Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 319
________________ ८८० सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [अध्वप्रकृते सूत्रम् ४६ 'द्विविधे' जीवित-चारित्रव्यपरोपणात्मके भैरवे समुत्पन्ने तं राजानं विद्यया निमित्तेन वा चूर्णैर्वा वशीकुर्यात् , या वा देवी तस्य राज्ञ इष्टा सा विद्याभिरावय॑ते । एवमप्यनुपशान्तौ श्रेष्ठिनममात्यं वा उपलक्षणत्वात् पाषण्डिगणं वा प्रज्ञापयन्ति, ततस्तद्वारेणोपशमयन्ति । अथवा यावद् नृपतिमुपशमयन्ति तावत् श्रेष्ठिनोऽमात्यस्य वा अवग्रहे तिष्ठन्ति । एषणादिषु च प्राग्व। देव यतितव्यम् ॥ ३१३५॥ आगाढ़े अण्णलिंगं, कालक्खेवो व होति गमणं वा । कयकरणे करणं वा, पच्छादण थावरादीसु ॥३१३६ ॥ आगाढे राजद्विष्टेऽन्यलिङ्गं विधायाज्ञायमानस्तत्रैव कालक्षेपः कर्त्तव्यः विषयान्तरगमनं वा कर्त्तव्यम् । यो वा कृतकरणः स करणं करोति, विष्णुकुमारादिरिव नृपतेः शिक्षा 10 करोतीत्यर्थः । अथ तदपि नास्ति ततः स्थावराः-वृक्षास्तेषां गहनेषु १ ऑदिशब्दात् । पद्मसरःप्रभृतिषु वा आत्मानं प्रच्छाद्य दिवा निलीना आसते रात्रौ च व्रजन्ति ॥ ३१३६ ॥ गतं राजद्विष्टद्वारम् । अथ भयादिद्वाराणि युगपदाह बोहिय-मिच्छादिभए, एमेव य गम्ममाण जतणाए । दोण्हऽट्ठा व गिलाणे, णाणादट्ठा व गम्मंते ॥ ३१३७ ॥ 15 बोधिकाः-मालवस्तेनाः, म्लेच्छाः-पारसीकादयः, तदादीनां भये समुपस्थिते । शीघ्र देशान्तरं » गन्तव्यम् । तत्र च गम्यमाने 'एवमेव' अशिवादिद्वारवद् भैक्षादिकं यतनया कर्तव्यम् । आगाढं तु किञ्चिदौत्पत्तिकं कार्यम् , यथा संज्ञातकैः सन्दिष्टम्-इदं कुलं प्रत्रज्यामभ्युपगच्छति यदि यूयमागच्छथ, अथ नागमिष्यथ ततो विपरिणंस्यति अन्यस्मिन् वा शासने प्रव्रजिष्यति; ईदृशे आगाढे गन्तव्यम् । ग्लानत्वे वा द्वयोरर्थाय गम्यते, वैद्यस्यौषधानां 20 च हेतोरित्यर्थः । उत्तमार्थे तु निर्यापणार्थं प्रतिचरको गच्छेत् । उत्तमार्थ प्रतिपित्सुर्वा विशोधिकरणार्थ गीतार्थसमीपं गच्छेत् । ज्ञान-दर्शन-चारित्रार्थ वा गन्तव्यम् । एतैः कारणैर्गम्यमाने पूर्व मार्गेण पश्चादच्छिन्नेन च्छिन्नेन वा पथाऽपि गन्तव्यम् ॥ ३१३७ ॥ अत्र यतनामाह एगापन्नं च सता, वीसं चऽद्धाणणिग्गमा णेया। एत्तो एकेक्कम्मि य, सतग्गसो होइ जतणाओ॥ ३१३८॥ 25 सार्थपञ्चकेन कालोत्थायिप्रभृतिभिश्चतुर्भिः पदैरष्टभिः सार्थवाहैरष्टभिश्चादियात्रिकैरेकपञ्चा शच्छतानि विंशत्यधिकानि अवनिर्गमप्रकारा भवन्ति । एते च प्राक् सप्रपञ्चं भाविताः (गा० ३०८२-८५)। एतेषु भङ्गकेप्वेकैकस्मिन् भङ्गकेऽशिवादिकारणेऽध्वनि गच्छतां शताग्रशः प्रागुक्तनीत्या यतना भवन्ति ॥ ३१३८ ॥ ॥ अध्वगमनप्रकृतं समाप्तम् ॥ १ "देवी य त्ति जा वा तस्स महादेवी इट्ठा सा विजादीहिं आउहिज्जति, पच्छा सा तं भाउटेति रायं।" ॥ २-३१» एतदन्तर्गतः पाठः मो० ले. का. एव वर्तते ॥ ४°यः, तेषां भये भा० ॥ ५॥ एतदन्तर्गतः पाठः मो० ले. का. एव वर्तते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364