________________
15
८६८ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [अध्वप्रकृते सूत्रम् ४६ 1 अपरस्य प्रीतिकं ततो भजना भवति, यस्तयोः प्रेरकः प्रमाणभूतस्तस्य प्रीतिके गन्तव्यम् - अप्रीतिके न गन्तव्यम् - । सार्थ चाप्राप्तानां 'निमित्र' शकुनग्रहणं भवति । साथै प्राप्ताः पुनः सार्थस्यैव शकुनेन गच्छन्ति । सार्थप्राप्ताश्च तिस्रः परिषदः कुर्वन्ति, तद्यथा-पुरतो मृगपरिषदं मध्ये सिंहपरिषदं पृष्ठतो वृषभपरिषदम् ॥ ३०८६ ॥ 5. अथ 'दोण्ह वि" त्ति पदं विवृणोति
दोनि वि समागया सत्थिगो य जस्स व वसेण वच्चति तु ।
अणणुण्ण विते गुरुगा, एमेव य एगतरपंते ॥ ३०८७॥ सार्थवाह आदियात्रिकश्च द्वावपि मिलितौ समागतौ समकमनुज्ञापयन्ति । अथवा 'सार्थिकः' सार्थों विद्यते यस्येति व्युत्पत्त्या सार्थवाह एक एवानुज्ञाप्यते । यस्य वा वशेन सार्थो व्रजति 10 सोऽनुज्ञाप्यः । अथाननुज्ञापिते सार्थवाहादौ व्रजन्ति तदा चत्वारो गुरुकाः । अथ द्वौ सार्था
वेकत्र मिलितौ स्याताम् , तत्र च द्वौ सार्थाधिपती, द्वावप्यनुज्ञापयितव्यौ । अथैकमनुज्ञापयन्ति तत्र 'एवमेव' चतुर्गुरुकाः । अथैकतरः प्रान्तः ततश्चिन्तनीयम्-स प्रेरको वा । स्याद् अप्रेरको वा » । यदि प्रेरकस्ततो न गन्तव्यम् । अथ गच्छन्ति ततः ‘एवमेव' चतुर्गुरुकाः ॥ ३०८७॥ कथं तर्हि गन्तव्यम् ? इत्याह
जो होइ पेल्लतो तं, भणंति तुह बाहुछायसंगहिया।
वच्चामऽणुग्गहो त्ति य, गमणं इहरा उ गुरु आणा ॥ ३०८८ ॥ यस्तत्र 'प्रेरकः' प्रमाणभूतो भवति तं धर्मलाभयित्वा भणन्ति-यद्यनुजानीत ततो वयं युष्माभिः समं युष्मद्वाहुच्छायासङ्ग्रहीता व्रजामः । एवमुक्ते यद्यसौ ब्रूयात्-भगवन् ! अनुग्रहोऽयं मे, अहं सर्वमपि भगवतामुदन्तमुद्वहामीति; एवमनुज्ञाते गमनं विधेयम् । 'इतरथा' 20 यद्यसौ तूष्णीकस्तिष्ठति ब्रवीति वा 'मा समागच्छत' इति ततो यदि गच्छन्ति ततश्चत्वारो गुरव आज्ञादयश्च दोषाः ॥ ३०८८ ॥ यदि सार्थवाहस्यापरस्य वा प्रेरकस्याप्रीतिके गम्यते तत एते दोषाः
पडिसेहण णिच्छुभणं, उपकरणं बालमादि वा हारे।
___ अतियत्त गुम्मिएहि व, उडुभंते ण वारेति ॥ ३०८९ ॥ 25 स सार्थवाहादिः प्रान्तः सन्नटवीमध्यप्राप्तानां साधूनां भक्त-पानप्रतिषेधं सार्थाद्वा निष्काशनं विदध्यात् , उपकरणं वा बालादीन् वा अन्येन स्तेनादिना 'हारयेत्' अपहरणं कारयेदित्यर्थः, 'आदियात्रिकैर्वा' सार्थारक्षकैः ‘गौल्मिकैर्वा' स्थानरक्षपालैः 'उद्दह्यमानान्' मुष्यमाणान् साधून् 'न वारयति' उदासीन आस्ते इत्यर्थः ॥ ३०८९ ॥ यत एवं ततः किं कर्त्तव्यम् ? इत्याह
१ एतचिह्नगतः पाठः भा. कां. एव वर्तते ॥ २ एतदन्तर्गतः पाठः भा० एव वर्तते ॥ ३ चाद्याप्यप्रा कां० ॥ ४ 'द्वौ' सार्थवाहा-ऽऽदियात्रिको 'समागतौ' मिलितौ समक भा०॥ ५ 'सार्थिकं' सार्थो विद्यते यस्येति व्युत्पत्त्या सार्थवाहमेकमेवानुशापयन्ति । यस्य वा भा० ॥ ६°हः स एक कां० ॥ ७॥ एतदन्तर्गतः पाठः भा० कां० एव वर्तते ॥ ८ जो वा वि पेल्ल° ता.॥९ उडेचंते ता० ॥ १० °न्तः महाट डे० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org