________________
८६७.
भाष्यगाथाः ३०७८-८६] प्रथम उद्देशः ।
एतेषां पदानां संयोगेन 'भजनायां' भङ्गरचनायां विधीयमानायामेकपञ्चाशत्सङ्ख्यानि शतानि विशतिश्च 'गमाः' भङ्गका ज्ञेयाः । “एत्तो य सयग्गसो जयण" ति आपत्वाद् एषु' सार्थेषु शुद्धा-ऽशुद्धेषु सार्थवाहा-ऽऽदियात्रिकेषु च भद्रक-प्रान्तेषु अल्पबहुत्वचिन्तायां 'शतायशः' शतसङ्ख्यभेदा यतना भवति ॥ ३०८२ ॥ अमुमेवार्थ भाप्यकारः प्रकटयन्नाह
कालुट्ठाई कालनिवेसी, ठाणहाती य कालभोगी य ।
उग्गतऽणत्थमि थंडिल, मज्झण्ह धरंत सूरे य ॥ ३०८३ ॥ इह पूर्वार्द्ध-पश्चार्द्धपदानां यथासङ्ख्यं योजना, तद्यथा-कालोत्थायी नाम स सार्थों य उद्गते सूर्ये उत्तिष्ठते, चलतीत्यर्थः । कालनिवेशी योऽनस्तमिते रवौ प्रथमायां वा पौरुष्यां निवेशं कृत्वा तिष्ठति । स्थानस्थायी यः स्थण्डिले वजिकादौ तिष्ठति । कालभोजी यो मध्याहे सूर्य वा ध्रियमाणे भुते ॥ ३०८३ ॥
. 10 एतेसिं तु पयाणं, भयणा सोलसविहा उ कायव्या ।
सत्थपणएण गुणिया, असिती भंगा तु णायव्या ॥ ३०८४॥ 'एतेषां' चतुर्णा पदानां षोडशविधा भजना कर्तव्या, तद्यथा-कालोत्थायी कालनिवेशी स्थानस्थायी कालभोजी १ कालोत्थायी कालनिवेशी स्थानस्थायी अकालभोजी २ कालोत्थायी कालनिवेशी अस्थानस्थायी कालभोजी ३ कालोत्थायी कालनिवेशी अस्थानस्थायी अकालभोजी 15 ४ । एवमकालनिवेशिपदेनापि चत्वारो भङ्गा अवाप्यन्ते, लब्धा अष्टौ भङ्गाः । एतेऽकालोत्थायिपदेनाप्यष्टौ प्राप्यन्ते, जाताः षोडश भङ्गाः । एते च सार्थपञ्चकेऽपि प्राप्यन्त इति पञ्चभिर्गुण्यन्ते, गुणिताश्चाशीतिर्भङ्गका भवन्ति ॥ ३०८४ ॥ - सत्थाह अट्ठगुणिया, असीति चत्ताल छस्सता होति ।
ते आइयत्तिगुणिया, सत एकावण्ण वीसहिया ॥ ३०८५॥ 30 पूर्वलब्धा अशीतिभङ्गकाः प्रतिसार्थवाहं प्राप्यन्ते इति कृत्वा अशीतिरष्टभिः सार्थवाहेगें णिताः षट् शतानि चत्वारिंशानि भवन्ति । एतानि चाष्टभिरादियात्रिकैर्गुण्यन्ते जातानि भङ्गकानामेकपञ्चाशच्छतानि विंशत्यधिकानि । एषामन्यतरस्मिन् साथै यथायोगमल्पबहुत्वं परिभाव्य यत्र बहुतरा गुणा भवन्ति तमभिरोच्य गुरुपादमूलमागत्य सार्थप्रत्युपेक्षका आलोचयन्ति ॥ ३०८५ ॥ अथ सार्थवाहस्यानुज्ञापनायां विधिमाह
दोण्ह वि चियत्त गमणं, एगस्सऽचियत्त होति भयणा उ ।
अप्पत्ताण णिमित्तं, पत्ते सत्थम्मि परिसाओ॥ ३०८६ ॥ यत्रैकः सार्थवाहस्तंत्र तमनुज्ञापयन्ति, ये वा प्रधानपुरुषास्तेऽनुज्ञापयितव्याः । अथ द्वौ. सार्थाधिपती ततो द्वावप्यनुज्ञापयितन्यौ, यदि प्रीतिकं ततो गमनं कर्तव्यम् । अथैकस्याप्रीतिकम् .. १ 'विंशतिश्च' विंशत्यधिकानि 'गमाः' कां०॥ २°ध्याह्नवेलायां सूर्ये वा 'ध्रियमाणे' अनस्तमयमाने भु को० ॥ ३ °धा' षोडशभङ्गप्रमाणा भज° का० ॥ ४जी ४। एते कालनिवेशिपदेन लब्धाः, एवमका का० ॥ ५ एते कालोत्थायिपदेन लब्धाः, अकालो भा० कां०॥ ६°श्वकेन गुण्य भा० त• डे.॥ ७°दि द्वयोरपि प्री का०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org