Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 323
________________ ८८४ सनिर्युक्ति-लघुभाप्य वृत्तिके बृहत्कल्पसूत्रे [ संखडिप्रकृतं सूत्रम् ४७ लोकः सङ्खडं करोति । प्रभासे वा तीर्थे अर्बुदे वा पर्वते यात्रायां सङ्खडिः क्रियते । 'प्राचीनवाहः' सरस्वत्याः सम्बन्धी पूर्वदिगभिमुखः प्रवाहः, तत्राऽऽनन्दपुरवास्तव्यो लोको गत्वा यथाविभवं शरदि सङ्घडिं करोति ॥ ३१५० ॥ एवमादिषु सङ्खडीषु कोऽप्युत्कृष्टद्रव्यलुब्धो गुरून् सङ्घडिगमनार्थं विज्ञपयति । गुरवो 6 ब्रुवते - आर्य ! न कल्पते सङ्घडिं गन्तुम्, ततोऽसौ मायया ब्रवीति --- अस्थि य में पुव्वदिट्ठा, चिरदिट्ठा ते अवस्स दट्ठव्वा । मायागमणे गुरुगो, तहेव गामाणुगामम्मि ।। ३१५१ ।। सन्ति मे तत्र ग्रामे 'पूर्वदृष्टाः पूर्वपरिचिताः सुहृदादयः, ते च 'चिरदृष्टाः' प्रभूतकाल - स्तेषां मिलितानामभवदिति भावः, अत इदानीमवश्यं द्रष्टव्यास्ते मया । एवं मायया गुरूना10 पृच्छय यदि गच्छति तदा गुरुको मासः । ग्रामानुग्रामेऽपि विहरतां सङ्घडिं श्रुत्वा गच्छतां तथैव मासगुरुकम् || ३१५१ ॥ इदमेव व्याचष्टे – गामाशुगामियं वा, रीयंता सोउ संखडिं तुरियं । छड़ेति व सति काले, गामं तेसिं पि दोसा उ || ३१५२ ॥ ग्रामानुग्रामिकं वा 'रीयमाणाः' विहरन्तः क्वापि ग्रामे सङ्घडिं श्रुत्वा ये त्वरितं गच्छन्ति; 15 सति वा भिक्षाकाले तं ग्रामं परित्यजन्ति, परित्यज्य च सङ्घडिग्रामं गच्छन्ति तेषामपि 'दोषाः ' वक्ष्यमाणा भवन्ति ॥ ३१५२ ॥ गंतुमणा अन्नदिसिं, अन्नदिसि वयंति संखडिणिमित्तं । मूलग्गामे व अडं, पडिवसभं गच्छति तदट्ठा ॥ ३१५३ ।। भिक्षाचर्यायामन्यस्यां दिशि गन्तुमनसः सङ्खडिं श्रुत्वा तन्निमित्तमन्यस्यां दिशि व्रजन्ति । 20 मूलग्रामे वा अटन् सङ्खडिमाकर्ण्य प्रतिवृषभग्रा मे 'तदर्थं' सङ्घडिहेतोर्गच्छति ॥ ३१५३ ॥ एतेषु सर्वेष्वपि गमनप्रकारेषु दोषानुपदि दर्शयिषुराह गाहि अगाहिं, दिया व रातो व गंतु पडिसिद्धं । आणादिणो य दोसा, विराहणा पंथि पत्ते य ॥ ३१५४ ॥ एकाहिकीमने काहिकीं वा तां सङ्घड़ीं गन्तुं दिवा रात्रौ वा प्रतिषिद्धां यदि गच्छति तत 25 आज्ञादयो दोषाः, विराधना च संयमा - ssत्मविषया पथि वर्तमानानां तत्र प्राप्तानां च भवति ॥ ३१५४ ॥ तत्र पथि वर्त्तमानानां तावद् दोषानभिधित्सुंराह मिच्छत्ते उड्डाहो, विराहणा होति संजमाऽऽयाए । रीयादि संजमम्मि य, छक्काय अचक्खुविसयम्मि ।। ३१५५ ॥ सङ्खडिं गच्छतः साधून् दृष्ट्वा यथाभद्रकादयो मिध्यात्वे स्थिरतरीभवेयुः, उड्डाहो वा भवेत् । डलमेंढो वाणमंत । देवद्रोणी भरुयच्छाहरणीए, तत्थ यात्राए बहुजणो संखडिं करेइ । पभासे अब्बुर य पव्वए जत्ताए संखडी कीरति । पायीणवाहो सरस्वतीए, तत्थ आणंदपुरगा जधाविभवेणं बच्चति सरए ।" इति चूर्णौ विशेषचूर्णौ च ॥ १ माणलक्षणा मिध्यात्वप्रभृतयो भव' कां० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364