SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ३०५४ - ६२] प्रथम उद्देशः । चम्मकरग सत्थादी, दुलिंग कप्पे अ चिलिमिणिअगहणे । तस विपरिणमुड्डाहो, कंदाइवधो य कुच्छा य ।। ३०५८ ।। इह पूर्वार्द्ध-पश्चार्द्धपदानां यथासत्येन योजना कार्या । तद्यथा – चर्मकरकं यदि न गृह्णन्ति ततः ‘त्रसानां' पूतरकादीनां विराधना भवति । शस्त्रकोशस्य आदिशब्दाद् गुलिका - खोलादीनामग्रहणे कण्टकादिशल्यविद्धानां शैक्षादीनां च विपरिणामो भवति । “दुलिंग" ति लिङ्गद्वयं-गृहिलिङ्गं अन्यपाषण्डिकलिङ्गं च, तयोरुपकरणेऽगृह्यमाणे खलिङ्गेनैव रात्रौ भक्तग्रहणे पिशितादिग्रहणे वा उड्डाहः स्यात् । अध्वकल्पं विना कन्दमूलादीनां वधो भवति । चिलिमिलिकाया अग्रहणे मण्डल्या भुञ्जानान् विलोक्य जनः 'कुत्सां ' जुगुप्सां कुर्यात् ॥ ३० ५८ ॥ अष्परिणामगमरणं, अइपरिणामा य होंति नित्थका । 1 निग्गय गहणे चोड्य, भणति तइया कहं कप्पे ।। ३०५९ ।। 1 तत्राध्वनि गच्छतामेषणीयालाभे पञ्चकादियतनयाऽनेषणीयमपि गृह्यते तच्चापरिणामको न गृह्णाति, अगृह्णानस्य च तस्य मरणं भवेत् । ये पुनरतिपरिणामकास्तेऽकल्पनीयग्रहणं दृष्ट्वा 'नित्थक्का:' निर्लज्जा भवन्ति, ततश्चाध्वनो निर्गताः सन्तोऽकल्प्यग्रहणं कुर्वाणा गीतार्थैः प्रतिनोदिताः–‘आर्याः ! मा गृह्णीध्वमकल्प्यम्' ततस्ते ब्रुवते - तदाऽध्वनि वर्त्तमानानां 'कथमकल्प्यत ?' कथं कल्पनीयमासीत् ? || ३०५९ ॥ तेणभयोदककजे, रतिं सिग्घगति दूरगमणे य । वहणावहणे दोसा, बालादी सल्लविद्धे य || ३०६० ॥ स्तेनभये दण्डक चिलिमिलिकां विना, उदककार्ये चर्मकरकं गुलिकां खोलका नि वा विना यत् प्राप्नुवन्ति - तेन्निप्पन्नं प्रायश्चित्तम् । रात्रौ सार्थवशेन शीघ्रगतौ दूरगमने बोपस्थिते तलिकाभिर्विना बाल-वृद्धादयः प्रपतन्ति तान् यदि कापोतिकया वहन्ति तदा स्वयं परिताप्यन्ते, 20 अथ कापोतिकाया अभावान्न वहन्ति ततस्ते परिताप्यन्ते । शल्यविद्धाः शस्त्रकोशकेन विना शल्ये ऽनुद्धियमाणे यत् परितापनादिकं प्राप्नुवन्ति तन्निष्पन्नम् ॥ ३०६० ॥ यतएवमतो निष्कारणेऽध्वा न प्रतिपत्तव्यः । कारणे तु प्रतिपद्यमानानामयं क्रमः -- वियपय गम्ममाणे, मग्गे असतीय पंथें जतणाए । परिपुच्छिऊण गमणं, अहिणें पल्लीहिं वइगाहिं ॥ ३०६१ ।। 25 द्वितीयपदे अध्वनि गम्यमाने प्रथमं मार्गेण, मार्गस्यासति पथाऽपि यतनया गन्तव्यम् । तत्र च जनं परिपृच्छ्य य: पल्लीभिर्वजिकाभिर्वा अच्छिन्नः पन्थास्तेन गमनं विधेयम् । तदभावे छिन्नेनापि ।। ३०६१ ।। अथ यैः कारणैर्गन्तुं कल्पते तानि दर्शयति असिवे ओमोदरिए, रायहुट्ठे भये व आगाढे । गेलन उत्तिमट्टे, णाणे तह दंसण चरिते ॥ ३०६२ ॥ १ 'अध्वकल्पं ' वक्ष्यमाणलक्षणं विना कां० ॥ २ एतन्मध्यगतः पाठः कां० एव वर्त्तते ॥ ३ पदे वक्ष्यमाणैः कारणैः अध्व' कां० ॥ Jain Education International ८६१ ४ °पि वक्ष्यमाणलक्षणया यत कां० ॥ For Private & Personal Use Only 10 15 30 www.jainelibrary.org
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy