________________
८९६ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [संखडिप्रकृते सूत्रम् ४७ भुञ्जते । अथ संयतीनां तैर्भाजनैः शीघ्रं प्रयोजनं ततः साम्भोगिकेष्वपि भाजनेषु प्रक्षिप्यते । एवं तावद् ग्लाननिमित्तं यथा गृह्यते तथा भणितम् ॥ ३२०१॥ अथ सङ्खडीगमने कारणान्तराण्याह_अद्धाणनिग्गयादी, पविसंता वा वि अहव ओमम्मि ।
उवधिस्स गहण लिंपण, भावम्मि य तं पि जयणाए ॥ ३२०२ ॥ अध्वनो निर्गताः आदिशब्दादशिवादिनिर्गता वा, अध्वनि वा प्रविशन्तः, अथवा 'अवमे' दुर्भिक्षे वर्तमानाः सङ्खडिं गच्छेयुः । अथवा यत्र ग्रामादौ सङ्खडिस्तत्र 'उपधिः' वस्त्रपात्रादिकः सुलभस्तस्य ग्रहणार्थ गन्तव्यम् ; पात्रकाणि वा लेपनीयानि सन्ति, तत्र च लेपः प्रचुरः सुप्रापश्च; भावो वा शैक्षस्य सङ्खडिगमने समुत्पन्नः; एतैः कारणैः 'तदपि' सङ्खडिगमनं 10 यतनया कर्त्तव्यमिति सङ्ग्रहगाथासमासार्थः ॥ ३२०२ ॥ साम्प्रतमेनामेव विवृणोति
पविट्ठकामा व विहं महंतं, विणिग्गया वा वि ततोऽधवोमे ।
अप्पायणट्ठाय सरीरगाणं, अत्ता वयंती खलु संखडीओ ॥ ३२०३ ॥ 'विहम्' अध्वानं 'महान्तं' विप्रकृष्टं प्रवेष्टुकामाः, 'ततो वा' अध्वनो निर्गता जनपदं प्राप्ताः, अथवा 'अवमे' दुर्भिक्षे चिरमटन्तोऽपि न पर्याप्तं लभन्ते, अतस्ते शरीराण्येव दुर्बला15 हारदग्धान्त्रतया कुत्सितत्वात् शरीरकाणि तेषामाप्यायनार्थम् ; 'आर्ताः' प्रथम-द्वितीयपरीषहपीडिताः, अथवा 'आप्ताः' राग-द्वेषरहिताः, यद्वा "भीमो भीमसेनः” इति न्यायात् आत्तःगृहीतः सूत्रार्थो यैस्ते आत्ताः-गीतार्थाः सङ्खडीजन्ति ॥ ३२०३ ॥
वत्थं व पत्तं व तहिं सुलंभ, णाणादिसि पिंडियवाणिएसु।
पवत्तिसं तत्थ कुलादिकजे, लेवं व घेच्छामों अतो वयंति ॥ ३२०४ ॥ 20 'तत्र' क्षेत्रे नानाप्रकाराभ्यो दक्षिणापथादिरूपाभ्यो दिग्भ्यो वस्त्रादिविक्रयार्थ समागत्य पिण्डिताः-मिलिता ये वणिजस्तेषु वस्त्रं वा पात्रं वा सुलभम् । अथवा तत्र क्षेत्रे प्राप्ताः 'कुलादिकार्याणि' कुलं-गण-सङ्घप्रयोजनानि प्रवर्तयिष्यामः, लेपं वा तत्र प्राप्ताः सन्तो ग्रहीष्यामः । अत एवंविधं पुष्टालम्बनमवलम्ब्य सङ्खडीं व्रजन्ति ॥ ३२०४ ॥
१ अथ "शैक्षस्य सङ्खडिगमने भावः समुत्पन्नः" (गा० ३२०२) इति पदं विवृणोति-r 25 सेहं विदित्ता अतितिव्वभावं, गीया गुरुं विण्णवयंति तत्थ ।
जे तत्थ दोसा अभविंसु पुचि, दीवेत्तु ते तस्स हिता वयंति ॥ ३२०५ ॥ 'शैक्षम्' अभिनवप्रव्रजितम् 'अतितीव्रभावं' सङ्खडिग्रामे गमनेऽतीवतीव्राभिलाषं विदित्वा गीतार्था गुरुं विज्ञपयन्ति, तत आचार्यास्तं शैक्षं भणन्ति-एते वृषभास्ते सहायाः समर्पिताः, एतैः समं भवता सङ्खड्यां गन्तव्यमिति । ततस्ते वृषभाः 'तत्र' सङ्घड्यां गच्छतां पथि वर्तमा30 नानां तत्र प्राप्तानां च दोषाः पूर्वमभवन् अभिहिता इति भावः तान् 'तस्य' शैक्षस्य 'हिताः' मातृवदनुकूलाः सन्तो दीपयन्ति । दीपयित्वा च ततस्तं गृहीत्वा व्रजन्ति ॥ ३२०५ ॥ १ "नि नियुक्तिगा कां० ॥ २ स» एतचिह्नमध्यगतमवतरणं मो० ले कां० एव वर्तते ॥ ३ “पच्छा ते वसभा तेण सेहेण सहिया वयंति" इति चूर्णिः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org