Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 13
________________ १९८ राजप्रश्नीयउपाङ्गसूत्रम्- ३ यस्य स धनमसृणस्निग्धानुपूर्वीसुजातनिरुपहतोद्विद्धप्रवरस्कन्धः, तथा अनेकस्य नरस्य - मनुषस्य ये प्रवराः - प्रलम्बा भुजाः- बाहवस्तैरग्राह्यः अपरिसेयोऽनेकनरप्रवरभुजाग्राह्यः, अनेकपुरुषव्यामैरप्यप्रतिमेयस्थौल्य इत्यर्थः । तथा कुसुमभरेण - पुष्पसम्भारेण सम् ईषदवनन्त्यः पत्रसमृद्धाः 'पत्तसमिद्धति खंधपित्तलमि' ति वचनात् विशाला - विस्तीर्णा शाला:- शाखा यस्य स कुसुमभरसमवनमत्पत्रलविशालशालः, तथा मधुकरणीं भ्रमराणां च ये गणा 'गुमगुमायिता' गुमगुमायन्तिसम्, कर्म्मकर्तुत्वात्कर्त्तरि क्तप्रत्ययो, गुमगुमेति शब्दं कृतवन्तः सन्त इत्यर्थो, निलीयमानाः - आश्रयन्त उड्डीयमानंतत्प्रत्यासन्नामाकाशे परिभ्रमन्तस्तैः सश्रीको मधुकरीभ्रमरगणगुमगुमयितनिलीयमानोऽयमानसश्रीकः, तथा नानाजीतायनां शकुनगणानां यानि मिथुनानि - स्त्रीपुंसयुग्मानि तेषां प्रमोदवशतो यानि परस्परसुमधुराण्यत एव कर्णसुखानि - कर्णसुखदायकानि प्रलप्तानि - भाषणानि, शकुनगणानां हि स्वेच्छया क्रडतां प्रमोदभरवशतो यानि भाषणानि तानि प्रलप्तानीति प्रसिद्धानि ततः 'पलत्ते' त्युक्तं ।, तेषां यः शब्दो - ध्वनिस्तेन मधुरो नानाशकुनगणमिथुनसुमधुरकर्णसुखप्रलप्तशब्दमधुरः, तथा कुशा - दर्भादयो विकुशा- वल्वजादयाः तैर्विशुद्धं - रहितं वृक्षस्य - सकलस्याशोकपादपस्य, इह मूलं शाखादीनामपि आदिमो भागो लक्षणया प्रोच्यते, यथा शाखामुलमिदं प्रशाखामुलमिदमित्यादि, ततः सकला शोकपादपसत्कमूलप्रतिपत्तये वृक्षग्रहणं, मूलं यस्य स कुशविकुशविशुद्धवृक्षत्रमूलो, यश्चैवंविधः स द्रष्टृणां चित्तसन्योपाय भवति, तत आह प्रासादीयः- प्रसादायचित्तसन्तोषाय हितस्तदुत्पादकत्वात् प्रासादीय अत एव दर्शनीयो- द्रष्टुं योग्यः, कम्मादिन्याह'अभिरूपो 'द्रष्टारं २ प्रत्यभिमुखं न कम्यचिद्विरागहेतू रूपम् - आकारो यस्यासावभिरूपः, एवंरूपोऽपि कुतः । इत्याह--प्रतिरूपः - प्रतिविशिष्टं सकलजगदसाधारणं रूपं यस्य स प्रतिरूपः । 'सेणं असोगवरपायवे' इत्यादि 'जाव नंदिरुक्खेहिं' इत्यत्र यावच्छब्दकरणात्, 'लउएहिं छत्तोवगेहिं सिरीसेहिं सत्तवण्णेह लोद्धेहिं दधिवत्रेहिं चंदणेहिं अज्झुनेहिं नीवेहिं कयंबेहिं फणसेहिं दाडिमेहिं सालेहिं तमालेहिं पियालेहिं पियंगूहिं रायरुक्खेहिं नंदीरुक्खेहिं' इति परिग्रहः, एते च लवकच्छत्रो पगशिरीषसप्तपर्णदधिपर्णलुब्धकधवचन्दनार्जुननीपकदम्बफनसदाडिमतालतमालप्रियालप्रियङ्गुलरजवृक्षनन्दिवृक्षाः प्रायः सुप्रसिद्धाः, 'ते णं तिलगा जाव नंदिरूक्खा कुसुविकुसे' त्यादि ते तिलका यावन्नंदिवृक्षाः कुशविकुसविशुद्धवृक्षमूलाः, अत्र व्याख्या पूर्ववत्, 'मूलवन्तः' मूलानि प्रभूतानि दूरावगाढानि च सन्त्येषमिति मूलवन्तः, कन्त एषामस्तीति कन्दवतन्तः, यावच्छब्दकरणात् सन्धिमन्तो तयामन्तो सालमन्तो पवालमन्तो पत्तमंतो पुष्फमंतो फलमंतो वीयमंतो अनुपुव्विसुजायरुइलवट्टभावपरिणया एगखंधा अनेगसाहप्पसाहविडिमा अनेगनरवामसुप्पसारिय अगिज्झधणविपुलवट्टखंधा अच्छिद्दपत्ता अविरलपत्ता अवाईइपत्ता अनईणपत्ता निव्युयजरढपंडुपत्ता नवहरियभिसंतपत्तभारंधयारगंभीरदरिसणिज्जा उवनिग्गयनवतरुणपत्तपल्लवा कोमलउज्जलचलंतकिसलयसुकुमालपवालसोभियवरंकुरग्गसिहरा । निच्चं कुसुमिया निच्चं मउलिया निच्चं लवइया निच्चं थवइया निच्चं गुलइया निच्चं गोच्छिया For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 184