________________
10
भाप्यगाथाः ३०६३-७०] प्रथम उद्देशः ।,
८६३ रिका नाम-यत्र गताः तत्र रूपकादिकं प्रक्षिप्य समुद्दिशन्ति, समुद्देशनानन्तरं भूयोऽप्यग्रतो गच्छन्ति, एष चतुर्थः । कार्पटिकाः-भिक्षाचरास्ते भिक्षां भ्रमन्तो व्रजन्ति तेषां सार्थः पञ्चमः ॥ ३०६६ ॥ अथैनामेवं गाथां विवृणोति
गंतव्यदेसरांगी, असत्थ सत्थं पि कुणति जे दोसा।
इअरो सत्थमसत्थं, करेइ अच्छंति जे दोसा ॥ ३०६७ ॥ यो गन्तव्ये देशे रागी स सार्थप्रत्युपेक्षकः कृतोऽसार्थमपि सार्थ करोति, ततः कुसार्थेन गच्छतां ये दोषास्तानापद्यन्ते, तन्निप्पन्नं प्रायश्चित्तं सूरयः प्रामुवन्तीति भावः । » 'इतरो . नाम' गन्तव्यदेशद्वेषवान् स सार्थमप्यसार्थ करोति, ततस्तत्राशिवादिषु सन्तिष्ठमानानां ये दोषास्तान प्राप्नुवन्ति । । तस्माद् राग-द्वेषविमुक्तः सार्थप्रत्युपेक्षकः सूरिभिः प्रस्थापनीयः ॥ ३०६७॥ अथ सार्थपञ्चकेऽपि गमनक्रमं गुणागुणविभागं च दर्शयति--
उप्परिवाडी गुरुगा, तिसु कंजियमादिसंभवो होजा।
परिवहणं दोसु भवे, वालादी सल्ल गेलने ॥३०६८॥ 'उत्परिपाट्या' यथोक्तक्रममुल्लङ्य यदि सार्थेन सह गच्छन्ति तदा चतुर्गुरुकाः । किमुक्तं भवति ?–भण्डीसार्थे विद्यमाने यदि बहिलकसार्थेन गच्छन्ति तदा चतुर्गुरुकाः, अथ भण्डीसार्थो न प्राप्यते ततो बहिलकसार्थेनापि गन्तव्यम् , तत्र विद्यमाने भारवहसार्थेन गच्छन्ति 15 तदापि चतुर्गुरवः, एवं भारवहादिसार्थेप्यपि भावनीयम् । अत्र चायेषु 'त्रिषु' भण्डी-बहिलकभार्रवह सार्थेषु काञ्जिकोंदिपानकानां सम्भवो भवेत् , 'द्वयोस्तु' भण्डी-बहिलकसार्थयोर्वालानाम् आदिशब्दाद् वृद्धानां दुर्बलानां शल्यविद्धानां ग्लानानां च परिवहनं भवेत् ॥ ३०६८॥ किं पुनः सार्थे प्रत्युपेक्षणीयम् ? इत्याह-- सत्थं च सत्थवाह, सत्थविहाणं च आदियत्तं च ।
20 दव्यं खेत्तं कालं, भावोमाणं च पडिलेहे ॥ ३०६९॥ . सार्थं सार्थवाहं सार्थविधानम् आतियात्रिकं द्रव्यं क्षेत्रं कालं भावम् अवमानं च प्रत्युपेक्षेत इति द्वारगाथास पार्थः ॥ ३०६९ ॥ साम्प्रतमेनामेव विवृणोति
. सत्थि ति पंच भेया, सत्थाहा अट्ठ आइयत्तीया ।
सत्थस्स विहाणं पुण, गणिमाई चउविहं होइ ॥ ३०७० ॥ सार्थ इति पदेन भण्डीसार्थादयः पूर्वोक्ताः पञ्च भेदा गृहीताः । सार्थवाहाः पुनरष्टौ, आतियात्रिका अप्यष्टौ, उभयेऽप्युत्तरत्र वश्यन्ते । सार्थविधानं पुनर्गणिमादिभेदाच्चतुर्विधं भवति। १°व नियुक्तिगाथां कां० ॥ २ रागो भा० । एतदनुसारेणैव भा० टीका । दृश्यतां टिप्पणी ३ ॥
३ यस्य गन्तव्य देश रागः स सार्थ भा० ॥ ४-५ एतन्मध्यगतः पाठः भा० त. 3. नान्ति ॥ ६ रवाह का• विना ॥ ७ रवाह' क•ि ॥ ८ 'रवाह' मो० ले ॥ ____९ कायामोष्णोदकादि क्रा० ॥ १० कथं पुनः सार्थःप्रत्युपेक्षणीयः? भा०॥ ११ ताः, ते च विधिना प्रतिलेखनीयाः । तथा सार्धवा" का ॥ १२ 'आतियात्रिकाच' सार्थरक्षकाः तेऽयष्टी, उभयेषामपि भेदा वक्ष्यमाणलक्षणाः पतिलेखनीयाः। सार्धविधानं कां।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org