________________
८६२
सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [ अध्यप्रकृते सूत्रम् ४६ आगाढशब्दः प्रत्येकमभिसम्बध्यते-आगाढेऽशिवेऽवमौदर्ये राजद्विष्टे होधिक-स्तेनादिभये वा; यद्वा आगाढं नाम-शैक्ष-सागारिकादिकमन्यतरकारणम् , तथा ग्लान उत्तमार्थप्रतिपन्नो वा कचिद् देशान्तरे श्रुतोऽपान्तराले च तत्र च्छिन्नः पन्था अतस्तत्प्रतिचरणार्थ गन्तव्यम् ,
उत्तमार्थ वा प्रतिपित्सुः संविग्नगीतार्थसमीपे च्छिन्नेनापि पथा गच्छति । 'ज्ञानम्' आचारादि 5 'दर्शन' दर्शनविशुद्धिकारकाणि शास्त्राणि तदर्थमध्वानं गच्छेत् । चारित्रार्थ नाम-यत्र देशे स्त्रीदोषा एषणादोषा वा भवन्ति तं परित्यज्य देशान्तरं गन्तव्यम् ।। ३०६२ ॥
एएहि कारणेहिं, आगाटेहिं तु गम्ममाणेहिं ।
उवगरण पुव्यपडिलेहिएण सत्थेण गंतव्यं ॥ ३०६३ ॥ 'एतैः' अशिवादिभिः कारणैरागाढेरेव 'गम्यमानैः' प्राप्यमाणैरुपकरणमध्वप्रायोग्यं गृहीत्वा 10पूर्व-गमनात् प्राक् प्रत्युपेक्षितः-सम्यक् शुद्धाशुद्धतया निरूपितो यः सार्थस्तेन सह गन्तव्यम् ॥ ३०६३ ॥ अथेदमेव स्पष्टयति
असिवे अगम्ममाणे, गुरुगा नियमा विराहणा दुविहा ।
तम्हा खलु गंतव्यं, विहिणा जो वनिओ हिट्ठा ॥३०६४ ॥ अशिवे समुत्पन्ने सति यदि न गम्यते ततश्चत्वारो गुरवः । तत्र च तिष्ठतां नियमाद 15 द्विविधा' संयमा-ऽऽत्मनोः अथवाऽऽत्मनः परस्य चेति विराधना । यत एवं तस्मात् 'खलु' निश्चितं विधिना गन्तव्यम् । कः पुनर्विधिः ? इत्याह-~-यः 'अधस्ताद' ओपनियुक्तो"संवच्छरबारसरण, होही असिवं ति ते तओ निति ।" (भा० गा० १५) इत्यादिगाथाभिवर्णितः । शेषाण्यप्यवमौदर्यादीनि पदानि यथैवौधनियुक्तौ तथैव वक्तव्यानीति ॥ ३०६४ ॥
उवगरण पुधभणियं, अप्पडिलेहिते चउगुरू आणा ।
ओमाण पंत सत्थिय, अतियत्तिय अप्पपत्थयणो ॥ ३०६५ ॥ उपकरणं 'पूर्वभणितं' रात्रिभक्तसूत्रोक्तं नन्दीभाजन-» चर्मकरकादिकं तदगृहानस्य चतुर्गुरुकाः । सार्थं वा यदि न प्रत्युपेक्षन्ते तदापि चतुर्गुरवः आज्ञादयश्च दोषाः । तथा सार्थः कदाचिदवमानेन स्वपक्ष-परपक्षकृतेनातीवोद्वेजितो भवेत् , यद्वा साथिकाः 'आतियात्रिका
वा' सार्थचिन्तकाः प्रान्ता भवेयुः, 'अल्पपश्यदनो वा' स्वल्पशम्बलः स सार्थः ॥ ३०६५॥ 25 अत एतदोषपरिहारार्थ सार्थः प्रत्युपेक्षितव्यः । कथं पुनः ? इति अत्रोच्यते
राग-दोस विमुको, सत्थं पडिलेहें सो उ पंचविहो ।
भंडी बहिलग भरवह, ओदरिया कप्पडिय सत्थो ॥ ३०६६ ॥ 'राग-द्वेषविमुक्तो नाम' यस्य गन्तव्ये न रागो न वा द्वेषः स सार्थ प्रत्युपेक्षते । स च सार्थः पञ्चविधः, तद्यथा-भण्डी-गन्त्री तदुपलक्षितः प्रथमः सार्थः। बहिलकाः--करभी-वेसर-बलीवर्द30प्रभृतयः तदुपलक्षितो द्वितीयः । भारवहाः-पोट्टलिकावाहकास्तेषां सार्थः तृतीयः । औद
१ °वे आगाढेऽवमौदर्य आगाढे राजद्विष्टे आगाढे वोधिक-स्तेनादिभये वा छिन्नेनापि पथा गन्तव्यम् । यद्वा आगाढं नाम कां० ॥ २ ग्यं नन्दीभाजनादिकं प्रागुक्तनीत्या गृही कां ॥ ३॥ एतदन्तर्गतः पाठः भा० त० डे. नाति ॥ ४ सारक्षकाः कां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org