SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ ८८२ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [संखडिप्रकृते सूत्रम् ४७ एक्केक्का सा दुविहा, पुरसंखडि पच्छसंखडी चेव । पुवा-ऽवरसूरम्मि, अहवा वि दिसाविभागेणं ॥ ३१४३ ॥ 'एकैका' एकदैवसिकी अनेकदैवसिकी च 'सा' सङ्खडिः प्रत्येक द्विधा-पुरःसङ्खडी पश्चात्सङ्खडी च । या 'पूर्वसूर्ये' पूर्वदिग्विभागमध्यासीने रवौ क्रियते सा पुरःसङ्खडी, या 5 पुनरपरसूर्ये सा पश्चात्सङ्खडी । अथवा दिग्विभागेनानयोः पुरः-पश्चाद्विभागो विज्ञेयः-या विवक्षितग्रामादेः सकाशात् पूर्वस्यां दिशि भवति सा पूर्वसङ्खडी, या तु तस्यैवापरस्यां दिशि सा पश्चात्सङ्खडी ॥ ३१४३ ॥ अत्र प्रायश्चित्तमाह दुविहाए वि चउगुरू, विसेसिया भिक्खुमादिणं गमणे । गुरुगादि व जा सपदं, पुरिसेगा-ऽणेग-दिण-रातो ॥ ३१४४ ॥ 10 द्विविधायामप्यनन्तरोक्तायां सङ्खड्यां गमने चतुर्गुरुकाः । एते च भिक्षुप्रभृतीनां तपः कालविशेषिताः-भिक्षोस्तपसा कालेन च लघवः, वृषभस्य तपसा लघवः, उपाध्यायस्य कालेन लघवः, आचार्यस्य तपसा कालेन च गुरवः । अथवा चतुर्गुरुकमादौ कृत्वा एकानेकपुरुषकृतैकानेकदैवसिकसङ्खडीषु रात्रौ गच्छतः 'स्वपदं' छेदादिकं यावन्नेतव्यम् । तद्यथा-भिक्षुरेक पुरुषकृतामेकदैवसिकी सङ्खडी व्रजति चतुर्गुरवः, एकपुरुषकृतानेकदैवसिक्यां षड्लघवः, 15 +4 अनेकपुरुषकृतायामेकदैवसिक्यां षड्गुरवः, » अनेकपुरुषकृतानेकदैवसिक्यां छेदः । एवं भिक्षुविषयमुक्तम् । वृषभस्य षड्लघुकादारब्धं मूले, उपाध्यायस्य षड्गुरुकादारब्धमनवस्थाप्ये, आचार्यस्य च्छेदादारब्धं पाराश्चिके निष्ठामुपयाति ॥३१४४ ॥ प्रकारान्तरेण प्रायश्चित्तमेवाह आयरियगमणे गुरुगा, वसभाण अवारणम्मि चउलहुगा। दोण्ह वि दोण्णि वि गुरुगा, वसभ बला तेतरे सुद्धा ॥ ३१४५ ॥ 20 आचार्यस्य 'सङ्खड्यां गच्छामः' इति ब्रुवाणस्य चत्वारो गुरवः । तमेवंब्रुवाणं वृषभा न वारयन्ति चतुर्लघुकाः । अथाचार्येण 'सङ्खडी बजामः' इत्युक्ते वृषभा अपि 'व्रजामः' इति भणन्ति ततः 'द्वयोरपि' वृषभा-ऽऽचार्ययोर्ये चत्वारो मासास्ते द्वयेऽपि गुरुकाः कर्त्तव्याः, वृषभाणामपि चतुर्गुरुका भवन्तीति भावः । अथ वृषभैारिता अप्याचार्याः बलामोटिकया गच्छन्ति ततः 'ते' आचार्याः प्रायश्चित्ते लग्नाः, 'इतरे' वृषभास्ते 'शुद्धाः' न प्रायश्चित्तभाज इति ॥ ३१४५॥ सव्वेसि गमणे गुरुगा, आयरियअवारणे भवे गुरुगा। वसभे गीता-गीए, लहुगा गुरुगो य लहुगो य ॥ ३१४६ ॥ यदि सर्वेऽपि साधवो भणन्ति 'सङ्खड्यां गच्छामः' इति ततस्तेषां चत्वारो गुरुकाः । आचार्यास्तान्न वारयति चतुर्गुरवः । वृषभो न वारयति चतुर्लघवः । गीतार्थो भिक्षुर्न वारयति । गुरुको मासः । अगीतार्थो न वारयति » लघुको मासः ॥ ३१४६ ॥ एगस्स अणेगाण व, छंदेण पहाविया तु ते संता । वत्तमवत्तं सोचा, नियत्तणे होंति चउगुरुगा ॥३१४७ ।। १°वन्मन्तव्यम् भा० त० डे० का० ॥ २ एतदन्तर्गतः पाठः भा. कां. एव वर्तते ॥ ३ अत्र ग्रन्थानम्-६००० इति भा० विना ॥ ४ एतदन्तर्गतः पाठः भा० कां० एवं वर्तते ॥ 25 80 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy