________________
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ अध्वप्रकृते सूत्रम् ४६ बसणादिसमावण्णे, मिच्छत्ताराहणा भणिया ॥ ३०५४ ॥ 'आज्ञा' 'न कल्पतेऽध्वानं गन्तुम्' इति लक्षणा भगवतां विराधिता भवति । 'अनवस्था' 'यद्यप बहुश्रुतोऽप्येवमध्यानं प्रतिपद्यते ततः किमहं न प्रतिपद्ये ?' एवमनवस्था । अतः 'प्रसङ्गेन' परम्परया सर्वस्यापि गणस्य 'नाशः' चारित्रव्यवच्छेदः प्रामोति । तथाऽध्यानं प्रतिपन्नः सन् 5 यदा 'व्यसनं' द्रव्याद्यापदम् आदिशब्दादपरं वा कमपि प्रत्यपायं समापन्नः-प्राप्तो भवति तदा मिथ्यात्वस्याराधना-अनुसजना भणिता । तथाहि-साधूनध्वनि व्यसनादिसमापन्नान् दृष्ट्वा लोको ब्रूयात् -- अहो ! अमीषां तीर्थकरेणैतदपि न दृष्टम् , यदेवंविधो बहुप्रत्य पायः पन्था न प्रतिपत्तव्यः ॥ ३०५४ ॥
अथ विराधना भाव्यते, सा च द्विधा-आत्मनि संयमे च । तत्रात्मविराधनामाह10 वाय खलु वाय कंडग, आवडणं विसम-खाणु-कंटेसु ।
वाले सावय तेणे, एमाइ हवंति आयाए । ३०५५ ।। अध्वानं गच्छतः 'खलुकाः' जानुकादिसन्धयो वातेन गृह्यन्ते, “वाय कंडय" ति जङ्घायां वातेन कण्डकान्युत्तिष्ठन्ते, विषमे वा स्थाणौ वा 'आपतनं' प्रम्खलनं भवति, कण्टका वा पादयोर्लगेयुः, व्याला वा श्वापदा वा स्तेना वा उपद्रवेयुः । एवमादिका आत्मविराधना मन्तव्या 16 ।। ३०५५ ॥ संयमविराधनामाह
छकायाण विराहण, उवगरणं बाल-वुड्डू-सेहा य।
पढमेण व विइएण व, सावय तेणे य मिच्छा य ॥ ३०५६ ॥ अस्थण्डिले स्थान-निषदनादि कुर्वन् पृथिव्यादीनां षण्णां कायानां विराधनां करोति । 'उपकरणम्' अध्वप्रायोग्यं नन्दीप्रतिग्रहादि यदि गृह्णन्ति ततो भारेण वेदनादयो दोषाः । अथ 20 न गृह्णन्ति तत उपकरणेन विना यत् प्राप्नुवन्ति तन्निप्पन्नं प्रायश्चित्तम् । बाल-वृद्ध-शैक्षाश्च प्रथ
मेन वा द्वितीयेन वा परीषहेण परिताप्यन्ते । साधयो वा श्वापदैर्भक्ष्यन्ते । स्तेनैरुपकरणमपहियते । म्लेच्छा वा क्षुल्लकादीनपहरेयुर्जीविताद्वा व्यपरोपयेयुः ॥ ३०५६ ॥ ___अथोपकरणपदं विशेषतो व्याख्यानयति
उवगरणगेण्हणे भार वेदणा तेण गुम्मि अहिगरणं । 23 रीयादि अणुवओगो, गोम्मिय भरवाह उड्डाहो ॥ ३०५७ ॥ ___ उपकरणं-नन्दीप्रतिग्रहा-ऽध्वकल्प-गुलिकादि यदि गृह्णन्ति ततो भारेण महती वेदना जायते । बहूपकरणाश्च स्तेनानां गौलिमकानां वा गम्या भवन्ति । हृतेषु चोपकरणेप्वसंयतेन परिभुज्यमानेष्वधिकरणम् । भाराकान्तानां चेर्यादावनुपयोगो भवति । बहूपकरणान् वा दृष्ट्या 'गौल्मिकाः' स्थानपाला उपद्रवेयुः । लोको वा यात्---अहो ! बहुलोभा भारवाहाश्चैते एवमुड्डाहो 80 भवति । अथैतदोषभयादुपकरणमुज्झन्ति ततो यत् तेन विना प्रामुवन्ति तन्निप्पन्नम् ॥३०५७॥
१°नादोषा भवन्ति ॥ ३०५५ ॥ का० ॥ २र्यादौ नोपयोगो भवति । बहुपकरणान् वा दृष्ट्रा गौलिमका ब्रुवते-अहो ! भा० ॥ ३ नं प्रायश्चित्तम् ॥ ३०५७ ॥ तथा-चम्म कां ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org