________________
८९४
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ संखडिप्रकृते सूत्रम् ४७
पुट्ठो अतिकमिस्सं, कुणति व अण्णावदेसं तु ॥ ३१९३ ॥
'एतेषां सम्यतवभावितानामभावे 'इतरा अपि' मिथ्यात्वभाविततीर्थविषयाः सङ्खडी - जन्ति । तत्र च गच्छत इयं यतना - यदि केनापि पृच्छयते ' किं सङ्खडीं गमिष्यथ ?" इति । ततः पृष्टः सवं ब्रूयात् — अतिक्रमिष्याम्यहं सङ्खडीम्, अग्रतो गमिष्यामीत्यर्थः; अथवा ॥ अन्यापदेशं करोति, अन्यत् किमपि प्रतिवचनं ब्रूत इति भावः ॥ ३१९३ ॥
तहियं पुव्वं गंतुं, अप्पोवासासु ठाति वसहीसु ।
जे य अविषकदोसा, ण णेंति ते तत्थ अगिला ॥ ३१९४ ।।
'तत्र' सङ्खडिया पूर्वमेव गत्वा या अल्पावकाशा वसतयस्तासु तिष्ठन्ति । - गाथायां "टाइ” त्ति एकवचननिर्देशः प्राकृतस्वात् एवमन्यत्रापि वचनःप्रत्ययो यथायोगं द्रष्टव्य इति । 10 विस्तीर्णावकाशा पुनः स्थितानां गृहस्थादिभिः पश्चादागतैः सह त एवासादयो दोषाः । ये च तत्र 'अविपक्कदोषाः' इन्द्रिय- कषायान् निग्रहीतुमसमर्था अविकोविदा वा साधवः,
30
आह च चूर्णिकृत् -
अविपक्कदोसा नाम जे असमस्था निगिहिउं इंदिय-कसाए अविकोविया वा । ते तत्रालङ्कृतस्त्रीदर्शनादिसमुत्थदोषपरिजिहीर्षया 'अग्लाने' ग्लानकार्याभावे न निर्गच्छन्ति 15॥ ३१९४ ॥ अथ ग्लानस्य प्रायोग्यग्रहणे विधिमाह -
विणा उ ओभासित-संथवेहिं, जं लब्भती तत्थ उ जोग्गदव्वं । गिलाणभुतुव्वरियं वगं तु, न भुंजमाणा वि अतिकमति ।। ३१९५ ।। अवभाषणमवभाषितं—याचनमित्यर्थः, संस्तवनं संस्तवः - दातुर्गुणविकत्थनं तेन सहात्मनः सम्बन्धविकत्थनं वा, ताभ्यां विनाऽपि 'तत्र' सङ्खड्यां यत् प्रायोग्यद्रव्यं लभ्यते तत् प्रथमतो 20ग्लानस्य दातव्यम् । ततो ग्लानेन तन्मध्याद् यद् भुक्तं तत उद्वरितं भुञ्जाना अपि साधवः 'नातिक्रामन्ति' न भगवदाज्ञां विलुम्पन्ति ॥ ३१९५ ॥
ओभासियं जं तु मिलाणगट्ठा, तं माणपत्तं तु णिवास्र्यति ।
तुब्भे व अण्णे व जया तु बेंति, भुंजेत्थ तो कप्पति णऽण्णहा तू ।। ३१९६ ॥ 'यत्तु' यत् पुनः प्रायोग्यद्रव्यं ग्लानार्थमवभाषितं तद् यदा 'मानप्राप्तं' वैद्योपदिष्टपथ्यमा26 त्राप्राप्तं भवति तदा 'निवारयन्ति' पर्याप्तमायुष्मन् ! एतावता अतः परं ग्लानस्य नोपयोक्ष्यते । एवमुक्ते यदा ते गृहस्था एवं ब्रुवते - 'यूयं वा अन्ये वा साध्वो भुञ्जीध्वम्' तदा ग्लानप्रायोग्यप्रमाणादधिकमपि ग्रहीतुं कल्पते नान्यथा । तुः पादपूरणे ॥ ३१९६ ॥ इदमेव स्फुटतरमाह -
दिदिणे दाहिसि थोत्र थोवं, दीहा रुया तेण ण गिहिमोऽम्हे ।
ण हावयस्सामों गिलाणगस्सा, तुम्भे व ता गिण्हह गिण्हणेवं ।। ३१९७ ॥ भोः श्रावक ! ग्लानस्य 'दीर्घा' चिरकालस्थायिनी 'रुग्' रोगः समस्ति, अतो दिने दिने स्तोकं स्तोकमिदं ग्लानयोग्यं द्रव्यं दास्यसि, तेन कारणेन वयमिदं न गृह्णीमः । ततो यदि ते गृहस्था ब्रुवते - वयं प्रतिदिनं ग्लानस्य प्रायोग्यं न हापयिष्यामः, यूयमपि च तावत् प्रसादं कृत्वा
१
Jain Education International
एतदन्तर्गतः पाठः कां• एक वर्तते ॥
२ त्रात्मसमुत्थपरोभयदोष भा० ॥
For Private & Personal Use Only
www.jainelibrary.org