Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 332
________________ भाष्यगाथाः ३१८५-९२] प्रथम उद्देशः । ८९३ 'कायैः' पृथिव्यादिभिरविशुद्धः पन्थाः-मागों यस्याः सङ्खडेः सा तथा, अस्यां च कायनिष्पन्नं प्रायश्चित्तम् । प्रत्यपायाश्च द्विविधाः-पथि वर्तमानस्य तत्र प्राप्तस्य च । तत्र पथि वर्तमानस्य श्वापद-स्तेन-कण्टकादयः । तत्र प्राप्तस्य तु त्रिविधाः प्रत्यपाया भवन्ति-दर्शन-ब्रह्मवता-ऽऽत्मापायभेदात् । तत्र सङ्खडिं गतस्य चरक-शाक्यादिमियुगाहणा दर्शनापायः । चरिका-तापसीप्रभृतिभिरन्याभिर्वा मत्तप्रमत्ताभिः स्त्रीभिर्ब्रह्मवतापायः । आत्मापायस्तु पूर्वोक्त एव हस्तभङ्गादिकः ।। एवंविधापायसहिता सप्रत्यपाया ॥ ३१८८ ॥ ___ अत्र च दर्शनापाये चतुर्लघुकाः । शेषेषु-स्तेनश्वापदादिषु ब्रह्मवता-ऽऽत्मविषयेषु प्रत्यपायेषु चतुर्गुरवो भवन्ति । तथा सौगतोपासकादिः सङ्खडिकर्ता विषं वा गरं वा प्रदद्यात्, एवं जीवितभेदः । चरिकादिभिश्चारित्रभेदः । एतयोर्जीवित-चारित्रभेदयोः प्रत्येकं चतुर्गुरवः । एषा यावन्तिकादिदोषदुष्टा सङ्खडिरनाचीर्णा । एतद्विपरीता आचीर्णेति ॥ ३१८९ ॥ 10 द्वितीये पदे एतैः कारणैः सङ्खडिमपि गच्छेत् - ___ कप्पइ गिलाणगट्ठा, संखडिगमणं दिया व रातो वा । दव्वम्मि लब्भमाणे, गुरुउवदेसो त्ति वत्तव्वं ॥ ३१९० ॥ ग्लानार्थ सङ्खडिगमनं दिया रात्रौ वा कल्पते । तत्र च द्रव्ये ग्लानप्रायोग्ये लभ्यमाने यावन्मानं ग्लानस्योपयुज्यते तावति प्रमाणप्राप्ते सति प्रतिषेधयन्ति । यद्यसौ दाता ब्रूयात्-किमिति 15 न गृह्णीथ ? ततः 'वक्तव्यं' भणनीयम्-गुरुः-वैद्यस्तस्योपदेशोऽयम्-यदेतावतः प्रमाणादूर्द्ध ग्लानस्य पथ्यादिकं न दातव्यम् ॥ ३१९० ॥ ईदमेव भावयति पुवि ता सक्खेत्ते, असंखडी संखडीसु वी जतति । पडिवसभमलभंते, ता वञ्चति संखडी जत्थ ॥ ३१९१ ॥ ग्लानस्य प्रायोग्यं पूर्व तावत् 'स्वक्षेत्रे' स्वग्रामेऽसङ्खड्यां गवेषयितव्यम् । यद्यसङ्खड्यां न 20 प्राप्यते ततः स्वग्राम एव याः सङ्खड्यस्तासु A ग्लानप्रायोग्यग्रहणाय » यतते । तदभावे (ग्रन्थानम्-१०००० । सर्वग्रन्थाग्रम्-२२२२०) प्रतिवृषभग्रामेष्वपि प्रथममसङ्खड्यां ततः सङ्खड्यामपि । अथ तत्रापि न लभ्यते ततो यत्र ग्रामादौ सङ्खडी भवति तत्र व्रजन्ति ॥३१९१॥ __ ताश्च सङ्खडयो द्विधा—सम्यग्दर्शनभाविततीर्थविषया मिथ्यादर्शनभाविततीर्थविषयाश्च । तत्र प्रथममाद्यासु गन्तव्यम् , यत आह उजेंत णायसंडे, सिद्धसिलादीण चेव जत्तासु । सम्मत्तभाविएसुं, ण हुंति मिच्छत्तदोसा उ ॥ ३१९२ ॥ उज्जयन्ते ज्ञातखण्डे सिद्धशिलायामेवमादिषु सम्यक्त्वभावितेषु तीर्थेषु याः प्रतिवर्ष यात्राः-सङ्खडयो भवन्ति तासु गच्छतो मिथ्यात्वस्थिरीकरणादयो दोषा न भवन्ति ।। ३१९२ ॥ एतेसिं असईए, इतरीउ वयंति तत्थिमा जतणा । [ओ. नि. ४१९] 30 १ अथ ग्लानार्थ सङ्खडिगमने विधि दर्शयति इत्येवंप्रकारमवतरणं कां० ॥ २ एनामेव नियुक्तिगाथां भाष्पकारो भाव कां० ॥ ३°म् । अथासल° भा०॥ ४ एतदन्तर्गतः पाठः मो० ले० का? एव वर्तते ॥ '25 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364