SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ३०४५-५३ ] .. प्रथम उद्देशः । ८५९ रात्रौ मार्गे गच्छत एते दोषाः- 'व्यालेन' सर्पादिना दश्येत, स्तेनैरुपकरणं संयतो वा हियेत, सिंहादिभिर्वा श्वापदैरुपद्र्येत, 'विषमे वा' निम्नोन्नते प्रपतेत् , स्थाणुना वा कण्टकैर्वा विध्येत, अथवा 'आत्मसमुत्थं' स्तेनादिबाह्यहेतुविरहेण स्वचित्तकल्पनोत्प्रेक्षितमकम्माद्भयं रात्री मार्गे गच्छतो भवेत् ॥ ३०४९ ॥ अथात्रैव द्वितीयपदमाह कप्पइ गिलाणगट्ठा, रत्तिं मग्गो तहेव संझाए। पंथो य पुवदिट्ठो, आरक्खिओं पुव्वभणिओ य ॥ ३०५० ॥ अथ ग्लानः-रोगातः स एकस्माद् ग्रामाद् ग्रामान्तरं नेतव्यः, यद्वा ग्लानः कश्चिदपरत्र ग्रामादौ सञ्जातः तदर्थ तत्र गन्तव्यम् , एवं ग्लानाथ रात्रौ वा सन्ध्यायां वा मार्गो गन्तुं कल्पते । येन च पथा गन्तव्यं स पूर्वमेव-अर्वाग्दिने दृष्टः-प्रत्युपेक्षितो यथा भवति तथा कर्त्तव्यम् । आरक्षिकश्च पूर्वमेव भणितो विधेयः, » यथा-वयं ग्लानकारणेन रात्रौ गमिप्यामः, भव-10 द्भिर्न किमपि च्छलं ग्रहीतव्यम् । एवमुक्ते तेनानुज्ञाते सति गच्छन्ति ॥ ३०५० ॥ गतं मार्गद्वारम् । अथ पथिद्वारमाह दुविहो ये होइ पंथो, छिन्नद्धाणंतरं अछिन्नं च । छिन्नम्मि नत्थि किंची, अछिन्न पल्लीहिं वइगाहिं ॥३०५१॥ द्विविधश्च भवति पन्थाः, तद्यथा-छिन्नाध्वान्तरमच्छिन्नाध्वान्तरं च । छिन्नं-ग्रामादिर-15 हितमध्धलक्षणं यदन्तरम्-अपान्तरालं तत् छिन्नाध्यान्तरम् , तद्विपरीतमच्छिन्नाध्वान्तरम् । तत्र च्छिन्ने पथि ग्राम-नगर-पल्ली-बजिकानां किञ्चिदेकतरमपि नास्ति, सर्वथैव शून्यत्वात् । यः पुनरच्छिन्नः पन्थाः स पल्लीभिर्वजिकाभिर्वा युक्तो भवति ॥ ३०५१ ॥ छिन्नेण अछिन्नेण व, रत्तिं गुरुगा य दिवसतो लहुगा। उद्दद्दरे पवजण, सुद्धपदे सेवती जं च ॥ ३०५२ ॥ अनन्तरोक्तेन च्छिन्नेनाच्छिन्नेन वा पथा बनतो रात्रौ चतुर्गुरुकाः, दिवा गच्छतश्चतुर्लघुकाः।। अत एव यत्रो दराः पूर्यन्ते तत्र यद्यध्वानं प्रतिपद्यन्ते तदा शुद्धपदेऽप्येतत् प्रायश्चित्तम् , यच्चाकल्पनीयादिकं किमपि सेवते तन्निप्पन्नं पृथक् प्रायश्चित्तमापद्यते ॥ ३०५२ ॥ इदमेवे स्फुटतरमाहउद्दद्दरे सुभिक्खे, खेमे निरुबवे सुहविहारे । 23 जइ पडिवञ्जति पंथं, दप्पेण परं न अन्नेणं ॥ ३०५३ ॥ 'ऊर्द्धदरे' अनन्तरोक्ते 'सुभिक्षे' सुलभभक्षे 'क्षेमे' स्तेन-परचक्रादिभयरहिते 'निरुपद्रवे' अशिवायुपद्रववर्जिते 'सुखविहारे' सुखेनैव मासकल्पविधिना विहर्तुं शक्ये, एवंविधे जनपदे सति यदि पन्थानं छिन्नमच्छिन्नं वा प्रतिपद्यते । कथम् ? इत्याह-'परं' केवलं 'दर्पण' देश. दर्शनादिनिमित्तं न 'अन्येन' ज्ञानादिना पुष्टालम्बनेन ॥ ३०५३ ॥ ततः किं भवति ? इत्याह--30 आणा न कप्पइ त्ति य, अणवत्थ पसंगताए गणणासो । १ इतोऽग्रे ग्रन्थाग्रं ५५०० इति भा० विना ॥ २ एतन्मध्यगतः पाठः का. एव वर्तते ॥ ३°काः प्रायश्चित्तम् , दिवसतो गच्छ° कां ॥ ४°व स्पष्टतर भा०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy