Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 328
________________ ८८९ 15 भाष्यगाथाः ३१६८-७६] प्रथम उद्देशः । तत्थोतपोतम्मि समंततेणं, भिक्खा-वियारादिसु दुप्पयारं ॥ ३१७२ ॥ समृद्ध्याः-वस्त्रा-ऽऽभरणादिरूपायाः सम्-इति सामस्त्येन यद् दर्शनम्-अवलोकनं तत्र व्यापृतेन-'इदं पश्यामि, इदं वा पश्यामि' इति व्याक्षिप्तचेतसा, तथा 'तेषां परेषां' श्रेष्ठिप्रभृतीनां यान-वाहनादीनि 'मुख्यानि' प्रधानानि विविधम्-अनेकप्रकारं पश्यता सूत्रार्थयोः परिमन्थः कृतः स्यादिति शेषः । तत्र चे स्त्री-पुरुषैः समन्ततः 'उअपोते' देशीपदत्वाद् -5 आकीर्णे भिक्षायां विचारभूमौ आदिशब्दाद् विहारभूम्यादौ च दुष्प्रचारं भवति । यत एते दोषा अतः सङ्खड्यां न गन्तव्यम् ॥ ३१७२ ॥ अथ परः प्राह दोसेहिँ एत्तिएहिं, अगेण्हंता चेव लग्गिमो अम्हे। गेहामु य मुंजामु य, ण य दोस जहा तहा सुणसु ॥ ३१७३॥ सङ्खडिगमने यावन्त एते भवद्भिर्दोषा उक्ता एतावद्भिर्वयं सङ्खडिभक्तमगृह्णाना एव लगामः, 10 ततो न कार्यमस्माकं प्रामादिमध्याध्यासनेन । सूरिराह-वयं सङ्खडिभक्तं गृहीमो वा भुञ्जमहे वा न च 'दोषाः' पूर्वोक्ता यथा भवन्ति तथाऽभिधीयमानं शृणु । इयं पुरातना गाथा ॥३१७३॥ अथैनामेव व्याख्यानयति अपरिग्गहिय अभुत्ते, जति दोसा एत्तिया पसजंती। इत्थं गते सुविहिया, वसंतु रण्णे अणाहारा ।। ३१७४ ॥ परः प्राह-अपरिगृहीतेऽभुक्तेऽपि च सङ्खडिभक्ते यद्येतावन्तो दोषाः पथि गच्छतां प्रामादेमध्ये बहिश्च तिष्ठतां भवन्ति, ततः 'इत्थम्' एवं 'गते' स्थिते सम्प्रति सुविहिता अनाहाराः सन्तोऽरण्ये वसन्तु ॥ ३१७४ ॥ गुरुराह होहिंति न वा दोसा, ते जाण जिणो ण चेव छउमत्थो। पाणियसद्देण उवाहणाउ णाविन्भलो मुयति ॥ ३१७५ ॥ 20 हे नोदक ! नायं नियमो यत् सङ्खडिं गच्छतामवश्यमनन्तरोक्ता दोषा भवन्ति, कारणे यतनया गच्छतस्तेषामसम्भवात् ; ततः 'ते दोषा भविष्यन्ति वा न वा' इत्येवं जिनो जानाति नैव छद्मस्थो भवादृशः । अतो यदुक्तं भवता-"इत्थं गते सुविहिता अरण्ये गत्वा वसन्तु" (गा० ३१७४ ) तदेतदज्ञानविजृम्भितम् , यतः पानीयशब्देनोपानही न 'अविह्वलः' अमूखों मुञ्चति, यो मूल् भवति स एव मुञ्चतीति भावः; एवं भवानपि सङ्खडिगमनमात्रे दोषोपप्रदर्शनं 25 श्रुत्वा यदेवं ग्रामादीन् परित्यज्यारण्यवासमभ्युपगच्छति तद् नूनमबुधचक्रवर्तीति हृदयम् ॥ ३१७५॥ अपि च दोसे चेव विमग्गह, गुणदेसित्तेण णिचमुजुत्ता। ण हु होति सप्पलोद्धी, जीविउकामस्स सेयाए ॥ ३१७६ ॥ हे नोदक ! « यद्यपि कारणे वक्ष्यमाणयतनया सङ्खडिगमने प्रत्युत बहवो गुणा भवन्ति 30 तथापि » गुणद्वेषित्वेन यूयं नित्यमुद्युक्ताः सन्तो गुणान्वेषणबुड्या दोषानेव विमार्गयथ न १च मत्तोन्मत्तादिभिः स्त्री भा० ॥२- एतच्चिह्नगतः पाठः भा० नास्ति ॥ ३ - एतदन्तर्गतः पाठः मो० ले० का. एव वर्तते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364