SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ३१३६-४२ ] सूत्रम् प्रथम उद्देशः । संख डिप्रकृतम् ias वा संखडिपडियाए इत्तए ४७ ॥ ८८१ अथास्य सूत्रस्य कः सम्बन्ध: ? इत्याह- दुविहायाता उ विहे, बुत्ता ते होज संखडीए तु । तत्थ दिया विन कप्पति, किमु रातिं एस संबंधो ॥ ३१३९ ॥ ‘विहे' अध्वनि गच्छतां संयमाऽऽत्मविराधनाभेदाद् द्विविधाः प्रत्यपाया उक्ताः । सङ्खड्यामपि गच्छतां त एव प्रत्यपाया भवेयुः । अतस्तत्र दिवाऽपि गन्तुं न कल्पते किमुत रात्रौ ! एष सम्बन्धः ॥ ३१३९ ॥ 6 अनेन सम्बन्धेनायातस्यास्य व्याख्या - "संखडिं वा " इति वाशब्दाद् “न कल्पते " 10 इत्यादिपदान्यनुवर्त्तनीयानि । तद्यथा- न केवलमध्वानं रात्रौ वा विकाले वा गन्तुं न कल्पते, किन्तु सङ्खडिमपि रात्रौ वा विकाले वा सङ्खडिप्रतिज्ञया 'एतुं' गन्तुं न कल्पते । एष सूत्रसपार्थः ॥ अथ भाष्यकारो विस्तरार्थं बिभणिषुराह - संखंडिजंति जहिं, आऊणि जियाण संखडी स खलु । 15 तप्पडिताऍ कप्पति, अण्णत्थ गते सिया गमणं ।। ३१४० ॥ सम्-इति सामस्त्येन खण्ड्यन्ते - त्रोट्यन्ते 'जीवानां' वनस्पतिप्रभृतीनामायूंषि प्राचुर्येण 'यत्र ' प्रकरणविशेषे सा खलु ससडिरित्युच्यते, "खरेभ्य इ: " ( सि० हे० औ० सू० ६०६) इत्यौणादिक इप्रत्ययः, पृषोदरादित्वादनुखारलोपः, ती सङ्घडिं 'तत्प्रतिज्ञया' 'सङ्खडिमहं गमि - प्यामि' इत्येवंलक्षणया गन्तुं न कल्पते । एवं ब्रुवता सूत्रेणेदं सूचितम् – 'अन्यार्थम्' अपरकानिमित्तं सङ्खडिग्रामं गतस्य सङ्घड्यामपि गमनं स्यादिति ॥ ३१४० ॥ •1 अथात्रैव प्रायश्चित्तमाह - १ ण गम्मति ता० ॥ २ तां संखंडिजंति जहिं आऊणि जियाण संखार्ड इति लेखकप्रमादप्रविष्टः पाठः भा० कां० विना सर्वास्वपि प्रतिषु वर्तते ॥ ३ एतदन्तर्गतः पाठः मो० ले० कां० एव वर्त्तते ॥ ४ ॥ एतन्मध्यगतः पाठः कां० एव वर्त्तते ॥ Jain Education International For Private & Personal Use Only 20 राओ व दिवसतो वा, संखडिगमणे हवंतऽणुग्धाया । संखडि गमणेगा, दिवसेहिं तहेव पुरिसेहिं ।। ३१४१ ॥ रात्रौ वा दिवसतो वा सङ्खड्यां- 1 सङ्खडिग्राममुद्दिश्य गमने चत्वारोऽनुद्धाताः प्रायश्चित्तम् । सा च सङ्खडी दिवसैः पुरुषैश्चैका अनेका च भवति ॥ ३१४१ ॥ इदमेव स्पष्टयतिएगो एगदिवसियं, एगो गाहियं व कुजाहि । - 25 गा व एगदिवसिं, णेगा व अणेगदिवसं तु ॥ ३१४२ ॥ एकपुरुष एकदैवसिकीं सङ्खडीं कुर्यात्, एकः 'अनेकाहिकाम्' अनेकदैवसिक्रीम्, अनेके पुरुषाः सम्भूयैकदैवसिकीम्, अनेके पुरुषा अनेकदैवसिकीं सङ्खडीं कुर्वन्ति ॥ ३१४२ ॥ www.jainelibrary.org
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy