________________
मूलं- २३
२४५
वृ. 'तए णमित्यादि, ततः श्रमणो भगवान् महावीरः सूर्याभेण देवेन एवमुक्तः सन् सूर्याभस्य देवस्यैनम् - अनन्तरोदितमर्थं नाद्रियते न तदर्थकरणायादरपरो भवति, नापि परिजानाति - अनुमन्यते, स्वते वीतरागत्वात् गौतमादीनां च नाट्यविधेः स्वाध्यायादिविघातकारित्वात्, केवलं तूष्णीकोऽवतिष्ठते, एवं द्वितीयमपि वारं, तृतीयमपि वारमुक्तः सन् भगवानेवमवतिष्ठति 'तए णमित्यादि, ततः पारिणामिक्या बुद्धया तत्त्वमवगम्य मौनमेव भगवत उचितं न पुनः किमपि वक्तुं, केवलं मया भक्तिरात्मीयोपदर्शनीयेति प्रमोदातिशयतो जातपुलकः सन् सूर्याभो देवः श्रमण भगवन्तं महावीरं वन्दते - स्तौति नमस्यति - कायेन वन्दित्वा नमस्थित्वा च 'उत्तरपुरच्छिमं दिसीभागमि'त्यादि सुगमं, नवरं बहुसमभूमिवर्णनप्रेक्षागृहमण्डपवर्णनमणिपीठिकासिंहासनतदुपर्युल्लोचाङ्कुशमुक्तादामवर्णनानि च प्राग्वद् भावनीयानि ।
'तए णमित्यादि, ततः सूर्याभो देवस्तीर्थङ्करस्य भगवतः आलोके प्रणामं करोति, कृत्वा चानुजानुत भगवान् मामित्यनुज्ञापनां कृत्वा सिंहासनवरगतः सन् तीर्थकराभिमुखः सन्निषण्णः 'त णमि' त्यादि, ततः सूर्याभो देवः 'तत्प्रथमतया' तस्य - नाट्यविधेः प्रथमतायां दक्षिणं भुजं प्रसारयति, कथम्भूतमित्याह - 'नानामणिकणगरयणविमलमहारिहनिपुणोवचियमिसिमिसंतविरइयमहाभरणकडगतुडियवरभूसणुज्जलं' इति नानाविधानि मणिकनकरत्नानि येषु तानि नानामणिकनकरत्नानि, मणयो नानाविधाश्चन्द्रकान्तादयः कनकानि नानाविधानि नानवर्णतया रत्नानि नानाविधानि कर्केतनादीनि, तथा विमलानि - निर्मलानि तथा महान्तमुपभोक्तारमर्हन्ति यदिवा महम्-उत्सवं क्षणमर्हन्तीति महार्हाणि तथा निपुणं निपुणबुद्धिगम्यं यथा भवति एवं 'ओविया' इति परिकर्मितानि 'मिसिमिसंत्ति' दीप्यमानानि विरचितानि महाभरणानि यानि कटकानि कलाचिकाभरणानि तुटितानि - बाहुरक्षका अन्नयानि च यानि वरभूषणानि तैरुज्ज्वलं - भास्वरं तथा पीवरं - स्थूलं प्रलम्ब - दीर्घं ।
'तए णमि' त्यादि, ततः तस्माद् दक्षिणभुजात् अष्टशतम् - अष्टाधिकं शतं देवकुमाराणां निर्गच्छति, कथम्भूतानामित्याह - सध्शानां, समानाकाराणामित्यर्थः, तत्राकारेण कस्यचित् सशोऽपि वर्णतः सध्शो न भवति ततः सध्गवर्णत्वकप्रतिपादनार्थमाह- 'सरित्तयाण' मिति, सध्शी - - सहग् वर्णत्वक् येषां ते तथा, सध्कत्वगपि कश्चित् वयसा विसदृशः सम्भाव्येत तत आह- 'सरिव्वयाणं' सध्क् समानं वयो येषां ते तथा तेषां 'सरिसलावण्णरूवोव्वणगुणोववेयाण’मिति सध्शेन लावण्येन- लवणिम्ना अतिसुभगया शररिकान्त्येति भावः, रूपेण-आकृत्या यौवनेन - यौवनिकया गुणैः - दक्षत्वप्रियंवदत्वादिभिरुपपेताः सध्शलावण्यरूपयौवनगुणोपपेतास्तेषां, 'एगाभरणवसनगहियनिज्जोगाणमि' ति एकः -- समानः आभरणवसनादि - आभरणवसनलक्षणो गृहीतो निर्योगः - उपकरणमर्थान्नाट्योपकरणं यैस्ते तथा तेषां ।
'दुहओ संवेल्लियग्गनियत्थाणं' ति द्विघातो- द्वयोः पार्श्वयोः संवेल्लितानि संवृत्तानि अग्राणि यस्य तद् द्विघातः संवेल्लितानं न्यस्तं सामथ्यार्दुत्तरीयं यैस्ते तथा तेषां तथा उष्पीलियचित्तपट्टपरियरस फेणगावत्तरइयसंगयपलंबवत्यंतचित्तचिल्ललगनियंसणाण' मिति, उत्पीडितः - अत्यन्ताबद्धश्चित्रपट्टो - विचित्रवर्णपट्टरूपः परिकरो यैस्ते तथा यस्मिन्नावर्त्तने फेनविनिर्गमो भवति स सफेनकावर्त्त उच्यते ततः सफेनकावर्तेन रचिता सङ्गता - नाट्यविधावुपपन्नाः प्रलम्बा वस्नन् यस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org