Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [ अवग्रहप्रकृते सू० ४०-४१ भवतः । यौ तु वितिरश्चीनौ कर्णपट्टिकाया अन्त्यौ विभागौ यश्च तयोर्मध्यवर्ती विभागः एते त्रयोऽप्यञ्जनलेपादिचिहोपलक्षिताः ‘गर्हिताः' अप्रशस्ताः। एतेषु चात्मविराधनासद्भावाच्चतुर्गुरुकमाज्ञा च भगवतां विराधिता भवति ॥ २८३० ॥ अयमेवार्थोऽन्याचार्यपरिपाट्याऽभिधीयते
नवभागकए वत्थे, चउसु वि कोणेसु होइ वत्थस्स।
लाभो विणासमन्ने, अंते मज्झे य जाणाहि ॥ २८३१ ॥ ___इह यतो वस्त्रमायतं ततः प्रथमतस्त्रयो भागाः कल्प्यन्ते, भूयोऽप्येकैको भागस्त्रिधा विभज्यते, एवं नवभागीकृते वस्त्रे ये चत्वारः कोणका अपिशब्दात् कोणकमध्यवर्तिनौ च द्वौ भागौ तेषु वस्त्रस्याञ्जनलेपादिसम्भवे लाभो भवति । ये पुनः 'अन्ये' अपरे वस्त्रमध्यवर्तिनस्त्रयो भागाः, तद्यथा-द्वावन्त्यविभागौ एकः सर्वमध्यवर्ती विभागः, तेषु 'विनाशं' ग्लानत्वा10 दिकं जानीहि ॥ २८३१ ॥ .. अथ यैश्चिकैस्तेषु विभागेषु लाभो विनाशो वाऽनुमीयते तान्येवाह
__अंजण-खंजण-कद्दमलित्ते, मूसगभक्खिय अग्गिविदड्ढे ।
तुन्निय कुट्टिय पज्जवलीढे, होइ विवाग सुहो असुहो वा ॥२८३२॥ अञ्जनं-सौवीराञ्जनादि खञ्जनं-दीपमलः कर्दमः-पङ्कस्तैर्लिप्ते-खरण्टिते, तथा मूषकैः उपल15 क्षणत्वात् कंसारिकादिभिश्च भक्षिते, अग्निना वा विशेषेण दग्धे, तथा तुन्नकारेण 'तुन्निते'
खकलाकौशलतः पूरितच्छिद्रे, 'कुट्टिते च' रजककुट्टनेन पतितच्छिद्रे, पर्यवैः-पुराणादिभिः पर्यायै-ढे-युक्ते, अतिजीर्णतया कुत्सितवर्णान्तरादिसंयुक्ते स्फटिते वा इत्यर्थः । एवंविधे वस्त्रे गृहीते सति शुभोऽशुभो वा विपाकः परिणामो भवति । तत्र ये शुभा विभागास्तेषु शुभो विपाको ये त्वशुभास्तेष्वशुभ इति ॥ २८३२ ॥ 20 अथ नवानामपि विभागानां खामिनः प्रतिपादयति
चउरो य दियिया भागा, दुवे भागा य माणुसा ।
आसुरा य दुवे भागा, मज्झे वत्थस्स रक्खसो ॥ २८३३॥ चत्वारः कोणकाः 'दैव्याः' देवसम्बन्धिनो भागाः । 'द्वौ' अञ्चलमध्यभागी 'मानुषौ' मनुष्यस्वामिकौ । 'द्वौ च भागौ' कर्णपट्टिकामध्यलक्षणौ 'आसुरौ' असुरसम्बन्धिनौ । सर्वमध्यगतः 25 पुनरेको भागः 'राक्षसः' राक्षसखामिक इति ॥ २८३३ ॥ अर्थतेषु विभागेषु शुभा-ऽशुभफलमाह
दिव्वेसु उत्तमो लाभो, माणुसेसु य मज्झिमो ।
आसुरेसु य गेलन्नं, मज्झे मरणमाइसे ॥ २८३४ ॥ दैव्येषु भागेषु यद्यञ्जनादिभिर्दूषितं वस्त्रं भवति तदा तस्मिन् गृहीते साधूनामुत्तमो वस्त्र-पात्रा30 दीनां लाभो भवेत् । मानुषभागयोरञ्जनाद्युपदूषिते च वस्त्रे मध्यमो लाभो भवति । आसुरभागयोरञ्जनादिदूषितयोर्लानत्वं भवति । राक्षसभागे पुनरञ्जनादियुक्ते यतीनां मरणमादिशेदिति ॥ २८३४ ॥ अथाखण्डस्यैव वस्त्रस्य लक्षणमाह-~ १ दो य भा॰ ता०॥
२ » एतन्मध्यगतः पाठः भा० त० डे. नास्ति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364