Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 14
________________ मूलं-३ १९९ निचं जमलिया निच्चं जुयलिया निचं नमिया निचं पणमिया निच्चं कुसुमियमउलियलवइयथवइयगुलइयगुच्छियजमलियजुयलियविणमियपणमियसुविभत्तपिडिमंजरिवडिंसयधरा सुकबरहिणमणसक्कलागाकोइलकोरुगकभिंगारक कोंडलकजीवंजीवकनंदीमुखकविलपिंगलखगकारंडवचक्कवाककलहंससारसणेगसउणगणमिहुणविरइयसद्दोनइयमहुरसरणाइयासुरम्मा सुपिडियदरियभमरमहुयरिपहकरपरिल्लवमत्तछप्पयकुसुमासवलोलमहुरगुमगुमंतगुंजुतदेसभागा अभिरपुष्फफला बाहिरपत्तोच्छण्णा पत्तेहि य पुण्फेहि यउच्छननपलिच्छिन्ना निरोगकासाउफला अकंटका नानाविहगुच्छगुम्पमंडवगसोहियाविचित्तसुहुकेउपभूया वाविपुखरिणिदीहयासु य सुनिवेसियरम्मजालधरगा पिडिमनीहारिमसुगंधिसुहसुभिमणहरं च महया गंधद्धाणु मुंचंता सुहसेउकेतुबहुला अनेगसगडजाणजुग्गगिल्लिथिल्लिसीयसंदमानिपडिमोयगापासाइया दरिसणिज्जा अभिरूवा पडिरूवा' इति परिग्रहः । अस्य व्याख्या-इह मूलानि सुप्रतीतानि यानि कन्दस्याध प्रसरन्ति, कन्दास्तेषां मूलानामुपरिवर्तिनस्तेअपिप्रतीताः, खन्धः-थुडं त्वक् छल्ली शालाः-शाखाः प्रवालः-पल्लवाङ्कुरः पत्रपुष्पफलबीजानिसुप्रसिद्धानि, सर्वत्रातिशयेन कचिद् भूम्निवामतुष्प्रत्ययः, अनुपुब्बसुजायरुचिलवट्टभावपरिणया इतिआनुपूर्व्या-मूलादिपरिपाट्या सुष्टुजाता आनुपूर्वीसुजातारुचिराःस्निग्धतया देदीप्यमानच्छविमन्तः, तथा वृत्तभावेन परिणता वृत्तभावपरिणताः, किमुक्तं भवति एवं नाम सर्वासु दिक्षु विदिक्षु च शाखाभि प्रशाखाभिश्च प्रसृता यथा वर्तुलाः संजाता इति, आनुपूर्वसुजाताश्चते रुचिराश्चआनुपूर्वीसुजातरुचिरास्तेचतेवृत्तभावपरिणताश्चआनुपूर्वीसुजातरुचिरवृत्तभावपरिणताः ते तथा, तिलकादयः पादपाः प्रत्येकमेकस्कन्धाः, प्राकृते चास्य सत्वमिति एगखंधा' इति सूत्रपाठः, तथा अनेकाभि शाकाभि प्रशाखाभिश्च मध्यभागेविटपोविस्तारोशेषांतेतथा, तिर्यग्बाहुद्वयंप्रसारणप्रमाणोव्यामः,व्यामीयन्ते-परिच्छिद्यन्ते रज्ज्वाधनेनेति व्यामः, बहुलवचनात् 'करणेकचिदितिडप्रत्ययः, अनेकैनरव्यामः-पुरुषव्यामैः सुप्रसारितैरग्राह्यः अप्रमेयोघनो-निबिडोविपुला-विस्तीर्णो वृक्षः-स्कन्धोयेषांतेअनेकनरव्याम-सुप्रसारिताग्राह्यधनविपुलवृत्तस्कन्धाः, तथा अच्छिद्राणि पत्राणि येषां ते अच्छिद्रपत्राः, किमुक्तं भवति ?-न तेषां पत्रेषु वातदोषतः कालदोषतो वा गड्डरिकादिरितरुपजातो येन तेषु पत्रेषु छिद्राण्यभविष्यनित्यच्छिद्रपत्राः अथमा एवं नामान्योऽन्यं शाखाप्रशाकानुप्रवेशात्पत्राणिपत्राणामुपरिजातानि येन मनागप्यपान्तरालरूपं छिद्रं नोपलक्ष्यते इति। तथा चाह-'अविरलपत्ता' इति, अत्र हेतौ प्रथमा, ततोऽयमर्थः-यतः अविरलपत्रा अतोऽच्छिद्रपत्राः, अविरलपत्राइति कुतइत्याह-अवातीनपत्रावातीनानि वातोपहतानि, वातेन पातिनानीत्यर्थः, न वातीनानि अवातीनानि पत्राणि येषां ते तथा, किमुक्तं भवति? न प्रवलेन खरपरुषेण वातेन तेषांपत्राणिभूमौ निपात्यन्ते, ततोऽवातीनपत्रत्वादविरलपत्राइति अच्छिद्रपत्रा इति, अच्छिद्रपत्रा इत्यप्रथमव्याख्यानपक्षमधिकृत्य हेतुमाह-'अणईइपत्ता' न विद्यते ईतिगड्डरिकादिरूपा येषां तान्यतीतिनि अतीतीनि पत्राणि येषां ते अतीतपत्राः, अतीतिपत्रत्वाचाच्छिद्रपत्राः, निद्धयजरढपंडुपत्ता' इति निर्दूतानि अपनीतानिजरठानिपाण्डुपत्राणियेभ्यस्ते नि तजरठपाण्डुपत्राः, किमुक्तं भवति? Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 184