Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
८८२ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [संखडिप्रकृते सूत्रम् ४७
एक्केक्का सा दुविहा, पुरसंखडि पच्छसंखडी चेव ।
पुवा-ऽवरसूरम्मि, अहवा वि दिसाविभागेणं ॥ ३१४३ ॥ 'एकैका' एकदैवसिकी अनेकदैवसिकी च 'सा' सङ्खडिः प्रत्येक द्विधा-पुरःसङ्खडी पश्चात्सङ्खडी च । या 'पूर्वसूर्ये' पूर्वदिग्विभागमध्यासीने रवौ क्रियते सा पुरःसङ्खडी, या 5 पुनरपरसूर्ये सा पश्चात्सङ्खडी । अथवा दिग्विभागेनानयोः पुरः-पश्चाद्विभागो विज्ञेयः-या विवक्षितग्रामादेः सकाशात् पूर्वस्यां दिशि भवति सा पूर्वसङ्खडी, या तु तस्यैवापरस्यां दिशि सा पश्चात्सङ्खडी ॥ ३१४३ ॥ अत्र प्रायश्चित्तमाह
दुविहाए वि चउगुरू, विसेसिया भिक्खुमादिणं गमणे ।
गुरुगादि व जा सपदं, पुरिसेगा-ऽणेग-दिण-रातो ॥ ३१४४ ॥ 10 द्विविधायामप्यनन्तरोक्तायां सङ्खड्यां गमने चतुर्गुरुकाः । एते च भिक्षुप्रभृतीनां तपः
कालविशेषिताः-भिक्षोस्तपसा कालेन च लघवः, वृषभस्य तपसा लघवः, उपाध्यायस्य कालेन लघवः, आचार्यस्य तपसा कालेन च गुरवः । अथवा चतुर्गुरुकमादौ कृत्वा एकानेकपुरुषकृतैकानेकदैवसिकसङ्खडीषु रात्रौ गच्छतः 'स्वपदं' छेदादिकं यावन्नेतव्यम् । तद्यथा-भिक्षुरेक
पुरुषकृतामेकदैवसिकी सङ्खडी व्रजति चतुर्गुरवः, एकपुरुषकृतानेकदैवसिक्यां षड्लघवः, 15 +4 अनेकपुरुषकृतायामेकदैवसिक्यां षड्गुरवः, » अनेकपुरुषकृतानेकदैवसिक्यां छेदः । एवं भिक्षुविषयमुक्तम् । वृषभस्य षड्लघुकादारब्धं मूले, उपाध्यायस्य षड्गुरुकादारब्धमनवस्थाप्ये, आचार्यस्य च्छेदादारब्धं पाराश्चिके निष्ठामुपयाति ॥३१४४ ॥ प्रकारान्तरेण प्रायश्चित्तमेवाह
आयरियगमणे गुरुगा, वसभाण अवारणम्मि चउलहुगा।
दोण्ह वि दोण्णि वि गुरुगा, वसभ बला तेतरे सुद्धा ॥ ३१४५ ॥ 20 आचार्यस्य 'सङ्खड्यां गच्छामः' इति ब्रुवाणस्य चत्वारो गुरवः । तमेवंब्रुवाणं वृषभा न वारयन्ति चतुर्लघुकाः । अथाचार्येण 'सङ्खडी बजामः' इत्युक्ते वृषभा अपि 'व्रजामः' इति भणन्ति ततः 'द्वयोरपि' वृषभा-ऽऽचार्ययोर्ये चत्वारो मासास्ते द्वयेऽपि गुरुकाः कर्त्तव्याः, वृषभाणामपि चतुर्गुरुका भवन्तीति भावः । अथ वृषभैारिता अप्याचार्याः बलामोटिकया गच्छन्ति ततः 'ते' आचार्याः प्रायश्चित्ते लग्नाः, 'इतरे' वृषभास्ते 'शुद्धाः' न प्रायश्चित्तभाज इति ॥ ३१४५॥
सव्वेसि गमणे गुरुगा, आयरियअवारणे भवे गुरुगा।
वसभे गीता-गीए, लहुगा गुरुगो य लहुगो य ॥ ३१४६ ॥ यदि सर्वेऽपि साधवो भणन्ति 'सङ्खड्यां गच्छामः' इति ततस्तेषां चत्वारो गुरुकाः । आचार्यास्तान्न वारयति चतुर्गुरवः । वृषभो न वारयति चतुर्लघवः । गीतार्थो भिक्षुर्न वारयति । गुरुको मासः । अगीतार्थो न वारयति » लघुको मासः ॥ ३१४६ ॥
एगस्स अणेगाण व, छंदेण पहाविया तु ते संता ।
वत्तमवत्तं सोचा, नियत्तणे होंति चउगुरुगा ॥३१४७ ।। १°वन्मन्तव्यम् भा० त० डे० का० ॥ २ एतदन्तर्गतः पाठः भा. कां. एव वर्तते ॥ ३ अत्र ग्रन्थानम्-६००० इति भा० विना ॥ ४ एतदन्तर्गतः पाठः भा० कां० एवं वर्तते ॥
25
80
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364