यविधेः प्रथमतायां दक्षिणं भुजं प्रसारयति, कथम्भूतमित्याह - 'नानामणिकणगरयणविमलमहारिहनिपुणोवचियमिसिमिसंतविरइयमहाभरणकडगतुडियवरभूसणुज्जलं' इति नानाविधानि मणिकनकरत्नानि येषु तानि नानामणिकनकरत्नानि, मणयो नानाविधाश्चन्द्रकान्तादयः कनकानि नानाविधानि नानवर्णतया रत्नानि नानाविधानि कर्केतनादीनि, तथा विमलानि - निर्मलानि तथा महान्तमुपभोक्तारमर्हन्ति यदिवा महम्-उत्सवं क्षणमर्हन्तीति महार्हाणि तथा निपुणं निपुणबुद्धिगम्यं यथा भवति एवं 'ओविया' इति परिकर्मितानि 'मिसिमिसंत्ति' दीप्यमानानि विरचितानि महाभरणानि यानि कटकानि कलाचिकाभरणानि तुटितानि - बाहुरक्षका अन्नयानि च यानि वरभूषणानि तैरुज्ज्वलं - भास्वरं तथा पीवरं - स्थूलं प्रलम्ब - दीर्घं । 'तए णमि' त्यादि, ततः तस्माद् दक्षिणभुजात् अष्टशतम् - अष्टाधिकं शतं देवकुमाराणां निर्गच्छति, कथम्भूतानामित्याह - सध्शानां, समानाकाराणामित्यर्थः, तत्राकारेण कस्यचित् सशोऽपि वर्णतः सध्शो न भवति ततः सध्गवर्णत्वकप्रतिपादनार्थमाह- 'सरित्तयाण' मिति, सध्शी -‍ - सहग् वर्णत्वक् येषां ते तथा, सध्कत्वगपि कश्चित् वयसा विसदृशः सम्भाव्येत तत आह- 'सरिव्वयाणं' सध्क् समानं वयो येषां ते तथा तेषां 'सरिसलावण्णरूवोव्वणगुणोववेयाण’मिति सध्शेन लावण्येन- लवणिम्ना अतिसुभगया शररिकान्त्येति भावः, रूपेण-आकृत्या यौवनेन - यौवनिकया गुणैः - दक्षत्वप्रियंवदत्वादिभिरुपपेताः सध्शलावण्यरूपयौवनगुणोपपेतास्तेषां, 'एगाभरणवसनगहियनिज्जोगाणमि' ति एकः -- समानः आभरणवसनादि - आभरणवसनलक्षणो गृहीतो निर्योगः - उपकरणमर्थान्नाट्योपकरणं यैस्ते तथा तेषां । 'दुहओ संवेल्लियग्गनियत्थाणं' ति द्विघातो- द्वयोः पार्श्वयोः संवेल्लितानि संवृत्तानि अग्राणि यस्य तद् द्विघातः संवेल्लितानं न्यस्तं सामथ्यार्दुत्तरीयं यैस्ते तथा तेषां तथा उष्पीलियचित्तपट्टपरियरस फेणगावत्तरइयसंगयपलंबवत्यंतचित्तचिल्ललगनियंसणाण' मिति, उत्पीडितः - अत्यन्ताबद्धश्चित्रपट्टो - विचित्रवर्णपट्टरूपः परिकरो यैस्ते तथा यस्मिन्नावर्त्तने फेनविनिर्गमो भवति स सफेनकावर्त्त उच्यते ततः सफेनकावर्तेन रचिता सङ्गता - नाट्यविधावुपपन्नाः प्रलम्बा वस्नन् यस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184