Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 335
________________ ८९६ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [संखडिप्रकृते सूत्रम् ४७ भुञ्जते । अथ संयतीनां तैर्भाजनैः शीघ्रं प्रयोजनं ततः साम्भोगिकेष्वपि भाजनेषु प्रक्षिप्यते । एवं तावद् ग्लाननिमित्तं यथा गृह्यते तथा भणितम् ॥ ३२०१॥ अथ सङ्खडीगमने कारणान्तराण्याह_अद्धाणनिग्गयादी, पविसंता वा वि अहव ओमम्मि । उवधिस्स गहण लिंपण, भावम्मि य तं पि जयणाए ॥ ३२०२ ॥ अध्वनो निर्गताः आदिशब्दादशिवादिनिर्गता वा, अध्वनि वा प्रविशन्तः, अथवा 'अवमे' दुर्भिक्षे वर्तमानाः सङ्खडिं गच्छेयुः । अथवा यत्र ग्रामादौ सङ्खडिस्तत्र 'उपधिः' वस्त्रपात्रादिकः सुलभस्तस्य ग्रहणार्थ गन्तव्यम् ; पात्रकाणि वा लेपनीयानि सन्ति, तत्र च लेपः प्रचुरः सुप्रापश्च; भावो वा शैक्षस्य सङ्खडिगमने समुत्पन्नः; एतैः कारणैः 'तदपि' सङ्खडिगमनं 10 यतनया कर्त्तव्यमिति सङ्ग्रहगाथासमासार्थः ॥ ३२०२ ॥ साम्प्रतमेनामेव विवृणोति पविट्ठकामा व विहं महंतं, विणिग्गया वा वि ततोऽधवोमे । अप्पायणट्ठाय सरीरगाणं, अत्ता वयंती खलु संखडीओ ॥ ३२०३ ॥ 'विहम्' अध्वानं 'महान्तं' विप्रकृष्टं प्रवेष्टुकामाः, 'ततो वा' अध्वनो निर्गता जनपदं प्राप्ताः, अथवा 'अवमे' दुर्भिक्षे चिरमटन्तोऽपि न पर्याप्तं लभन्ते, अतस्ते शरीराण्येव दुर्बला15 हारदग्धान्त्रतया कुत्सितत्वात् शरीरकाणि तेषामाप्यायनार्थम् ; 'आर्ताः' प्रथम-द्वितीयपरीषहपीडिताः, अथवा 'आप्ताः' राग-द्वेषरहिताः, यद्वा "भीमो भीमसेनः” इति न्यायात् आत्तःगृहीतः सूत्रार्थो यैस्ते आत्ताः-गीतार्थाः सङ्खडीजन्ति ॥ ३२०३ ॥ वत्थं व पत्तं व तहिं सुलंभ, णाणादिसि पिंडियवाणिएसु। पवत्तिसं तत्थ कुलादिकजे, लेवं व घेच्छामों अतो वयंति ॥ ३२०४ ॥ 20 'तत्र' क्षेत्रे नानाप्रकाराभ्यो दक्षिणापथादिरूपाभ्यो दिग्भ्यो वस्त्रादिविक्रयार्थ समागत्य पिण्डिताः-मिलिता ये वणिजस्तेषु वस्त्रं वा पात्रं वा सुलभम् । अथवा तत्र क्षेत्रे प्राप्ताः 'कुलादिकार्याणि' कुलं-गण-सङ्घप्रयोजनानि प्रवर्तयिष्यामः, लेपं वा तत्र प्राप्ताः सन्तो ग्रहीष्यामः । अत एवंविधं पुष्टालम्बनमवलम्ब्य सङ्खडीं व्रजन्ति ॥ ३२०४ ॥ १ अथ "शैक्षस्य सङ्खडिगमने भावः समुत्पन्नः" (गा० ३२०२) इति पदं विवृणोति-r 25 सेहं विदित्ता अतितिव्वभावं, गीया गुरुं विण्णवयंति तत्थ । जे तत्थ दोसा अभविंसु पुचि, दीवेत्तु ते तस्स हिता वयंति ॥ ३२०५ ॥ 'शैक्षम्' अभिनवप्रव्रजितम् 'अतितीव्रभावं' सङ्खडिग्रामे गमनेऽतीवतीव्राभिलाषं विदित्वा गीतार्था गुरुं विज्ञपयन्ति, तत आचार्यास्तं शैक्षं भणन्ति-एते वृषभास्ते सहायाः समर्पिताः, एतैः समं भवता सङ्खड्यां गन्तव्यमिति । ततस्ते वृषभाः 'तत्र' सङ्घड्यां गच्छतां पथि वर्तमा30 नानां तत्र प्राप्तानां च दोषाः पूर्वमभवन् अभिहिता इति भावः तान् 'तस्य' शैक्षस्य 'हिताः' मातृवदनुकूलाः सन्तो दीपयन्ति । दीपयित्वा च ततस्तं गृहीत्वा व्रजन्ति ॥ ३२०५ ॥ १ "नि नियुक्तिगा कां० ॥ २ स» एतचिह्नमध्यगतमवतरणं मो० ले कां० एव वर्तते ॥ ३ “पच्छा ते वसभा तेण सेहेण सहिया वयंति" इति चूर्णिः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364