________________
८६५
भाष्यगाथाः ३०७१-७७] प्रथम उद्देशः ।
कुंकु अगुरुं पत्तं, चोयं कत्थूरिया य हिंगुं च ।
संखग-लोणभरितेण, न तेण सत्थेण गंतव्वं ॥ ३०७४ ॥ ___ कुंकुमं अगुरुः तगरपत्रं "चोयं" ति त्वक् कस्तूरिका हिङ्गुरेवमादिकमखाद्यद्रव्यं यत्र भवति, यश्च शङ्खन लवणेन वा भृतः-पूर्णः, तत्रान्तरा व्याघाते समुत्पन्ने निष्ठितशम्बलाः सार्थिकाः किं प्रयच्छन्तु ? यत एवमतः 'तेन' तादृशेन सार्थेन सह न गन्तव्यम् ॥ ३०७४ ॥ गता द्रव्यतः प्रत्युपेक्षणा । अथ क्षेत्र-काल-भावैस्तामाह
खेत्ते जं वालादी, अपरिस्संता वयंति अद्धाणं ।
काले जो पुव्वण्हे, भावें सपक्खादणोमाणं ॥ ३०७५ ॥ यावन्मात्रमध्वानं बाल-वृद्धादयोऽपरिश्रान्ताः 'बजन्ति' गन्तुं शक्नुवन्ति तावन्मानं यदि सार्थों व्रजति तदा स सार्थः 'क्षेत्रे' क्षेत्रतः शुद्धः । तथा यः सूर्योदयवेलायां प्रस्थितः पूर्वाह्ने तिष्ठति 10 स कालतः शुद्धः । यत्र तु खपक्ष-परपक्षभिक्षाचरैरनवमानं स भावतः शुद्धः ॥ ३०७५ ॥
एकिक्को सो दुविहो, सुद्धो ओमाणपेल्लितो चेव ।।
मिच्छत्तपरिग्गहितो, गमणाऽऽदियणे य ठाणे अ॥ ३०७६ ॥ भण्डीसार्थ-बहिलकसार्थयोर्मध्यादेकैको द्विविधः-शुद्धोऽशुद्धश्च । शुद्धो नाम-यो नावमानप्रेरितः, अवमानप्रेरितोऽशुद्धः । तथा सार्थवाह आदियात्रिको वा यो वा तत्र प्रधानः स यदि 15 मिथ्यादृष्टिस्तदा स सार्थो मिथ्यात्वपरिगृहीत इति कृत्वा ना गन्तव्यः । “गमणाऽऽइयणे य ठाणे य" ति गमने यः सार्थः मृदुगतिः अच्छिन्नेन वा पथा व्रजति, आदनं-भोजनं तद्वेलायां यस्तिष्ठति, 'स्थाने च' स्थण्डिले यो निवेशं करोति ईदृशः शुद्धः ॥ ३०७६ ॥ अथ खपक्ष-परपक्षावमानं व्याख्यानयति
समणा समणि सपक्खो, परपक्खो लिंगिणो गिहत्था य । 20
आया-संजमदोसा, असईय सपक्खवजेण ॥ ३०७७ ॥ स्वपक्षः श्रमणाः श्रमण्यश्च द्रष्टव्याः । परपक्षो लिङ्गिनो गृहस्थाश्च । इह लिङ्गिनोऽन्यतीथिका द्रष्टव्याः । ईदृशेन भिक्षाचरवर्गेणाकीर्णे पर्याप्तमलभमानानामात्म-संयमदोषा भवन्ति । तत्रात्मदोषाः परितापनादिना, संयमदोषास्तु कन्दादिग्रहणेनेति । अथानवमानं सर्वथैव न प्राप्यते ततोऽनवमानस्यासति 'स्वपक्षवर्जन' स्वपक्षावमानं वर्जयित्वा यत्र परपक्षावमानं भवति 25 तेन गन्तव्यम् । तत्र जनो भिक्षाग्रहणे विशेषं जानाति-इमे श्रमणाः, एते तु तच्चन्निकादय इति ॥ ३०७७ ॥
“गमणाऽऽदियणे य ठाणे य" त्ति पदत्रयं व्याचष्टे१°म तगरं पत्तं ता०॥ २ यत्र कुङ्कमा-गुरु-तगरपत्र-त्व-कस्तूरिका-हिङ्ग्वादिकमखाद्य भा० ॥ ३°वन्तीति भावः, ताव भा० ॥ ४सार्थः क्षेत्रशद्धः कां. विना ॥ ५तु 'स्वपक्षाद्यनवमानं स्वपक्ष का ६ शुद्धो मन्तव्यः ॥ ३०७५ ॥ अथावमानप्रत्युपेक्षणां भावयति-एकिको कां ॥
७°सार्थादीनामेकैकः सार्थो द्विवि° भा० । “एकेको ति भंडिओ बहिलगो य, एस दुविहो वि सुद्धो असुद्धो य” इति चूर्णी विशेषचूर्णौ च ॥ ८°नुमन्तव्यः भा० मो० ले० ॥
Jain Education International
· For Private & Personal Use Only
www.jainelibrary.org