Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 301
________________ ८६२ सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [ अध्यप्रकृते सूत्रम् ४६ आगाढशब्दः प्रत्येकमभिसम्बध्यते-आगाढेऽशिवेऽवमौदर्ये राजद्विष्टे होधिक-स्तेनादिभये वा; यद्वा आगाढं नाम-शैक्ष-सागारिकादिकमन्यतरकारणम् , तथा ग्लान उत्तमार्थप्रतिपन्नो वा कचिद् देशान्तरे श्रुतोऽपान्तराले च तत्र च्छिन्नः पन्था अतस्तत्प्रतिचरणार्थ गन्तव्यम् , उत्तमार्थ वा प्रतिपित्सुः संविग्नगीतार्थसमीपे च्छिन्नेनापि पथा गच्छति । 'ज्ञानम्' आचारादि 5 'दर्शन' दर्शनविशुद्धिकारकाणि शास्त्राणि तदर्थमध्वानं गच्छेत् । चारित्रार्थ नाम-यत्र देशे स्त्रीदोषा एषणादोषा वा भवन्ति तं परित्यज्य देशान्तरं गन्तव्यम् ।। ३०६२ ॥ एएहि कारणेहिं, आगाटेहिं तु गम्ममाणेहिं । उवगरण पुव्यपडिलेहिएण सत्थेण गंतव्यं ॥ ३०६३ ॥ 'एतैः' अशिवादिभिः कारणैरागाढेरेव 'गम्यमानैः' प्राप्यमाणैरुपकरणमध्वप्रायोग्यं गृहीत्वा 10पूर्व-गमनात् प्राक् प्रत्युपेक्षितः-सम्यक् शुद्धाशुद्धतया निरूपितो यः सार्थस्तेन सह गन्तव्यम् ॥ ३०६३ ॥ अथेदमेव स्पष्टयति असिवे अगम्ममाणे, गुरुगा नियमा विराहणा दुविहा । तम्हा खलु गंतव्यं, विहिणा जो वनिओ हिट्ठा ॥३०६४ ॥ अशिवे समुत्पन्ने सति यदि न गम्यते ततश्चत्वारो गुरवः । तत्र च तिष्ठतां नियमाद 15 द्विविधा' संयमा-ऽऽत्मनोः अथवाऽऽत्मनः परस्य चेति विराधना । यत एवं तस्मात् 'खलु' निश्चितं विधिना गन्तव्यम् । कः पुनर्विधिः ? इत्याह-~-यः 'अधस्ताद' ओपनियुक्तो"संवच्छरबारसरण, होही असिवं ति ते तओ निति ।" (भा० गा० १५) इत्यादिगाथाभिवर्णितः । शेषाण्यप्यवमौदर्यादीनि पदानि यथैवौधनियुक्तौ तथैव वक्तव्यानीति ॥ ३०६४ ॥ उवगरण पुधभणियं, अप्पडिलेहिते चउगुरू आणा । ओमाण पंत सत्थिय, अतियत्तिय अप्पपत्थयणो ॥ ३०६५ ॥ उपकरणं 'पूर्वभणितं' रात्रिभक्तसूत्रोक्तं नन्दीभाजन-» चर्मकरकादिकं तदगृहानस्य चतुर्गुरुकाः । सार्थं वा यदि न प्रत्युपेक्षन्ते तदापि चतुर्गुरवः आज्ञादयश्च दोषाः । तथा सार्थः कदाचिदवमानेन स्वपक्ष-परपक्षकृतेनातीवोद्वेजितो भवेत् , यद्वा साथिकाः 'आतियात्रिका वा' सार्थचिन्तकाः प्रान्ता भवेयुः, 'अल्पपश्यदनो वा' स्वल्पशम्बलः स सार्थः ॥ ३०६५॥ 25 अत एतदोषपरिहारार्थ सार्थः प्रत्युपेक्षितव्यः । कथं पुनः ? इति अत्रोच्यते राग-दोस विमुको, सत्थं पडिलेहें सो उ पंचविहो । भंडी बहिलग भरवह, ओदरिया कप्पडिय सत्थो ॥ ३०६६ ॥ 'राग-द्वेषविमुक्तो नाम' यस्य गन्तव्ये न रागो न वा द्वेषः स सार्थ प्रत्युपेक्षते । स च सार्थः पञ्चविधः, तद्यथा-भण्डी-गन्त्री तदुपलक्षितः प्रथमः सार्थः। बहिलकाः--करभी-वेसर-बलीवर्द30प्रभृतयः तदुपलक्षितो द्वितीयः । भारवहाः-पोट्टलिकावाहकास्तेषां सार्थः तृतीयः । औद १ °वे आगाढेऽवमौदर्य आगाढे राजद्विष्टे आगाढे वोधिक-स्तेनादिभये वा छिन्नेनापि पथा गन्तव्यम् । यद्वा आगाढं नाम कां० ॥ २ ग्यं नन्दीभाजनादिकं प्रागुक्तनीत्या गृही कां ॥ ३॥ एतदन्तर्गतः पाठः भा० त० डे. नाति ॥ ४ सारक्षकाः कां० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364