SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ ८६४ सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ अध्वप्रकृते सूत्रम् ४६ तत्र गणिमं - यदेकव्यादिसङ्ख्यया गणयित्वा दीयते, यथा - हरीतकी - पूगफलादि । धरिमं - यत् तुलायां धृत्वा दीयते, यथा - खण्ड-शर्करादि । मेयं यत् पलादिना सेतिकादिना वा मीयते, यथा — घृतादिकं तन्दुलादिकं वा । पारिच्छेद्यं नाम - यच्चक्षुषा परीक्ष्यते, यथावस्त्र - रत्न - मौक्तिकादि । एतच्चतुर्विधमपि द्रव्यं भण्डीसार्थादिषु प्रत्युपेक्षणीयम् । तथा द्रव्य-क्षेत्र5 काल - भावैरपि सार्थः प्रत्युपेक्षणीयः ३०७० ॥ तत्र द्रव्यतः प्रत्युपेक्षणां तावदाह- अनुरङ्गा नाम - घंसिकास्तदादीनि यानानि गवेषणीयानि, आदिशब्दात् शकटादिपरिग्रहः । वाहनानि 'गुण्ठादीनि' गुण्ठो नाम - घोटको महिषो वा, आदिशब्दात् करभ-वृषभादिपरि10 ग्रहः । एतेषां यानानां वाहनानां चानुज्ञापना कर्त्तव्या, यथा - अस्माकं कोऽपि बालो वृद्धो दुर्बलो ग्लानः शल्यविद्धो वा गन्तुं न शक्नुयात् स युष्माभिरनुरङ्गादौ वा तुरङ्गादौ वा आरोहयितव्यः । यदि ‘एवम् धर्मः' इति कृत्वाऽनुजानन्ति ततः सुन्दरम् । अथ नानुजानन्ति ततः 'भृत्या' मूल्येनापि यथाऽऽरोहयन्ति तथा प्रज्ञापयितव्याः । अथ मूल्येनापि बालादीनामारोहणं नेच्छन्ति ततः ‘प्रतिक्रुष्टाः' प्रतिषिद्धाः, तैः सह न गन्तव्यमित्यर्थः ॥ ३०७१ ॥ " अपि च--- 15 अणुरंगाई जाणे, गुंठाई वाहणे अणुण्णवणा । धम्मुत्ति वा भई व बालादि अणिच्छे पडिकुट्ठा ॥ ३०७१ ॥ दंतिक- गोर- तिल-गुल - सप्पिएमा दिभंडभरिए । अंतरवाघातमिव तं दितिहरा उ किं देति ॥ ३०७२ ॥ मोदक-मण्डका ऽशोकवर्त्यादिकं यद् बहुविधं दन्तखाद्यकं तद् दन्तिकम्, “गोर” त्ति गोधूमाः, 'तैल-गुडौ' प्रतीतौ, 'सर्पिः' घृतम्, एवमादीनां भक्ष्यभाण्डानां यत्र शानि 30 भृतानि प्राप्यन्ते स सार्थो द्रव्यतः शुद्धः । यत एवमादिभाण्डभृतेषु शकटादिषु सत्सु यद्यपि अन्तरा - अपान्तराले व्याघातःतः - वर्षा - नदीपूरादिक उत्पद्यते तथापि 'तद्' दन्तिकादिकं ते सार्थिकाः स्वयमपि भचयन्ति साधूनामपि च प्रयच्छन्ति । 'इतरथा' तेषामभावे किं ददति ?, न किमपीत्यर्थः ॥ ३०७२ || व्याघातकारणान्येव दर्शयति वासेण नदीपूरेण वा वि तेणभय हत्थि रोधे य । खोभे व जत्थ गम्मति, असिवं वेमादि वाघाता ॥ ३०७३ || सार्थस्य गच्छतोऽपान्तराले आर्गेढवर्षेण वा नदीपूरेण वा बहुतरदिवसान् व्याघात उपस्थितः, अग्रतो वा स्तेनानां भयमुत्पन्नम् दुष्टहस्तिना वा मार्गों निरुद्ध:, 'यत्र वा' नगरादौ 'गम्यते' गन्तुमिष्यते तत्र रोधको वा राज्यक्षोभो वा अशिवं वा उत्पन्नम्, एवमादयो गमनस्य व्याघाता भवन्ति । तेषूपस्थितेषु यद्यपान्तराले सार्थः सन्निवेशं कृत्वा तिष्ठति तथापि दन्तिका - ३० दिबहुविधखाद्यद्रव्यभृतासु गन्त्रीषु सुखेनैव साधवः संस्तरन्ति । अतस्तेन सह गन्तव्यम् ॥ ३०७३ ॥ न पुनरीदृशेन 25 १ 'भ-हस्त्यादिपरि° भा० ॥ २एतदन्तर्गतः पाठः भा० कां० एव वर्त्तते ॥ ३°न्तिकादि' मा० कां० ॥ ४ 'गाढं वर्ष पतितुमारब्धम्, चतुर्मासवाहिनी वा नदी पूरेण समायाता, अग्र० भा० ॥ For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy