________________
८८४
सनिर्युक्ति-लघुभाप्य वृत्तिके बृहत्कल्पसूत्रे [ संखडिप्रकृतं सूत्रम् ४७
लोकः सङ्खडं करोति । प्रभासे वा तीर्थे अर्बुदे वा पर्वते यात्रायां सङ्खडिः क्रियते । 'प्राचीनवाहः' सरस्वत्याः सम्बन्धी पूर्वदिगभिमुखः प्रवाहः, तत्राऽऽनन्दपुरवास्तव्यो लोको गत्वा यथाविभवं शरदि सङ्घडिं करोति ॥ ३१५० ॥
एवमादिषु सङ्खडीषु कोऽप्युत्कृष्टद्रव्यलुब्धो गुरून् सङ्घडिगमनार्थं विज्ञपयति । गुरवो 6 ब्रुवते - आर्य ! न कल्पते सङ्घडिं गन्तुम्, ततोऽसौ मायया ब्रवीति
---
अस्थि य में पुव्वदिट्ठा, चिरदिट्ठा ते अवस्स दट्ठव्वा । मायागमणे गुरुगो, तहेव गामाणुगामम्मि ।। ३१५१ ।।
सन्ति मे तत्र ग्रामे 'पूर्वदृष्टाः पूर्वपरिचिताः सुहृदादयः, ते च 'चिरदृष्टाः' प्रभूतकाल - स्तेषां मिलितानामभवदिति भावः, अत इदानीमवश्यं द्रष्टव्यास्ते मया । एवं मायया गुरूना10 पृच्छय यदि गच्छति तदा गुरुको मासः । ग्रामानुग्रामेऽपि विहरतां सङ्घडिं श्रुत्वा गच्छतां तथैव मासगुरुकम् || ३१५१ ॥ इदमेव व्याचष्टे –
गामाशुगामियं वा, रीयंता सोउ संखडिं तुरियं ।
छड़ेति व सति काले, गामं तेसिं पि दोसा उ || ३१५२ ॥ ग्रामानुग्रामिकं वा 'रीयमाणाः' विहरन्तः क्वापि ग्रामे सङ्घडिं श्रुत्वा ये त्वरितं गच्छन्ति; 15 सति वा भिक्षाकाले तं ग्रामं परित्यजन्ति, परित्यज्य च सङ्घडिग्रामं गच्छन्ति तेषामपि 'दोषाः ' वक्ष्यमाणा भवन्ति ॥ ३१५२ ॥
गंतुमणा अन्नदिसिं, अन्नदिसि वयंति संखडिणिमित्तं ।
मूलग्गामे व अडं, पडिवसभं गच्छति तदट्ठा ॥ ३१५३ ।। भिक्षाचर्यायामन्यस्यां दिशि गन्तुमनसः सङ्खडिं श्रुत्वा तन्निमित्तमन्यस्यां दिशि व्रजन्ति । 20 मूलग्रामे वा अटन् सङ्खडिमाकर्ण्य प्रतिवृषभग्रा मे 'तदर्थं' सङ्घडिहेतोर्गच्छति ॥ ३१५३ ॥ एतेषु सर्वेष्वपि गमनप्रकारेषु दोषानुपदि दर्शयिषुराह
गाहि अगाहिं, दिया व रातो व गंतु पडिसिद्धं ।
आणादिणो य दोसा, विराहणा पंथि पत्ते य ॥ ३१५४ ॥
एकाहिकीमने काहिकीं वा तां सङ्घड़ीं गन्तुं दिवा रात्रौ वा प्रतिषिद्धां यदि गच्छति तत 25 आज्ञादयो दोषाः, विराधना च संयमा - ssत्मविषया पथि वर्तमानानां तत्र प्राप्तानां च भवति ॥ ३१५४ ॥ तत्र पथि वर्त्तमानानां तावद् दोषानभिधित्सुंराह
मिच्छत्ते उड्डाहो, विराहणा होति संजमाऽऽयाए ।
रीयादि संजमम्मि य, छक्काय अचक्खुविसयम्मि ।। ३१५५ ॥ सङ्खडिं गच्छतः साधून् दृष्ट्वा यथाभद्रकादयो मिध्यात्वे स्थिरतरीभवेयुः, उड्डाहो वा भवेत् । डलमेंढो वाणमंत । देवद्रोणी भरुयच्छाहरणीए, तत्थ यात्राए बहुजणो संखडिं करेइ । पभासे अब्बुर य पव्वए जत्ताए संखडी कीरति । पायीणवाहो सरस्वतीए, तत्थ आणंदपुरगा जधाविभवेणं बच्चति सरए ।" इति चूर्णौ विशेषचूर्णौ च ॥
१ माणलक्षणा मिध्यात्वप्रभृतयो भव' कां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org