Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 11
________________ १९६ राजप्रश्नीयउपाङ्गसूत्रम्- १ } ततः पूर्वपदे नकर्मधारयः, 'सिंघाडगतियचउक्कचरचरपणियापणविविहवसुपरिमंडिया' शृङ्गाटकत्रिकचतुष्कचत्वरैः पणितानि -क्रयाणकानि तत्प्रधानेषु आपणेषु यानि विवधानि वसनि-द्रवाणि तैश्च परिमण्डिता, शृङ्गाटकं-त्रिकोणं स्थानं, त्रिकं यत्र रथ्यात्रयं मिलति, चतुष्कं - रथ्याचतुष्कमीलनात्मकं चत्वरं - बहुरध्यापातस्थानं, 'सुरम्मा' सुरम्या - अतिरम्या, ‘नरवइपविइन्नमहवइपहा' नरपतिना - राज्ञा प्रविकीर्णोगमनागमनाभ्यां व्याप्तो महीपतिपथो - राजमार्गो यस्यां सा तथा 'अनेगवरतुरगमत्तकुंजररहपहकरसीयसंदमाणी आइण्णजाणजोगा' अनेकैर्वतरतुरगाणां मत्तकुञ्जराणां रथानां च पहकरैः सङ्घातैः तथा शिबिकाभिः स्यदमानीभियनैर्युग्यैश्चाकीर्णा - व्याप्ता या सा तथा, आकीर्णशब्दस्य मध्यनिपातः प्राकृतत्वात्, तत्र शिबिका : - कूटाकारेणाच्छादिता जम्पानविशेषाः स्यन्दमानिकाः पुरुषप्रमाणा जम्पानविशेषा यानानि शकटादीनि युग्यानि - गोल्लविषयप्रसिद्धानि द्विहस्तप्रमाणानि वेदिकोपशोभितानि जम्पानान्येव, 'विमउलनवनलिणसोमियजला' विमुकुलैः - विकसितैर्नवैर्नलिनैः - समलैः शोभितानि जलानि यस्यां सा तथा, 'पंडुरवरभवनपंतिपहिया उत्ताणयनयणपिच्छणिज्जा' इति सुगमं । 'पासाइया' इत्यादि, प्रासादेषु भवा प्रासादीया, प्रासादबहुला इत्यर्थ, अत एव दर्शनीया द्रष्टुं योग्या, प्रासादानामतिरमणीयत्वात्, तथा अभिद्रष्टन् प्रतिप्रत्येकमभिमुखतीव चेतोहारित्वात् रूपम् - आकारो यस्यां - सा अभिरूपा, एतदेव व्याचष्टे - प्रतिरूपा, प्रतिविशिष्टम् असाधारणण् रूपण - आकारो यस्यां सा प्रतिरूपा । पू. (२) तीसे णं आमलकप्पाए नयरीए बहिया उत्तरपुरत्थिमे दिसीभा अंबसालवने नामं चेइए होत्था, पोराणे जाव पडिरूवे । वृ. “ती सेण”मित्यादि, तस्यां णमिति पूर्ववत् आमलकल्पायां नगर्यां वहि उत्तरपौरस्त्येउत्तरूपर्वारूपे ईशाणकोणे इत्यर्थः, दिग्भागे 'अम्बसालवने' इति आम्रैः शालैश्चातिप्रचुरतयोपलक्षितं यद्वनं तदाम्रशालवनं तद्योगाच्चैत्यमपि आनशालवनं, चितेः लेप्यादिचयनस्य भावः कर्म्म वा चैत्यं तत्र इह संज्ञाशब्दत्वात् देवताप्रतिबिम्वे प्रसिद्धं ततस्तदाश्रयभूतं यद्देवनाया गृहं तदप्युपचारात् चैत्यं तच्चेह व्यन्तरायतनं द्रष्टव्यं न तु भगवतामर्हतामायतनं, 'होत्थ' त्ति अभवन् तच किंविशिष्टमित्याहचिरातीते पुराणे यावच्छब्दकरणात् 'सद्दिए कत्तिए नाए छत्ते सज्झए ' इत्याद्यौपपातिकग्रन्थप्रसिद्धवर्णकपरिग्रहः । एवंरूपं च चैत्यवर्णकमुकत्वा वनखण्डवक्तव्यता वक्तव्या, साचैवं- 'सेणं अंबसालवने चेइए एगेणं मइया वनसंडेणं सव्वओ समंता संपरिक्खित्ते, से णं नसंडे किण्हामासे इत्यादि यावत्पासाइए दरिसणिज्जे अभिरूवे पडिरूवे तत्र प्रसादीयं- कृष्णावभासत्वादिना गुणेन मनःप्रसादहेतुत्वाद्दर्शनीयं चक्षुरानन्दहेतुत्वात्, अभिरूपप्रतिरूपशब्दार्थ प्राग्वत्, तत उक्तं- 'जाव पडिरूवे' मू. (३) असोयवरपायवपुढविसिलावट्टयवत्तव्यया उववातियगमेणं नेया ॥ वृ. अशोकवरपादपस्य पृथिवीशिलापट्टकस्य च वक्तव्यता औपपातिकग्रन्थानुसारेण ज्ञेया, सा चैवं- 'तस्स णं वनसंडस्स बहुमज्झदेसभाए इत्थ णं महं एगे असोगवग्पायवे पन्नत्ते जाव पडिरूवे, सेणं असोगवरपायवे अन्नेहिं बहूहिं तिलएहिं जाव नंदिरुकखेहिं सव्वओ समंता संपरिकाखित्ते, ते णं तिलगा जाव नन्दीरुक्खा कुसविकुसविसुद्धरुक्खमूला मूलमंतो कंदमंतो Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 184