________________
भाष्यगाथाः ३१९३-३२०१] प्रथम उद्देशः । गृहीत । एवमुक्ते प्रमाणप्रासादधिकस्यापि ग्रहणं कर्त्तव्यम् ॥ ३१९७ ॥ एवं तावत् साधूनां प्रवेशे लभ्यमाने विधिरुक्तः । अथ यत्र साधवः प्रवेशं न लभन्ते तद्विषयं विधिमाह
ने वि लगभई पवेसो, साधूणं लब्भएत्थ अजाण ।
वावारण परिकिरणा, पडिच्छणा चेव अजाणं ॥ ३१९८ ॥ यत्रान्तःपुरादौ 'नापि' नैव साधूनां प्रवेशो लभ्यते किन्तु लभ्यते तत्रार्यिकाणां प्रवेशः, । कर्मकर्तर्ययं प्रयोगः ततः षष्ठी विभक्तिरदुष्टा, तत्रार्यिकाणां व्यापारणा विधेया । ततस्ता अन्तःपुरादौ प्रविश्य प्रज्ञापयन्ति । तथापि चेन्न प्रवेशो लभ्यते ततः "परिकिरण" त्ति ता आर्यिका ग्लानप्रायोग्यं गृहीत्वा साधूनां पात्रेषु परिकिरन्ति-प्रक्षिपन्ति । तत आर्यिकाणां हस्ताद् ग्लानप्रायोग्यं प्रतीच्छन्ति ॥ ३१९८ ॥ इदमेव स्पष्टयतिअलभमाणे जतिणं पवेसे, अंतेपुरे इन्भघरेसु वा वि।
10 उजाणमाईसु व संठियाणं, अज्जाउ कारिति जतिप्पसं ॥ ३१९९ ॥ राजादीनामन्तःपुरे वा इभ्यगृहेषु वा यतीनां प्रवेशेऽलभ्यमाने उद्यानादिषु वा संस्थितानां साधूनामनागन्तुकानामित्यर्थः, आर्यास्तत्र यतीन् प्रवेशं कारयन्ति । कथम् ? इति चेद् उच्यतेता आर्यिका अन्तःपुरादौ गत्वा प्रज्ञापयन्ति यथैते भगवन्तो महातपखिनो निःस्पृहाः, एतेभ्यो दत्तं बहुफलं भवति । एवमादिप्रज्ञापनया यदा तानि कुलानि भावितानि भवन्ति तदा। साधवः प्रविशन्ति ॥३१९९॥ अथ तथापि प्रवेशो न लभ्यते ततः किं कर्त्तव्यम् ? इत्याह
पुराणमाईसु व णीणवैति, गिहत्थभाणेसु सयं व ताओ।
अगारिसंकाएँ जतिचएही, हिट्ठोवभोगेहि अ आणती ॥ ३२०० ॥ आर्यिका गृहस्थभाजनेषु ग्लानप्रायोग्यं गृहीत्वा पुराणादिभिर्गृहस्थैः साधुसमीपं 'नाययन्ति' प्रापयन्तीत्यर्थः । अथ तादृशो गृहस्थो न प्राप्यते ततः खयमेव ता आर्यिका गृहिभाजनेषु 30 गृहीत्वा साधुसमीपं नयन्ति । अथागारिणः शङ्कां कुर्युः-'नूनमेता गृहस्थभाजनेष्वेवंविधमुस्कृष्टद्रव्यं गृहीत्वा केषाश्चिदविरतिकानां प्रयच्छन्ति' ततो यतीनां सत्कानि यानि अधस्तादुपभोग्यानि-असम्भोग्यानि भाजनानि उपहतानीत्यर्थः तेषु गृहीत्वा साधूनां समीपमानाययन्ति आनयन्ति वा ॥ ३२००॥ अथ न सन्ति साधूनामसम्भोग्यानि भाजनानि ततः-» तेसामभावा अहवा वि संका, गिण्हंति भाणेसु सएसु ताओ।
25 अभोइभाणेसु उ तस्स भोगो, गारत्थि तेसेव य भोगिसू वा ॥ ३२०१॥ 'तेषां' संयतभाजनानामभावात् , अथवा तेषु गृह्यमाणे गृहस्थानां 'शङ्का भवेत्' 'एतानि संयतभाजनानि, तदवश्यमेताः संयतानां प्रयच्छन्ति' ततः 'ता:' आर्यिकाः स्वकेषु भाजनेषु गृह्णन्ति । ततः साधवोऽसम्भोग्यभाजनेषु गृहीत्वा तस्य प्रायोग्यद्रव्यस्य भोगं कुर्वते । अस. म्भोग्यभाजनाभावे गृहस्थभाजनेषु । अथ तान्यपि न सन्ति ततः 'तेप्वेव' संयतीभाजनेषु 30
१ "ण वि ल० गाहा पुरातना" इति विशेषचूर्णौ ॥ २°ए उ अ° ता० ॥ ३ पनामेव निर्यक्तिगाथां स्पष्ट कां ॥ ४एतदन्तर्गतमवतरणं मो० ले० कां० एव वर्तते ॥ ५ तेसि भो ता० ॥ ६°पाम्' असम्भोग्यानां संय° का । "तेसिं ति संजतभायणाणं" इति चूणों ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org