________________
भाष्यगाथाः ३१४३-५०] प्रथम उद्देशः ।
९८३'एकस्य' आचार्यादेः 'अनेकेषां वा' बहूनां 'छन्देन' अभिप्रायेण 'ते' सङ्खड्या उपरि प्रधाविताः सन्तो वृत्तामवृत्तां वा सङ्खडी श्रुत्वा यदि निवर्तन्ते ततश्चतुर्गुरुका भवन्ति ।। ३१४७॥ इदमेव भावयति
वेलाए दिवसेहिं व, कत्तमवत्तं निसम्म पञ्चेति ।
होहिइ अमुगं दिवसं, सा पुण अण्णम्मि पक्खम्मिः ॥ ३१४८॥ 'वेलया दिवसैर्वा प्रतिनियतां सङ्खडी श्रुत्वा प्रस्थिताः, गच्छद्भिश्चापान्तराले श्रुतम् , यथा-सा सङ्खडी 'वृत्ता' समाप्ता 'अवृत्ता वा' अन्यस्यां वेलायामन्यस्मिन् दिवसे भाविनी; एवं वृत्तामवृत्तां वा 'निशम्य' श्रुत्वा 'प्रत्यायान्ति' प्रतिनिवर्तन्ते । स तंत्र वेलामङ्गीकृत्य » यथा कैश्चिदपि साधुभिः श्रुतम्-अद्यामुकगृहे पूर्वाहवेलायां सङ्खडी भविष्यति ततस्ते पात्राण्युद्राह्य तस्यां गन्तुं प्रस्थिताः, अपान्तराले च तैः श्रुतम् , यथा-अतिक्रान्ताः सा सवडी 110 स एवमपराह्मवेलाभाविनी सङ्खडी श्रुत्वा » प्रस्थिताः, अपान्तराले चाकर्णितम्, यथानाद्यापि तत्र वेला; एवं श्रुत्वा प्रतिनिवर्तन्ते । दिवसमधिकृत्य पुनरित्थम् - "होहिइ" इत्यादि पश्चार्द्धम् । कचिद् ग्रामे स्थितैः श्रुतम्-अमुकग्रामे 'अमुकदिवसे' पञ्चमीप्रभृतिके सङ्खडिर्भविष्यति; इत्याकर्ण्य ते तं ग्राम प्रस्थिताः, तत्र च गच्छद्भिरन्तरा श्रुतम् , यथा-वृत्ता सा सङ्खडी भविष्यति वा । कथम् ? इत्याह-“सा पुण अन्नम्मि पक्खम्मि" ति यस्यां पञ्चम्यां 15 भाविनी सङ्खडी साधुभिः श्रुता सा पुनः 'अन्यस्मिन्' अतीतेऽनागते वा पक्षे भूता वा भविष्यति वा, न तत्पक्षवर्तिनीति भावः ॥ ३१४८ ॥ अथ सङ्खडी कथं कुत्र वा भवति ? इत्युच्यते
आदेसो सेलपुरे, आदाणऽट्ठाहियाएँ महिमाए ।
तोसलिविसए विण्णवणट्ठा तह होति गमणं वा ॥ ३१४९ ॥ 'आदेशः' सङ्खडिविषये दृष्टान्तोऽयम्
20. तोसलिविषये शैलपुरे नगरे ऋषितडागं नाम सरः । तत्र वर्षे वर्षे भूयान् लोकोऽष्टाहिकामहिमां करोति.। तत्रोत्कृष्टावगाहिमादिद्र्व्यस्यादानं-ग्रहणं तदर्थ कोऽपि लुब्धो गन्तुमिच्छति । ततः स गुरूणां विज्ञपनां सङ्खडिगमनार्थ करोति । आचार्या वारयन्ति । तथापि यदि गमनं करोति ततस्तस्य प्रायश्चित्तं दोषाश्च वक्तव्या इति पुरातनगाथासमासार्थः ॥ ३१४९ ॥ अथैनामेव विवृणोति
सेलपुरे इसितलागम्मि होति अट्टाहिया महामहिमा ।
कोंडलमेंढ पभासे, अब्बुय पादीणवाहम्मिः॥ ३१५० ॥ तोसलिदेशे शैलपुरे नगरे ऋषितडागे सरसि प्रतिवर्ष महता विच्छदेनाऽष्टाहिकामहामहिमा भवति । तथा कुण्डलमेण्ठनाम्नो वानमन्तरस्य यात्रायां भरुकच्छपरिसरवर्ती भूयान् . १ वेलायां दिवसे वा प्रतिनियते प्रवर्तिष्यमाणां सङ्ख भा० ॥ २२ एतदन्तर्गतः पाठः कां० एव वर्तते ॥३॥ एतदन्तर्गतः पाठः भा० कां० एव वर्तते ॥ ४°दिधान्यस्याः ता. भा० कां. विना ॥ ५'दानार्थ कोऽपि भा० ॥ ६ ता० भा० का विनाऽन्यत्र-लमेत पभा मो.. ले । 'लमेंत पभा त० डे० ॥ ७°लमैतनानो भा० का विना। "अहवा कोंडलमिडे कों
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org