________________
८६६
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ अध्वप्रकृते सूत्रम् ४६ गमणं जो जुत्तगती, वइगा-पल्लीहिं वा अछिण्णेणं । थंडिल्लं तत्थ भवे, भिक्खग्गहणे य वसही य ।। ३०७८ ॥ आदियणे भोत्तूणं, ण चलति अवरण्हें तेण गंतव्यं ।
तेण परं भयणा ऊ, ठाणे थंडिल्लठाई उ ॥ ३०७९ ॥ 5 गमनशुद्धो नाम यः सार्थः ‘युक्तगतिः' मन्दगमनः, न शीघ्रं गच्छतीत्यर्थः; यो वा बजि. का-पल्लीभिरच्छिन्नः पन्थास्तेन गच्छति, यतस्तत्राच्छिन्ने पथि स्थण्डिलं भवति, वजिकादौ च सुखेनैव भिक्षाग्रहणं वसतिश्च प्राप्यते ॥ ३०७८॥ ___ आदनं-भोजनं तद्वेलायां यस्तिष्ठति, भुक्त्वा चापराह्ने न चलति' तेन सह गन्तव्यम् ।
"तेण परं भयणा उ” त्ति प्राकृतत्वात् पञ्चम्यर्थे तृतीया, 'ततः परं' भोजनादनन्तरमपराह्ने 10 यश्चलति तत्र भजनी कर्त्तव्या-यदि सर्वेऽपि साधवः समर्थास्तदानीं गन्तुं ततः शुद्धः, अथ
न शक्नुवन्ति ततोऽशुद्ध इति । स्थानं नाम-गमनादुपरम्य निवेशं कृत्वा क्वचित् प्रदेशेऽवस्थानम् , तत्र यः स्थण्डिलस्थायी स शुद्धः, अस्थण्डिले तिष्ठन्नशुद्ध इति ॥ ३०७२ ॥ अथ यदुक्तम् ‘अष्टौ सार्थवाहा आदियात्रिकाश्च' (गा० ३०७० ) इति तदेतद् व्याख्यानयति
पुराण सावग सम्मदिहि अहाभद्द दाणसड्ढे य । 15
अणभिग्गहिए मिच्छे, अभिग्गहे अण्णतित्थी य ॥ ३०८० ॥ 'पुराणः' पश्चात्कृतः १ 'श्रावकः' प्रतिपन्नाणुव्रतः २ 'सम्यग्दृष्टिः' अविरतसम्यग्दर्शनी ३ 'यथाभद्रकः' सामान्यतः साधुदर्शनपक्षपाती ४ 'दानश्राद्धः' प्रकृत्यैव दानरुचिमान् ५ अनभिगृहीतमिथ्यादृष्टिः ६ अभिगृहीतमिथ्यादृष्टिः ७ अन्यतीर्थिकः ८ एते त्रयोऽपि प्रतीताः ।
एवमष्टौ सार्थाधिपतयः । आदियात्रिका अप्येवमेवाष्टौ भवन्ति ॥ ३०८० ॥ 20 साम्प्रतमध्वानं प्रतीत्य भङ्गानुपदर्शयति
सत्थपणए य सुद्धे, य पेल्लिओ कालऽकालगम-भोगी।
कालमकालट्ठाई, सत्थाहऽहाऽऽदियत्तीया । ३०८१ ॥ सार्थपञ्चके भण्डीसार्थो बहिलकसार्थश्चावमाने शुद्धो वा स्यात् प्रेरितो वा, यः शुद्धस्तेन गन्तव्यम् । तथा कालगामिनोऽकालगामिनो वा कालभोजिनोऽकालभोजिनो वा कालनिवेशि25 नोऽकालनिवेशिनो वा स्थण्डिलस्थायिनोऽस्थण्डिलस्थायिनो वा ते पञ्चापि सार्था भवेयुः । तथा अष्टौ सार्थवाहा अष्टौ चाऽऽदियात्रिकाः ॥ ३०८१ ॥ एंभिः पदैः कियन्तो भङ्गा उत्तिष्ठन्ते ? इत्याह-»
एतेसिं तु पयाणं, भयणाएँ सयाइँ एक्कपनं तु ।
वीसं च गमा नेया, एत्तो य सयग्गसो जयणा ॥ ३०८२ ॥ १°च्छति स गमनशुद्धो मन्तव्यः, यत' कां ॥ २°ति स भोजनशुद्धः कां० ॥ ३ मो. ले० विनाऽन्यत्र-ना कार्या-यदि भा० त० डे० । °ना कार्या, तुशब्दः पादपूरणे, यदि कां० ॥
४°श्वकं शुद्धमन्वेष्यम् , कथम् ? इत्याह-'अप्रेरितं' सपक्ष-परपक्षाभ्यामनुढेजितम् , तथा काल° भा०॥
५ - एतन्मध्यगतमवतरणं भा० नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org